Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
११
शास्त्रयोगशुद्धिनामाऽधिकारः
गौणीकृतमोक्ष-प्रधानीकृतार्थकामाधिकारा-ऽनल्पकल्पनोपनीतकथोद्बोधप्रवणविधिनिषेधगुम्फितस्य त्वन्यशास्त्रस्योक्तकषशुद्धिलक्षणविकलत्वेन न कषशुद्धिमत्त्वमित्यर्थतः प्रकटयति -
अर्थकामविमिश्रं यद्, यच्च क्लृप्तकथाविलम् ।
आनुषङ्गिकमोक्षार्थं, यन्न तत् कषशुद्धिमत् ॥१.२०॥ छेदशुद्धिस्वरूपं लक्षयति -
विधीनां च निषेधानां, योगक्षेमकरी क्रिया ।
वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेदशुद्धिमत् ॥१.२१॥ योगक्षेमकरीति विहितानुष्ठानमङ्गोपाङ्गक्रियाकलापोपेततया तद्विधीनां योगः, उत्तरोत्तरमपि भूयस्तथैवाऽनुगमनं न तु विपरीततया तत्तत्संरक्षणपर्यवसितं क्षेमः; प्रतिषिद्धस्याऽननुष्ठानमकरणाकारिताननुमत्यादिभिः तन्निषेधानां योगः, तथैवोत्तरोत्तरकालं कदाचिदप्यनाचरणं क्षेमः, तत्करी- तत्सम्पादनप्रवणा ॥१.२१॥ इयं च छेदशुद्धि: जैनागमे समस्तीत्युपदर्शयति - . कायिकाद्यपि कुर्वीत, गुप्तश्च समितो मुनिः ।
कृत्ये ज्यायसि किं वाच्य-मित्युक्तं समये यथा ॥१.२२॥ कायिकाद्यपीति मूत्रविसर्जनाद्यपीत्यर्थः ॥१.२२॥
यत्र चोत्सर्गस्य सामान्यशास्त्रस्य विषयोऽन्यार्थकः, अपवादस्य विशेषस्य विषयस्तदन्यार्थकः, तच्छास्त्रं न च्छेदशुद्धिमदित्याह -
अन्यार्थं किञ्चिदुत्सृष्टं, बत्राऽन्यार्थमपोह्यते ।
दुर्विधिप्रतिषेधं तद्, न शास्त्रं छेदशुद्धिमत् ॥१.२३॥ यथा “मा हिंस्यात् सर्वभूतानी''ति [ ] सामान्यशास्त्रविषयः सर्वप्राणिहिंसानिषेधोऽनिष्टनिवृत्त्यर्थकः; "वायव्यं श्वेतं छागमालभेत भूतिकाम'' इति [ ]विशेषशास्त्रविषयो वायुदेवतोद्देश्यक-श्वेतछागालम्भनरूपप्राणिहिंसनं भूत्यर्थकमिति उत्सृष्टम्- उत्सर्गविषयः, अपोह्यते- अपोद्यते उत्सर्गविषयत्वात् प्रच्याव्यत इति यावत् ॥१.२३।।
विधायकशास्त्रेण निषिद्धस्येष्टसाधनत्वप्राप्तावपि निषेधशास्त्रबोधितमनिष्टसाधनत्वं ततो न परावर्तते, भिन्नापेक्षयैकत्रेष्टसाधनत्वा-ऽनिष्टसाधनत्वयोरुभयोरपि सम्भवेन सामान्यस्य निषेधशास्त्रस्य विशेषविधिशास्त्रविषयातिरिक्तविषयनिषेधपरत्वेन सङ्कोचनस्य युक्तिमार्गातीतत्वादित्याशयेनाऽऽह -
१. पञ्चवस्तुकादौ मोक्षोद्देशकानामपि रागादिक्षयाक्षमविधानपरायणानां सावद्यकार्यविषयकस्थूलाव्यापक-निषेधपराणां शास्त्राणां कषशुद्धिविरहितत्वमावेदितमस्ति । एतदप्यत्रोपलक्षणेनाऽन्तर्भाव्यम् । २. यत्र शास्त्रे यत्किञ्चित् प्रयोजनमुद्दिश्योत्सर्गतया प्रकाशितं विधेयादि प्रयोजनान्तरमुद्दिश्याऽपवादविषयीक्रियते तद् भिन्नाधिकारविधिनिषेधगुम्फितं शास्त्रं छेदशुद्धिविरहितं भवति इति भावः ।
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118