Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ अध्यात्मोपनिषत्प्रकरणम् अबद्धं परमार्थेन, बद्धं च व्यवहारतः । बुवाणो ब्रह्म वेदान्ती, नाऽनेकान्तं प्रतिक्षिपेत् ॥१.५०॥ 'ब्रह्म परमार्थेनाऽबद्धं व्यवहारतश्चाऽबद्ध'मित्येवं ब्रुवाणो वेदान्त्यनेकान्तं न प्रतिक्षिपेदित्यन्वयः । तन्मते "एकमेवाऽद्वितीयं ब्रह्म नेह नानाऽस्ति किञ्चन, सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादि श्रुत्या सच्चिदानन्दस्वरूपस्य ब्रह्मण एव त्रिकालाबाध्यत्वलक्षणं पारमार्थिकसत्त्वं; पारमार्थिकदृष्ट्याऽविद्यादेर्बन्धकस्याऽभावादेव न तस्य बद्धत्वमित्यबद्धं परमार्थेन ब्रह्म । संसारकालाबाधालक्षण-व्यावहारिकसत्त्वस्याऽविद्यादौ भावाद् व्यवहारदशायामन्त:करणावच्छिनचैतन्यादिलक्षणजीवरूपतया ब्रह्मणः सद्वितीयत्वभावाद् व्यवहारतो बद्धं ब्रह्म इत्येवं बद्धत्वा-ऽबद्धत्वाभ्यां ब्रह्मण्यपि स्याद्वादः पदं निधत्त इति कथं तथाऽभ्युपगन्ता वेदान्ती स्याद्वादप्रतिक्षेपक इति भावः ॥१.५०॥ "सदेव सौम्येदमग्र आसीत्, असदेवेदमासीत्, नो सदासीत्, नो असदासीत्" इत्येवं नयभेदेनाऽर्थभेदान् यथास्थानं प्रतिपादयन् वेदोऽप्यखिलः स्याद्वादव्यवस्थितावेव सम्मुखीभवन् कथं स्याद्वादप्रतिक्षेपक इत्याह - ब्रुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयु! वेदाः, स्याद्वादं सार्वतान्त्रिकम् ॥१.५१॥ ब्रुवाणा इति सम्पूर्णस्याऽपि वेदस्य स्याद्वादसाम्मुख्यं, न तु तदेकदेशस्येत्यधिगतये बहुवचनम् । नयभेदव्यपेक्षयेति स्याद्वादप्रमाणराजसाहाय्येनैवाऽमिथ्यार्थत्वेन वेदप्रामाण्योपपत्तिः, अन्यथा पूर्वापरविरुद्धार्थतयैकत्र मिथ्यात्वसम्भवेन प्रामाण्यमेव न स्यादित्यर्थस्याऽवगतये । ___ननु नयभेदव्यपेक्षयैव भिन्नभिन्नार्थप्रतिपादकत्वेऽपि वेदानां प्रामाण्योपपत्तिसम्भवात् स्याद्वादस्य क इहोपयोग इति स्याद्वादस्य सार्वतान्त्रिकमिति विशेषणम् । न हि स्याद्वादः कञ्चिदपूर्वमर्थमनुशास्ति । किन्त्वपेक्षावचनात्मकनयभेदाश्रयणमेव स्याद्वादः । अपेक्षावचनात्मकनयभेदाश्रयणमस्ति चेद् वेदे स स्याद्वादस्यैवोद्गारः । न तु प्रत्येकं तन्त्राणां, तेषां स्वस्वविषयमात्रप्ररूपणव्यग्रत्वेन विरोधोपपादने कुण्ठत्वात् । स्याद्वादस्य तु सर्वनयसमूहमयस्य तत्तन्नयव्यपेक्षया तत्तदर्थसंयोजनापरत्वेन तत्तदर्थभेदानामविरोधोपदर्शनेन यथास्थानमुपपादनप्रवणत्वात् । अत एव न तस्य कुत्रापि पक्षपातः, माध्यस्थ्यमेव सर्वत्रेति सर्वतन्त्रमध्यस्थत्वात् सार्वतान्त्रिकत्वं तस्य घटते, नाऽन्यस्य कस्यचित् । अथक सर्वहितत्वात् सार्वो जिनः, तत्तन्त्रत्वात् तदधीनत्वान्मूकत्वेन तदपेक्षत्वात् सार्वतान्त्रिकत्वं तस्येति बोध्यम् ॥१.५१॥ ननु प्रत्यक्षमात्रस्य प्रमाणतयाऽभ्युपगन्ता भूतचतुष्टयतत्त्ववादी चार्वाक आगममात्रस्य प्रामाण्यमपलपन् स्याद्वादं प्रतिक्षिपत्येवेति कथं तं वादीकृत्य स्याद्वादस्य तदभ्युपगमनप्रयोज्यबाधपरिहारलक्षणतापशुद्धिरुपपादयितुं भवता शक्येत्यत आह - विमतिः सम्मतिर्वाऽपि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥१.५२॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118