Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ ३७ ज्ञानयोगशुद्धिनामाऽधिकारः __विषयानिति । कञ्चनकामिनीचन्दनादीनित्यर्थः । साधकः- ज्ञानयोगनिष्पत्त्यनुकूलव्यापारवान् । पूर्वज्ञानयोगानिष्पत्तिदशायामनिष्टत्वधिया- स्वरूपविश्रान्तिलक्षणज्ञानसुखावाप्तिप्रतिबन्धकत्वप्रयोज्यानिष्टत्वबुद्ध्यो । त्यजेत्- दूरत एव परिवर्जयेत् । सिद्धः- सम्पन्नज्ञानयोगः । तस्य कर्तव्यस्य योगस्य सम्पत्तेर्न विषयासक्तौ तत्प्रतिबन्धकत्वबुद्धिरित्यनिष्टत्वबुद्ध्यभावान्न विषयपरित्यागः । ज्ञानसुखनिमग्नस्य स्वभावत एव विषयसुखेच्छा नोत्पद्यते इति फलेच्छाभावे तज्जनितोपायेच्छाया अप्यभाव इति न तदुपादानलक्षणं विषयग्रहणमित्याह - न त्यजेन्न च गृह्णीयादिति । अत्यन्तमूढोऽपि कश्चिद् विषयस्वरूपानवबोधतो न विषयपरित्यागग्रहणवान्, तादृशश्चाऽयमपीत्युपेक्ष्य एव लोकानामत आह - विन्द्यात् स तत्त्वत इति । यस्य विषयस्य यादृग् रूपं तं तादृग्रूपेण जाननेव न गृह्णाति न परित्यजति चेति ज्ञानकृतावेवाऽस्य ग्रहणाभाव-परित्यागाभावावित्यादरणीयतम एव लोकानामिति भावः ॥२.९॥ साधक-सिद्धयोः सुखदुःखावस्थानवैलक्षण्यतो वैलक्षण्यं सुखावबोधमित्युपदर्शयति – योगारम्भदशास्थस्य, दुःखमन्तर्बहिःसुखम् । .. सुखमन्तर्बहिर्दुःखं, सिद्धयोगस्य तु ध्रुवम् ॥२.१०॥ - अन्तर्दु:खमिति । स्वरूपविश्रान्तिलक्षणज्ञानसुखानवाप्त्या तदवाप्त्यनुकूलप्रयासबाहुल्यमेवाऽन्तर्दु:खमित्यर्थः । बहिःसुखमिति । अनिष्टत्वधिया विषयपरित्यागेन तदर्जनक्षणादिगोचरप्रयासाल्पीभावतस्तज्जनितदुःखानुत्पादलक्षणं सुखमभावे भावोपचारतो बहिःसुखमित्यर्थः । यतोऽस्य ज्ञानसुखनिष्पत्तयेऽनवरतं ज्ञानेनाऽन्तर्मुखभवनलक्षणाभ्यासो वरीवति । स चाऽसम्पादितकार्यनिष्पत्तिकत्वाद् दुःखमिवेति । सुखं तु स्वरूपविश्रान्तिलक्षणज्ञानसुखमनिष्पन्नत्वाद् बहिरेव यावन्न जातमित्यतोऽपि बहिःसुखमिति बोध्यम् । सिद्धयोगस्य तु- पुनः स्वरूपविश्रान्तिलक्षणज्ञानसुखस्याऽऽत्मनि एकतया सद्भावाद् अन्तःसुखमिति । बाह्यस्य तु विषयपरिभोगजनितस्य सुखस्य परोपधिकत्वाद् दुःखमिवेति बहिर्दुःखमिति ॥२.१०।। किं तत् सुखं यस्य बहिरन्तर्भावः साधकसिद्धव्यपेक्षयोच्यते ? किं च तद् दुःखं यस्याऽन्तर्बहिर्भावः साधकसिद्धव्यपेक्षयेत्यपेक्षायां सुखस्वरूपं तावदाह - प्रकाशशक्त्या यद्रूप-मात्मनो ज्ञानमुच्यते । सुखं स्वरूपविश्रान्ति-शक्त्या वाच्यं तदेव तु ॥२.११॥ . आत्मनो यद् रूपं- स्वरूपं प्रकाशशक्त्या- वस्तुप्रकाशनसामर्थ्येन ज्ञानमुच्यते- 'ज्ञान' पदाभिधेयं भवति, तदेव स्वरूपं स्वरूपविश्रान्तिशक्त्या- शुद्धात्मस्वभावमात्रावस्थानशक्त्या तु सुखं- 'सुख'पदेन १. स्वरूपे या विश्रान्तिस्तल्लक्षणं यद् ज्ञानसुखं तदवाप्तेः यत् प्रतिबन्धकत्वं तत्प्रयोज्यं यदनिष्टत्वं विषयनिष्ठं तबुद्ध्या ।'

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118