Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 47
________________ 30 भावनाज्ञानवतः शास्त्रवित्त्वमाविष्करोति तेन स्याद्वादमालम्ब्य, सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥१.७०॥ तेनेति । भावनाज्ञानेनेत्यर्थः । स्याद्वादमालम्ब्य अनेकान्तवादमाश्रित्य कथञ्चिदर्थप्रवेशेन । कथञ्चिदर्थमेव मनसि स्थितं प्रकटयति - मोक्षोद्देशाविशेषेणेति । तथा च दर्शनानां स्वस्वभेदनिमित्तमन्तव्यप्रकारभेदेऽपि मोक्षोद्देशेन प्रवृत्तिरविशिष्टेति तदपेक्षया सर्वदर्शनतुल्यतागमः स्याद्वादमवलम्ब्यैव, न तु तं तटस्थीकृत्येति स्याद्वाद्येव सर्वदर्शनतुल्यताद्रष्टा शास्त्रवित्, नाऽन्यः । स्याद्वादावलम्बनमपि भावनाज्ञानवानेव कर्तुं विदग्धो, यो यथावच्छास्त्रार्थं विधिनिषेधव्यतिमिश्रमविरोधेन योजयितुं जानातीत्याशयः ॥ १.७०॥ अध्यात्मोपनिषत्प्रकरणम् ननु सर्वदर्शनतुल्यतादर्शनेन माध्यस्थ्यमेव स्यात्, ततः शास्त्रवित्त्वं कथम् ? अतो माध्यस्थ्यस्य शास्त्रार्थत्वमाविष्करोति - माध्यस्थ्यमेव शास्त्रार्थो, येन तच्चारु सिध्यति । स एव धर्मवादः स्या- दन्यद् बालिशवल्गनम् ॥१.७१॥ शास्त्रस्य तात्पर्यविषयोऽर्थः तेन माध्यस्थ्यस्य शास्त्रानभिधेयत्वेऽपि न क्षतिः । कुतो माध्यस्थ्यस्य साक्षाच्छास्त्रेणाऽनभिधानेऽपि शास्त्रार्थत्वमुररीक्रियते इत्यत आह ' - येनेति । येन माध्यस्थ्येनेत्षर्थः । तत्- शास्त्रं, चारु- समीचीनं सिद्ध्यति - निष्पद्यते । अन्यथा रागद्वेषकलुषितस्य शासनत्राणशक्तिरूपव्युत्पत्तिनिमित्ताभावाच्छास्त्रत्वमेव न स्यात् । अथवा शास्त्रार्थ इत्यस्य शास्त्रजज्ञानजन्यफलमित्यर्थः । येन तादृशफलवत्त्वेन, तत्- शास्त्रं चारुसमीचीनमिष्टसाधनस्वरूपं सिद्ध्यति भवति । अन्यथेष्टसाधनत्वाभावेन समीचीनत्वं तस्य न स्यात् । स एव- माध्यस्थ्यपर्यवसितः शास्त्रार्थ एव । एवकारव्यवच्छेद्यमाह - अन्यद् बालिशवल्गनमिति । अन्यत्- माध्यस्थ्यार्थविकलं यत्किमपि दर्शनं तद् बालिशानां - मूर्खाणामसंबद्धप्रलपनमिवेत्यर्थः ॥१.७१॥ न केवलं माध्यस्थ्यलक्षणाध्यात्मवर्जितस्य शास्त्रस्य धर्मवादत्वाभावाद् हितानावहत्वं, स्वपक्षपरिग्रहपरपक्षखण्डनप्रधानत्वेन रागद्वेषकालुष्यतः संसारस्वभावत्वेनाऽनिष्टजनकत्वमपीत्याह पुत्रदारादि संसारो, धनिनां मूढचेतसाम् । पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥ १.७२॥ यथा धनिनां मूढचेतसां - तत्त्वज्ञानरहितत्वेन मोहसम्मूढमनसां पुत्रदारादि रागद्वेषजनकत्वेन भवभ्रमणहेतुत्वात् संसार एव, कारणे कार्योपचारात् । तथैव अध्यात्मवर्जितशास्त्रस्य स्वपक्षस्थापनायास १. वृत्त्यन्तरे " येन वादेन चारु- सुन्दरं तत्- माध्यस्थ्यं सिद्धयति निष्पद्यते स एव धर्मवादः स्यादित्यर्थो विहितः । सोऽपि सङ्गत एव भाति ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118