________________
30
भावनाज्ञानवतः शास्त्रवित्त्वमाविष्करोति
तेन स्याद्वादमालम्ब्य, सर्वदर्शनतुल्यताम् ।
मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥१.७०॥
तेनेति । भावनाज्ञानेनेत्यर्थः । स्याद्वादमालम्ब्य अनेकान्तवादमाश्रित्य कथञ्चिदर्थप्रवेशेन । कथञ्चिदर्थमेव मनसि स्थितं प्रकटयति - मोक्षोद्देशाविशेषेणेति । तथा च दर्शनानां स्वस्वभेदनिमित्तमन्तव्यप्रकारभेदेऽपि मोक्षोद्देशेन प्रवृत्तिरविशिष्टेति तदपेक्षया सर्वदर्शनतुल्यतागमः स्याद्वादमवलम्ब्यैव, न तु तं तटस्थीकृत्येति स्याद्वाद्येव सर्वदर्शनतुल्यताद्रष्टा शास्त्रवित्, नाऽन्यः ।
स्याद्वादावलम्बनमपि भावनाज्ञानवानेव कर्तुं विदग्धो, यो यथावच्छास्त्रार्थं विधिनिषेधव्यतिमिश्रमविरोधेन योजयितुं जानातीत्याशयः ॥ १.७०॥
अध्यात्मोपनिषत्प्रकरणम्
ननु सर्वदर्शनतुल्यतादर्शनेन माध्यस्थ्यमेव स्यात्, ततः शास्त्रवित्त्वं कथम् ? अतो माध्यस्थ्यस्य शास्त्रार्थत्वमाविष्करोति -
माध्यस्थ्यमेव शास्त्रार्थो, येन तच्चारु सिध्यति ।
स एव धर्मवादः स्या- दन्यद् बालिशवल्गनम् ॥१.७१॥
शास्त्रस्य तात्पर्यविषयोऽर्थः तेन माध्यस्थ्यस्य शास्त्रानभिधेयत्वेऽपि न क्षतिः । कुतो माध्यस्थ्यस्य साक्षाच्छास्त्रेणाऽनभिधानेऽपि शास्त्रार्थत्वमुररीक्रियते इत्यत आह ' - येनेति । येन माध्यस्थ्येनेत्षर्थः । तत्- शास्त्रं, चारु- समीचीनं सिद्ध्यति - निष्पद्यते । अन्यथा रागद्वेषकलुषितस्य शासनत्राणशक्तिरूपव्युत्पत्तिनिमित्ताभावाच्छास्त्रत्वमेव न स्यात् ।
अथवा शास्त्रार्थ इत्यस्य शास्त्रजज्ञानजन्यफलमित्यर्थः । येन तादृशफलवत्त्वेन, तत्- शास्त्रं चारुसमीचीनमिष्टसाधनस्वरूपं सिद्ध्यति भवति । अन्यथेष्टसाधनत्वाभावेन समीचीनत्वं तस्य न स्यात् ।
स एव- माध्यस्थ्यपर्यवसितः शास्त्रार्थ एव । एवकारव्यवच्छेद्यमाह - अन्यद् बालिशवल्गनमिति । अन्यत्- माध्यस्थ्यार्थविकलं यत्किमपि दर्शनं तद् बालिशानां - मूर्खाणामसंबद्धप्रलपनमिवेत्यर्थः ॥१.७१॥ न केवलं माध्यस्थ्यलक्षणाध्यात्मवर्जितस्य शास्त्रस्य धर्मवादत्वाभावाद् हितानावहत्वं, स्वपक्षपरिग्रहपरपक्षखण्डनप्रधानत्वेन रागद्वेषकालुष्यतः संसारस्वभावत्वेनाऽनिष्टजनकत्वमपीत्याह
पुत्रदारादि संसारो, धनिनां मूढचेतसाम् ।
पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥ १.७२॥
यथा धनिनां मूढचेतसां - तत्त्वज्ञानरहितत्वेन मोहसम्मूढमनसां पुत्रदारादि रागद्वेषजनकत्वेन भवभ्रमणहेतुत्वात् संसार एव, कारणे कार्योपचारात् । तथैव अध्यात्मवर्जितशास्त्रस्य स्वपक्षस्थापनायास
१. वृत्त्यन्तरे " येन वादेन चारु- सुन्दरं तत्- माध्यस्थ्यं सिद्धयति निष्पद्यते स एव धर्मवादः स्यादित्यर्थो विहितः । सोऽपि सङ्गत एव भाति ।