________________
३१
शास्त्रयोगशुद्धिनामाऽधिकारः परपक्षखण्डनायासजनितदुःखजनकत्वेनेहैव तावदतिपीडकत्वेन संसारत्वं, परलोकेऽपि चाऽसदुपदेशादिजनितपापफलदुःखसम्पादकत्वेन भवभ्रमणहेतुत्वेन तत्त्वमिति बोध्यम् ॥१.७२।। माध्यस्थ्यस्य सर्वतः प्राधान्यमर्थत उपदर्शयति -
माध्यस्थ्यसहितं ह्येक-पदज्ञानमपि प्रमा।
शास्त्रकोटिर्वथैवाऽन्या, तथा चोक्तं महात्मना ॥१.७३॥ माध्यस्थ्यसहितमिति । पक्षपातादिरहितमित्यर्थः । तच्च स्याद्वादार्थालम्बनत्वेनैव सम्पद्यते । एकपदज्ञानमपि- एकपदजन्यज्ञानमपि । अपिना वाक्य-महावाक्यजज्ञानस्य माध्यस्थ्यसहितस्य प्रमात्वे किमु वक्तव्यमित्यावेदितं भवति ।
अन्या- माध्यस्थ्यविकला स्याद्वादानपेक्षेति यावत् । शास्त्रकोटिपदं बहुसङ्ख्यामात्रोपलक्षणम् । वृथैवेति । प्रमाजनकत्वाभावेन ततः कस्यचिदप्यर्थस्याऽसिद्धेः ।
उक्तार्थे प्राचां संवादमुपदर्शयति - तथा चोक्तं महात्मनेति ॥१.७३।। तद्वचनमुट्टङ्कयति -
"वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ" ॥१.७४॥ - स्वपक्षसाधनं वादः, प्रतिपक्षखण्डनं प्रतिवाद इतिकृत्वा वाद-प्रतिवादयोर्भेदोऽवधारणीयः । तिलपीलकवदिति दृष्टान्तः समयज्ञादवसेयः ॥१.७४॥ माध्यस्थ्यसहितपदज्ञानवतो विशिष्टसुखाप्तौ निदर्शनमुपदर्शयति -
इति यतिवदनात् पदानि बुद्ध्वा, प्रशम-विवेचन-संवराभिधानि ।
प्रदलितदुरितः क्षणाच्चिलाति-तनय इह त्रिदशालयं जगाम ॥१.७५॥ इतिशब्दो हेतुवचनः । तथाचैकपदज्ञानस्य प्रमात्वत इह चिलातितनयों यतिवदनात् प्रशमविवेचनसंवराभिधानि पदानि बुद्ध्वा प्रदलितदुरितः सन् क्षणादतिशीघ्रं त्रिदशालयं- स्वर्गं जगामेत्यन्वयः । अर्थस्तु व्यक्त एवेति ॥१.७५॥ __ चिलातितनयस्य स्याद्वादावगमाभावान्माध्यस्थ्यमेव दुर्घटमिति पदविशेषज्ञानमात्रेण स्वर्गगमनमसम्भावनास्पदमित्यत आह -
न चाऽनेकान्तार्थावगमरहितस्याऽस्य फलितं,
कथं माध्यस्थ्येन स्फुटमिति विधेयं भ्रमपदम् । १. प्रमा- साफल्यसम्पादकम् । २. अत्र योगबिन्दुवृत्त्याद्यनुसारेण "वदन्तो निश्चितांस्तथा" इति पाठोऽपि सम्भाव्यते । ३. तिलपीलकवद्- निरुद्धाक्षसञ्चार-तिलयन्त्रवाहननियुक्तैकगोमहिषादिवत् । ४. चिलातिपुत्रस्य कथानकमावश्यकनियुक्ति - ८७२-८७५ गाथातोऽवसेयम् ।