________________
अध्यात्मोपनिषत्प्रकरणम् समाधेरव्यक्ताद् यदभिदधति व्यक्तसदृशं,
फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते ॥१.७६॥ न चेत्यस्य विधेयमित्यनेनाऽन्वयः । अनेकान्तार्थावगमरहितस्याऽस्य चिलातितनयस्य कथं माध्यस्थ्येन स्फुटं फलितमिति भ्रमपदं न च विधेयम् ।
निषेधे हेतुः समाधेरिति । यत्- यस्मात्, योगाचार्या- योगस्वरूपाभिज्ञाः सूरयोऽभिनिवेशेकदाग्रहे विगलिते सति अव्यक्तात् समाधेः व्यक्तसदृशं फलं ध्रुवमित्यभिदधतीत्यन्वयः ।
अर्थस्त्वस्याऽपि व्यक्त एव । केवलमेकान्ताभिनिवेशाभावात् सामान्यतोऽनेकान्तार्थावगमस्तस्याऽप्यस्त्येवेति भावार्थोऽवसेयः ॥१.७६।। प्रथमं शास्त्रयोगशुद्ध्यधिकारमुपसंहरति -
विशेषादोघाद् वा सपदि तदनेकान्तसमये, समुन्मीलद्भक्तिर्भवति य इहाऽध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोज्जागररुचि
र्यशःश्रीस्तस्याऽङ्कं त्यजति न कदाऽपि प्रणयिनी ॥१.७७॥ : तत्- तस्मात् पूर्वोपदर्शितयुक्तिदृष्टान्तकदम्बतः । विशेषाद्- विशेषरूपतः, ओघात्- सामान्यरूपतः, वाकारो विकल्पार्थक उभयोः समप्रधानताख्यापनार्थः । सपदि. झटिति, न तु स्याद्वादराद्धान्ते कारणफलादिपर्यालोचनविलम्बनतो विलम्बन भक्तिर्विधेयेति भावः ।।
इह- अनेकान्तसमये अध्यात्मविशदो यः कश्चित् पुरुषविशेष: समुन्मीलद्भक्तिः- प्रकटितभक्तिर्भवति- स्यात्, तस्य पुरुषविशेषस्याऽङ्क- क्रोडं भृशम्- अत्यर्थं प्रणयिनी- प्रियतमा यशःश्री:यशोलक्ष्मीः; अनेन चाऽध्यात्मोपनिषत्प्रकरणप्रणेता श्रीमद्यशोविजयोपाध्यायः स्वनामोट्टङ्कनं कृतवान्; यशःश्रीः कथम्भूतेत्यपेक्षायामाह - धीरोदात्तप्रियतमगुणोज्जागररुचिरिति, कदापि न त्यजति ॥१.७७।।
॥ इति शास्त्रयोगशुद्धिनामा प्रथमोऽधिकारः ॥
१. नायकस्य धीरोदात्तादिभेदा नाट्यशास्त्रादितोऽवगन्तव्याः ।