________________
ज्ञानयोगशुद्धिनामाऽधिकारः
अथ शास्त्रयोगसम्पन्न एव ज्ञानयोगेऽधिकृतो भवतीति शास्त्रयोगप्ररूपणानन्तरं ज्ञानयोगं निरूपयति -
दिशा दर्शितया शास्त्रै-र्गच्छन्नच्छमतिः पथि ।
ज्ञानयोगं प्रयुञ्जीत, तद्विशेषोपलब्धये ॥२.१॥ अच्छमति:- निर्मलमति: माध्यस्थ्यपरिनिष्ठितमतिः पुमान्, शास्त्रैः- स्याद्वादागमैर्दर्शितया दिशा नयविशेषोन्नीतापेक्षाभेदनिमित्ताविरोधसमर्थितानन्तधर्मात्मकवस्तुपर्यालोचननयनावलोकितैकान्तवाद्युपन्यस्तदोषकण्टकापनयनप्रत्यलयुक्तिवातप्रकारेणं, पथि- मोक्षमार्गे, गच्छन्- मोक्षमार्गविषयकज्ञानलक्षणगतिक्रियामनुभवन्, तद्विशेषोपलब्धये- अविलम्बितमोक्षधामप्राप्त्यनुकूलमोक्षमार्गवैलक्षण्यासादनार्थं, ज्ञानयोगं वक्ष्यमाणस्वरूपं, प्रयुञ्जीत- स्वात्मतादात्म्यास्पदं विदधीत, तदेकव्यापारव्यापृतमात्मानं कुर्यात् । ज्ञानयोगो यथाऽविलम्बनेम सम्पद्येत तथा तत्प्रत्यलव्यापारपरायणो भवेदिति यावत् ॥२.१।। कारणा-ऽभिधाना-ऽवस्थाना-ऽन्यव्यावृत्तिभिर्ज्ञानयोगस्वरूपमुपदर्शयति -
योगज़ादृष्टजनितः, स तु प्रातिभसज्ञितः ।
सन्ध्येव दिन-रात्रिभ्यां, केवल-श्रुतयोः पृथक् ॥२.२॥ योगजादृष्टजनित इति । योगाभ्यासजन्यधर्मविशेषप्रभव इत्यर्थः । अनेन ज्ञानयोगस्य कारणमुपदर्शितम् । स तु - ज्ञानयोगः पुनः । प्रातिभसज्ञितः- प्रातिभपदजन्यबोधविषयत्वप्रकारकसङ्केतविशेषः प्रातिभनामक इति यावत् । अस्यैव च सर्वविषयकज्ञानत्वेनाऽलौकिकप्रत्यक्षविशेषत्वेनोररीकारो नैयायिकस्य । लोके 'पृष्ठत उपसर्पन्तं सर्प बुद्ध्यैव पश्यति, कुमारी अकस्मादेवैवं वक्ति - "श्वो मे भ्राताऽऽगमिष्यती". त्यादिज्ञानानां प्रातिभसञया प्रसिद्धिः । सा तूपचारादेव । उपचारश्च क्वचिन्मुख्यस्यैव सतो भवतीति मुख्यया वृत्त्या ज्ञानयोग एव प्रातिभनामक इत्याशयः ।
ज्ञानयोगश्च सर्वथा सर्ववस्तुप्रकाशाभावाद् न केवलज्ञानरूपः । आवरणे सत्यप्यतिशयितार्थावगाहनलक्षणप्रमाविशेषबन्धुरत्वाद् नवा तादृशप्रमानालिङ्गितश्रुतज्ञानरूपः । किन्तु केवलसूर्योदयाव्यवहितारुणोदयकल्पः किञ्चिन्मलीमसश्रुतज्ञानत्रियामान्तिमप्रहरावसानकालिकप्रकाशसमो रात्र्यन्तदिनाव्यवहितपूर्वकालो
१. नयविशेषोन्नीता येऽपेक्षाभेदा तनिमित्तो योऽविरोधस्तत्समर्थितं यदनन्तधर्मात्मकवस्तु तत्पर्यालोचनरूपं यन्नयनं तदवलोकितानि यान्येकान्तवाद्युपन्यस्तदोषकण्टकानि तदपनयने प्रत्यलो यो युक्तिवातस्तत्प्रकारेण ।