________________
३४
अध्यात्मोपनिषत्प्रकरणम्
यथा न रात्रिर्न वा दिनं, किन्तु तयोः सन्धित्वात् सन्ध्याकालोऽन्य एव; तथा केवलज्ञानाव्यवहितपूर्वसमयभाविनः श्रुतज्ञानप्रकर्षान्तिमसमयसम्पद्यमानरूपस्याऽस्य तदुभयभिन्नत्वं श्रद्धेयमित्याशयेनाऽऽह - सन्ध्येवेति
॥२.२।।
श्रुतज्ञानस्वरूपाच्छास्त्रज्ञानाज्ज्ञानयोगस्याऽवस्थितिवैलक्षण्येन वैलक्षण्यं प्रकटयति
पदमात्रं हि नाऽन्वेति शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्श्व-माकैवल्यं न मुञ्चति ॥ २३ ॥
शास्त्रं दिग्दर्शनोत्तरं - दिग्दर्शनोत्तरकालं, पदमात्रम् एकं पदमपि, मुक्तिधामप्रस्थितं मुनि, नाऽन्वेति - नाऽनुगच्छति । अयं ज्ञानयोग आकैवल्यं - केवलज्ञानोत्पत्तिसमयं यावत् । मर्यादार्थकोऽय ऽयमाशब्दः, तेन केवलज्ञानोत्पत्तिक्षणाव्यवहितपूर्वक्षणपर्यन्तमित्यर्थः । मुनेः- मुक्तिमार्गमननशीलस्य मुमुक्षोः, पार्श्वसन्निधानं, न मुञ्चति न त्यजतीत्यर्थः ॥ २३॥
-
ब्रह्मविषयकपरोक्षज्ञानस्वरूपाच्छास्त्राद् ब्रह्मविषयकसाक्षात्कारिज्ञानस्वरूपविश्रान्तस्य ज्ञानयोगस्य स्वरूपतः फलविशेषजनकत्वतश्च वैलक्षण्यमित्युपदर्शयितुं शास्त्रज्ञानस्वरूपमुपदर्शयति
तत्त्वतो ब्रह्मणः शास्त्रं, लक्षकं न तु दर्शकम् । न चाऽदृष्टात्मतत्त्वस्य, दृष्टभ्रान्तिर्निवर्तते ॥ २.४ ॥
-
तत्त्वत इति । यथावस्थितस्वरूपत इत्यर्थः । ब्रह्मण:- आत्मनः शास्त्रं श्रुतज्ञानं, लक्षकंपरोक्षतयोपदर्शकं, न तु दर्शकम् । नैव तत्साक्षात्कारिज्ञानस्वरूपम् ।
तेन च शरीरात्मत्वादिभ्रान्तेरनिवृत्त्याऽऽत्मनः स्वस्वरूपावाप्तिलक्षणमोक्षासम्भव इत्याह - न चेति । अस्य निवर्तते इत्यनेनाऽन्वयः । अदृष्टात्मतत्त्वस्य- असाक्षात्कृतात्मतत्त्वस्य, शरीरादिभेदेनाऽऽत्मतत्त्वमसाक्षात्कुर्वत इति यावत् । दृष्टभ्रान्तिः - शरीरादिष्वनात्मसु आत्मतत्त्वस्य भ्रमात्मकः साक्षात्कारः, न च निवर्तते नैव विनश्यति । साक्षात्कारात्मकातत्त्वभ्रमनाशं प्रति साक्षात्कारात्मकतत्त्वप्रमाया एव कारणत्वस्य दिङ्मोहादेरपरोक्षदिगवगतित एव निवृत्त्यवलोकनेनाऽवधारणादित्याशयः ॥२४॥
यतः शास्त्रयोगान्नाऽऽत्मतत्त्वसाक्षात्कारोऽतस्तदर्थं ज्ञानयोग उपासनीय इत्याह
तेनाऽऽत्मदर्शनाकाङ्क्षी, ज्ञानेनाऽन्तर्मुखो भवेत् ।
द्रष्टुर्दृगात्मता मुक्ति-र्दृश्यैकात्म्यं भवभ्रमः ॥२.५॥
-
तेनेति । शास्त्रस्याऽऽत्मतत्त्वलक्षकत्वमेव, न तु दर्शकत्वमित्यनेनेत्यर्थः । आत्मदर्शनाकाङ्क्षी - तत्त्वत आत्मस्वरूपं साक्षात्कर्तुमिच्छुः । ज्ञानेन - सम्यग्विचारपुरस्कृतात्मज्ञानेन । अन्तर्मुख इति 'शरीरादयो बाह्यपुद्गलविलासाः क्षणभङ्गुराः स्वभावतो दुःखबहुलाः, नैतैरात्मीयतयोपगृहीतैरनाबाधात्यन्तिकनिर्वाणसुखावाप्तिरतो नैतेष्वासक्तिर्विधेया, स्वरूपविश्रान्तिलक्षणसुखस्वरूपः सर्वदावस्थानलक्षणध्रौव्याकलितपर्यायाश्रितोत्पादव्ययात्मकसत्त्वालिङ्गितविग्रहः स्वप्रकाशज्ञानैकस्वभाव आत्मैवोपादेय' इत्येवमन्तर्मुखो भवेत्। सततमात्मस्वरूपभावनाचान्तस्वान्तः स्यादिति यावत् ।