________________
२९
शास्त्रयोगशुद्धिनामाऽधिकारः
भावनाज्ञानं लक्षयति - - ऐदम्पर्यगतं यच्च, विध्यादौ यत्नवच्च यत् ।
तृतीयं तदशुद्धोच्चे-जात्यरत्नविभानिभम्. ॥१.६७॥ ऐदम्पर्यगतमिति । अस्य वाक्यस्योपक्रमोपसंहारादिभिः षड्भिस्तात्पर्यलिङ्गैरत्राऽर्थे तात्पर्यमित्यवबोधजनितं तात्पर्यविषयविषयकमित्यर्थः ।
एवम्भूतमपि विधिनिषेधशास्त्रसमन्वयप्रवणमेव तदुपादेयं, नाऽन्यादृशमित्याह - विध्यादाविति । आदिपदान्निषेधोपग्रहः । यत्नवदिति । यत्नवत्त्वं चाऽस्य विधिनिषेधशास्त्रयोरापाततो विरोधप्रतिसन्धाने, यादृशार्थपरत्वे विधिशास्त्रस्य न निषेधशास्त्रतो बाधः, निषेधशास्त्रस्य च यादृशार्थपरत्वे न विधिविहितनिषेधकत्वेनाऽनुपपन्ननिषेधार्थकत्वं, तादृशार्थतात्पर्यावबोधप्रभवत्वम् । तेनाऽऽत्मगतस्य यत्नस्य बोधेऽभावेऽपि न क्षतिः ।
तृतीयं- भावनास्वरूपं तद् ज्ञानम् । तस्य ज्ञानस्य परोपमित्या माहात्म्यं प्रकटयति - अशुद्धेति । उच्चजात्यरत्नस्य मलसम्पर्काद् यथाऽशुद्धता, तथाऽस्याऽपि ज्ञानावरणक्षयोपशमविशेषजनितस्य मनाग् ज्ञानावरणसम्पर्कोऽस्तीति ज्ञानावरणरूपमलसम्पर्केणाऽशुद्धता । अत एव शुद्धजात्यरत्नप्रभानिभात् सकलवस्त्वालोकस्वरूपकेवलज्ञानादस्याऽपकृष्टत्वम् ॥१.६७।। ज्ञानत्रयस्य कार्यभेदं क्रमेणोपदर्शयति -
आद्ये ज्ञाने मनाक् पुंस-स्तद्रागाद् दर्शनग्रहः । द्वितीये न भवत्येष, चिन्तायोगात् कदाचन ॥१.६८॥
चारिसञ्जीविनीचार-कारकज्ञाततोऽन्तिमे । ... सर्वत्रैव हिता वृत्ति-र्गाम्भीर्यात् तत्त्वदर्शिनः ॥१.६९॥
आद्ये ज्ञाने- श्रुतज्ञाने । मनाक्- ईषत् । तद्रागात्- श्रुतरागात्, दर्शनग्रहः- “एतद् दर्शनं प्रमाणम्, अन्यच्च न प्रमाण'मित्येवं पक्षपातः । अत एतज्ज्ञानवत्त्वं नाऽध्यात्मभाजनत्वमित्यभिसन्धिः ।
द्वितीये- चिन्ताज्ञाने, न कदाचन- कदाचिदपि न भवत्येष- रागाद् दर्शनग्रहो भवति । दर्शनाग्रहे सत्यपि चारकत्वात् सूक्ष्मयुक्तिशतप्रभावितत्वस्वभाव एवाऽस्योच्छिद्येतेत्याशयेन निषेधे हेतुमाह - चिन्तायोगादिति । एतज्ज्ञानवतोऽपि माध्यस्थ्यं सम्भवति ॥१.६८॥
अन्तिमे- भावनाज्ञाने । चारीत्यादिदृष्टान्तः समयप्रतीतः । सर्वत्रैव हिता वृत्तिरित्यनेनाऽस्याऽध्यात्मभाजनत्वं सर्वथैवोपपन्नमित्यावेदयति । तत्र हेतुर्गाम्भीर्यादिति । एतज्ज्ञानवतस्तत्त्वदर्शित्वं निरुपचरितमित्यावेदनायोक्तं तत्त्वदर्शिन इति ॥१.६८,६९॥
१. क्वचित् "तद् विशुद्धोच्च०" इति पाठः । सोऽशुद्ध: प्रतिभाति ।