________________
अध्यात्मोपनिषत्प्रकरणम् त्रिविधं ज्ञानमाख्यातं, श्रुतं चिन्ता च भावना ।
आद्यं कोष्ठगबीजाभं, वाक्यार्थविषयं मतम् ॥१.६५॥ आद्यं- श्रुतज्ञानम् । कोष्ठगबीजाभमिति । कोष्ठस्थितबीजस्योत्तरकाले क्षेत्रवपने सलिल-धरणिघामादिसहकारसमवधानाद् यादृशाङ्कुरादिकार्यनिष्पादकत्वलक्षणं फलोपधानं तस्य पूर्वमभावेऽपि, अङ्करजननयोग्यतालक्षणं सामर्थ्य शिलाशकलादिव्यावृत्तं समस्ति । तथाऽस्याऽपि ज्ञानस्य सूक्ष्मयुक्त्यादिसहकारिसम्पत्तितो यादृशार्थावगाहनद्वाराऽज्ञानादिविशेषोन्मूलकत्वलक्षणं फलोपधानं तस्य पूर्वमभावेऽपि, तज्जननयोग्यतालक्षणं तत्सामर्थ्य तीर्थान्तरीयशास्त्रजज्ञानव्यावृत्तं समस्तीति कोष्ठगबीजसदृशं तदित्यर्थः । तच्च वाक्यार्थविषयं- यथाश्रुतपदकदम्बोपस्थिता-ऽर्थसमूहयोग्यान्वयविषयकं मतं- पूर्वाचायः स्वीकृतम् ॥१.६५।। चिन्ताज्ञानस्वरूपमुपदर्शयति -
महावाक्यार्थजं यत्तु, सूक्ष्मयुक्तिशतान्वितम् ।
तद् द्वितीयं जले तैल-बिन्दुरीत्या प्रसृत्वरम् ॥१.६६॥ महावाक्यार्थजमिति । तदेव वाक्यं येन येन वाक्येन तदर्थान्वययोग्यार्थकेन समभिव्याहारमालम्ब्य निराकाङ्क्षप्रतिपत्तिमाधातुमलं, तत्तद्वाक्यैकवाक्यतापन्नं सन्महावाक्यमुच्यते । निराकाङ्क्षबोधनकवाक्यं महावाक्यमिति यावत् । तदर्थजन्यमित्यर्थः ।
यद्यपि शाब्दबोधं प्रति नाऽर्थस्य कारणत्वं, वर्तमानार्थविषयकसांव्यवहारिकप्रत्यक्षं प्रत्येव विषयस्य कारणत्वात् । तथापि तादृशार्थसद्भावे एव तद्बोधजननं, न तु सोऽर्थो बुद्धिपरिकल्पित इत्यावेदनाय तदर्थमालम्ब्योपायान्तरतो जायमानस्याऽपि निराकाङ्क्षजानस्य तज्जन्यत्वं क्षैमिकमवलम्ब्य तथोक्तिस्तादृशार्थस्य वास्तविकत्वावगतये इति बोध्यम् ।
एतादृशमपि ज्ञानं यदि वाद्युपदर्शितकुयुक्तिशतवातेन यथाकथञ्चिद् बाधितार्थकं स्यान्न तदाऽस्य निराकाङ्गत्वाभावेन महावाक्यार्थजत्वोपपत्तिरत आह - सूक्ष्मेति । वादियुक्तिवातदुर्भेद्यार्थविषयकत्वेन युक्तीनां सूक्ष्मत्वमवज्ञेयम् । एतादृशस्य बोधस्य न कुयुक्तिशतविभीषिकासम्भावनाऽपि । वस्तुत एतादृशयुक्ति शतावलोकनेन वादिन एव कुण्ठितबोधाः स्वयुक्तीनामापातरमणीयतामाकलयन्तः प्रथमत एव तदुद्भावनानादृतव्यापाराः । ये च कदाग्रहग्रहिलास्तथाऽवलोकयन्तोऽपि युक्त्याभासशतमुपक्षिपन्ति, ते प्रामाणिकपरिषद्यनादृतवचना एवेति न तदुद्भावितयुक्त्याभासशतैरप्युक्तबोधस्य किञ्चिदप्यपचीयते इति भावः ।
ननु वाक्यं वाक्यार्थविषयकं बोधमुत्पाद्य निवृत्तव्यापारं कथमुत्तरकालमतिशयविशेषमन्तरेण महावाक्यार्थविषयकबोधजनकं स्यादित्यतस्तस्य सातिशयत्वं दृष्टान्तत उपदर्शयति - जल इति । यथा जले प्रक्षिप्तस्तैलबिन्दुर्न युगपदेव सर्वं जलं व्याप्नोति, किन्तु प्रसृत्वरस्वभावः क्रमेण; तथाऽयमपि बोधः सूक्ष्मयुक्तिशतान्वितः । अनुभूयमानश्चाऽतिशयो नाऽन्यत्राऽदर्शनमात्रेणाऽपलपितुं शक्यः । तेन शब्दबुद्धि-कर्मणां विरम्य व्यापाराभावादित्यादि न्यायो नाऽत्र क्रमते इत्याशयः ॥१.६६।।