________________
२७
शास्त्रयोगशुद्धिनामाऽधिकारः ___ 'अस्य नयस्याऽनेन नयेन बाधा भव'त्वित्यभिसन्धाय तन्नयप्रस्तावे तद्विचारणा- तदुपपादकयुक्ति विरचनाऽल्पीयसी; 'अस्य च नयस्य केनाऽपि नयेन बाधो मा जायता'मित्यभिसन्धाय तन्नयप्रस्तावे तद्वि चारणा- तदुपपादकयुक्तिप्ररूपणा महतीत्येवं न; किन्तु यस्य नयस्य यदा प्रस्तावस्तस्य नयस्य यावद्भिः प्रमाणैः प्ररूपणाऽकुण्ठिता निष्पन्ना भवति तावद्भिरपि प्रमाणैस्तस्यं प्ररूपणैवाऽऽदृतेति भावः ॥१.६१।।
यथा च सन्नयेषु स्वप्रसूतेष्वविशेषेण तत्तदपेक्षयोपपादनलक्षणं माध्यस्थ्यमस्य, तथा दुर्नयेषु परस्परयुक्तिवातकर्थितेषु स्वांशताभावावलोकनत उपेक्षालक्षणं माध्यस्थ्यं निराबाधमेव । एको दुर्नयः स्वप्रतिपक्षभूतं दुर्नयं दूषयतु, स्वानुकूलं च दुर्नयं भूषयतु वा । नैतावता स्याद्वादस्य काऽपि क्षतिः । तेषां दुर्नयत्वेन स्वप्रसूतत्वाभावादित्याह - .
स्वतन्त्रास्तु नयास्तस्य, नांऽशाः किन्तु प्रकल्पिताः ।
रागद्वेषौ कथं तस्य, दूषणेऽपि च भूषणे ॥१.६२॥ स्वतन्त्रास्त्विति स्याद्वाददर्शितापेक्षाविकला इत्यर्थः । अत एव च दोषगणोपनिपातस्तेष्वित्यभिसन्धिः । तस्य- अनेकान्तवादस्य । तेषां नयानां दूषणे भूषणेऽपि च तस्य- स्याद्वादस्य रागद्वेषौ कथं- न कथञ्चित् । तथा च रागद्वेषराहित्यलक्षणमाध्यस्थ्यं दुर्नयापेक्षयाऽप्यस्य निर्वहतीत्याशयः ॥१.६२॥ अमुमेवाऽर्थं दृष्टान्ततो द्रढयति - . . अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते ।
• यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥१.६३॥ मुनेरिति स्याद्वादिनस्तत्रोपेक्षादृष्ट्या मूकत्वान्मुनित्वम् । निगदार्थमन्यत् ॥१.६३॥
ननु स्याद्वादी दुर्नयानां परस्परदूषणभूषणयो रागद्वेषाभावान्माध्यस्थ्यमवलम्ब्यताम् । यदा तु वादिन एव स्वाभिमतदुर्नयाभिनिवेशात् स्याद्वादमेव दूषयितुं प्रवृत्तास्तदा तदनिराकरणे स्याद्वाद एव तदाग्रहोपबद्धानेक दोषदुःस्थ: स्यात् । तन्निराकरणे तु स्वाभीष्टे स्याद्वादे रागः परत्र च द्वेषः प्रकटितः स्यात् । एवं सति रागद्वेषाचान्तस्वान्तः स्याद्वादी कथं मध्यस्थतया स्वस्थः ? तमन्तरेण कथमध्यात्मभाजनत्वमस्येत्यत आह -
दूषयेदज्ञ एवोच्चैः, स्याद्वादं न तु पण्डितः ।।
अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥१.६४॥ स्याद्वाददूषणप्रवृत्तस्य पुरुषस्य स्याद्वादस्वरूपानभिज्ञत्वेन तत्प्रयुक्तदोषस्य वस्तुतः स्याद्वादेऽभावेन दूषणाभासतया च तेन स्याद्वादो दूषितो न भवतीति तादृशदूषणसहस्रमपि स्याद्वादिनो न क्षतिमावहति । सोऽपि च वादी अज्ञत्वादेव न तत्राऽपराध्यति । अज्ञत्वेन तस्य बालकल्पतया तत्र करुणैव स्याद्वादिनो, न तु द्वेष इति न माध्यस्थ्यहानिरिति भावः । पद्यं तूत्तानार्थमेव ॥१.६४॥ ___ यादृशज्ञानवतो नैकदर्शनाग्रहेण पक्षपातस्तादृशज्ञानवत एव स्याद्वादिनः शास्त्रवित्त्वेन मोक्षोद्देशप्रवृत्ततया सर्वदर्शनानां साम्यालोचनेन मध्यस्थभावादध्यात्मभाजनत्वमित्युपपादयितुं ज्ञानत्रैविध्यमुपदर्शयति -