________________
अध्यात्मोपनिषत्प्रकरणम्
__ अस्तु स्वरूपोपरजकमेवाऽऽनन्तर्य, न तु हिंसकलक्षणे तस्य प्रवेशः । सङ्क्लेश एव तु हिंसकलक्षणम् । तथा च यस्य सङ्क्लिष्टं चित्त' मेनं व्यापादयामी'त्यध्यवसायकलुषितं स हिंसकस्तदितरस्तु अहिंसक इति विभागः कान्तः, किं नश्छिन्नमित्यत आह -
मनोवाक्काययोगानां, भेदादेवं क्रियाभिदा ।
समग्रैव विशीर्येते-त्येतदन्यत्र चर्चितम् ॥१.५९॥ मनोवाक्काययोगानामिति । मनआदीनां प्रत्येकं योगपदेनाऽन्वये मनोयोग-वाग्योग-काययोगानामित्यर्थः । तेषां भेदाद्- विशेषात्, समग्रैव- यावत्यपि, क्रियाभिदा- हिंसाक्रियावैलक्षण्यम्, एवं सङ्क्लेशमात्रस्य हिंसकलक्षणत्वाभ्युपगमे सति, विशीर्येत- नोपपद्येत ।
मनोवाक्काययोगानां हिंसां प्रत्यकारणत्वेन तद्वैलक्षण्याद् हिंसारूपक्रियावलक्षण्यस्याऽसम्भवात्, कारणवैलक्षण्यस्यैव कार्यवैलक्षण्यप्रयोजकत्वात् । तथा च विलक्षणहिंसोपपत्तये विलक्षणकायादिव्यापारस्य लोकप्रतीतस्य विलोपे लोकयात्राविप्लव इत्याशयः ।
अत्र बहु वक्तव्यं, ग्रन्थगौरवभयात्तु नोच्यते, ग्रन्थान्तरात् तदवसेयमतो न न्यूनतादोषावकाश इत्यावेदनायोक्तम् एतदन्यत्र चर्चितमिति ॥१.५९॥
नित्यायेकान्तवादे उक्तदिशा हिंसाद्यघटनाद् दोषभूयस्त्वेन न तापशुद्धत्वम् । किन्तु नित्यानित्याद्यनेकान्तवादे एव हिंसादेः सर्वस्योपपत्तेः, पक्षपाताद्याग्रहविलासाभावाद् दोषलेशासंस्पृष्टत्वेन, सर्वत्र माध्यस्थ्यस्य सम्भवेन तापपरिशुद्धत्वम् । अतस्तज्ज्ञानमेवाऽध्यात्मभावभाजनमित्याशयेनाऽऽह -
नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद् विशिष्यते । ..
तदृष्टयैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥१.६०॥ ___ नित्यानित्येति । नित्यानित्याद्यनेकान्तप्रतिपादकस्याद्वादागम इत्यर्थः । तस्मात्- एकान्तवादगतोपदर्शितदोषाभावात् । विशिष्यते- शास्त्रान्तरतो विशिष्टम् । तदृष्ट्यैव- अनेकान्तशास्त्रदृष्टयैव ॥१.६०।।
तस्याऽनेकान्तवादस्य नयान्यतमेषु पक्षपाताभावेन सर्वनयोपपादकत्वतः 'अयं नय एतस्मानयाद् गरीयानित्युपादेयः, अयं च नय एतस्मान्नयाद् दुर्बल इति परित्याज्य' इति विचारणकलङ्कोऽपि नाऽस्त्यतः सर्वैरपि वादिभिर्मोक्षमार्गदर्शकत्वेनाऽऽश्रयणं युक्तमित्याशयेनाऽऽह -
यस्य सर्वेषु समता, नयेषु तनयेष्विव ।
तस्याऽनेकान्तवादस्य, क्व न्यूनाधिकशेमुषी? ॥१.६१॥ यस्याऽधिकृतस्याद्वादस्य सर्वत्र नयेषु स्वप्रसूतत्वेन, तनयेष्विवेत्यत्रोत्प्रेक्षायामिवशब्दो ज्ञेयः । समता- पक्षपातराहित्येन माध्यस्थ्यम् । क्वेति काक्वा न कुत्रापि नये इत्यर्थः । न्यूनाधिकशेमुषीन्यूनाधिकविचारणा ।
१. वृत्त्यन्तरे 'एवं' पदस्य 'सर्वत्राऽनन्तरक्षणवृत्तित्वस्यैव भेदकत्वाभ्युपगमे' इत्यर्थो वर्णितः । आनन्तर्येण मनोवाक्काययोगभेदोपक्षयात् तदपेक्षायाः क्रियाभिदाया असम्भवादिति तस्य तात्पर्यम् । एतदपि नाऽनुचितं प्रतिभाति ।