________________
शास्त्रयोगशुद्धिनामाऽधिकारः
२५
अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम् ।
स्वतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ॥१.५६॥ ___ हिंसकेन पुरुषेण हिंस्यस्य पुरुषस्य विनाशनमेव हिंसा, न तु स्वतो विनाशः । तथा सति विनाशं प्रति स्वस्य प्रतियोगिविधया कारणत्वेन हिंस्यस्याऽपि हिंसकत्वापत्तेः । क्षणिकवादे स्वतो विनशनशीलानां पदार्थानामुत्पत्त्यनन्तरं स्वत एव विनाशेन न हिंसोपपन्नेत्याह - स्वतो विनाशशीलानामिति । परेण विनाशे, परसन्निधाने विलम्बाद् विनाशविलम्बोऽपि स्यादित्थं च कतिपयक्षणस्थायित्वे न क्षणिकत्वं स्यादित्यत उक्तं स्वत इति ।
अथवा विनाशिनां पदार्थानां स्वतो विनाशशीलत्वमस्ति न वा ? अन्त्ये विनाशककारणसहस्रोपनिपातेऽपि ते न विनश्येरन्, अविनश्वरस्वभावस्य विनाशायोगात् । आद्ये स्वभावबलादेव ते विनश्येरन्, तत्र कारणव्यापारणं व्यर्थमेवेति बौद्धस्यैषोऽभिप्रायस्तदाश्रयेणाऽऽह - स्वत इति ॥१.५६॥
विनाशक्षणस्याऽव्यवहितपूर्वक्षणो विनाशकः, तेन विनाशरूपहिंसाऽव्यवहितपूर्वक्षणो हिंसक इत्येवं हिंसकत्वोपपत्तिस्तन्मतेऽपि सम्भवतीत्याह -
आनन्तर्यं क्षणांनां तु, न हिंसादिनियामकम् । .: विशेषादर्शनात् तस्य, बुद्ध-लुब्धकयोमिथः ॥१.५७॥ · आनन्तर्यमित्यव्यवहितपूर्ववर्तित्वमित्यर्थः । यत्किञ्चिन्मृगविनाशाव्यवहितपूर्वक्षणे व्याधक्षणोऽप्यस्ति सुगतक्षणोऽप्यस्ति । तथा च व्याधक्षणस्येव सुगतक्षणस्याऽपि तन्मृगहिंसकत्वमनिष्टमापतितमेवमभ्युपगमे बौद्धस्य । न च सुगतक्षणाद् व्याधक्षणस्याऽऽनन्तर्यमन्तरेण कोऽपि विशेषो दृश्यते, येन तादृशविशेषबलाद् व्याधस्यैव हिंसकत्वं न बुद्धस्येति वक्तुं शक्यताऽपीत्याह - विशेषेति । तस्य- मृगनाशाव्यवहितपूर्वक्षणवृत्तित्वस्य । मिथ:- परस्परं बुद्ध-लुब्धयोर्विशेषादर्शनादित्यर्थः ॥१.५७॥
नन्वव्यवहितपूर्ववर्तित्वाविशेषेऽपि, बुद्धस्य न सङ्क्लिष्टं चित्तं, लुब्धकस्य तु सङ्क्लिष्टं चित्त'मेनं व्यापादयामी'त्यध्यवसायात् । अतो विशेषाल्लुब्धक एव व्यापादको, न तु बुद्ध इत्यत आह -
सङ्क्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम् ।
न हि तेनाऽपि सङ्क्लिष्ट-मध्ये भेदो विधीयते ॥१.५८॥ सक्लेशेनेति अध्यवसायविशेषेणेत्यर्थः । विशेषश्चेत्- अक्लिष्टचित्तबुद्धक्षणात् सङ्क्लिष्टचित्तलुब्धकक्षणस्य भेदश्चेत् । तर्हि यस्य परपीडादिविषयोऽध्यवसायः स हिंसकस्तदितरस्तु न तथेत्येव हिंसकाहिंसकविभागोऽस्तु; अव्यवहितपूर्ववर्तित्वस्य तत्र प्रवेशोऽपार्थकस्तत्सत्त्वेऽपि बुद्धस्य सङ्क्लेशाभावादेवाऽहिंसकत्वादित्याह - आनन्तर्यमपार्थकमिति । तत्र हेतुः न हीति । हि- यतः, तेनाऽपि- आनन्तर्येणाऽपि । सङ्क्लिष्टमध्ये- सङ्क्लिष्टचित्तस्वरूपस्याऽन्तः, भेदो- विशेषो, न विधीयते- न क्रियते । यस्य सङ्क्लिष्टस्याऽऽनन्तर्यं यस्य च नाऽऽनन्तर्यं तयोः स्वरूपतोऽविशेष एवेत्यर्थः ॥१.५८॥