________________
२४
अध्यात्मोपनिषत्प्रकरणम्
यद्यपि मन:संयोगनाशोऽपि नित्यैकान्तवादे. न घटते । आत्मनो मनःसंयुक्तत्वस्वभावत्वे सर्वदा मनःसंयुक्तेनैवाऽऽत्मना भवितव्यम् । अन्यथा मनःसंयोगनाशे तद्रूपेणाऽऽत्मनोऽपि नाशापत्त्या कुत एकान्तनित्यात्मवादः ? आत्मनस्तदस्वभावत्वे कदापि मनःसंयोग आत्मनि नाऽस्ति, कस्य नाशः स्यात् ? तथाप्यङ्गीकृत्याऽपि मनःसंयोगं तन्नाशं च तदुद्देशेन हिंसकस्य व्यापारानुपलक्षणे न तस्य हिंसात्वमित्याशयेनाऽऽह - व्यापारानुपलम्भत इति ।
अथवाऽनुपलम्भशब्दस्योपलम्भविषयाभावपरत्वेन व्यापारानुपलम्भत इत्यस्य व्यापाराभावाद् व्यापारासम्भवादिति यावत् । यच्चाऽलीकं, तत्र कोऽपि व्यापारो न सम्भवतीति सुप्रतीतमेव । एकान्तनित्यवादे तु मन:संयोगनाशोऽप्यलीक एवेति कथं तत्र व्यापारसम्भवः ? -
.. अथवा हिंसकस्य व्यापारोऽपि दुर्घटः । तज्जन्यत्वे सति तज्जन्यजनकत्वं हि व्यापारत्वम् । तच्च क्रियमाणस्य सम्भवति । नित्यैकान्तवादे तु न किञ्चित् क्रियमाणम् । तदभ्युपगमे नित्यैकान्तवादव्याहतेः ।
आत्मन एकान्तनित्यत्वं तदन्यस्य तु व्यापारादेरनित्यत्वमपीत्यर्द्धजरतीयमपि न सम्भवति । हिंसकात्मनो नित्यत्वेन कर्तृत्वाद्यसम्भवेन तद्व्यापारत्वस्य तथाप्यघटनादित्यादि सूक्ष्ममीक्षणीयम् ॥१.५४॥ . . .
हिंसानुपपत्तौ तदभावरूपाऽहिंसाऽपि नित्यैकान्ते न घटते इत्यायातमेव । क्वचित् प्रमितस्यैव निषेधो भवति, नाऽप्रमितस्य । हिंसा तु तन्मते स्वरूपतोऽभावादेव न क्वचित् प्रमितेति कथं तन्निषेधरूपाउंहिंसाऽपि स्वरूपतो युज्येत ? एवमादिपदग्राह्यौ बन्ध-मोक्षावपि नित्यैकान्त आत्मनि न सङ्गतौ । निर्लिप्तस्याऽऽत्मनो महत्तत्त्वलक्षण-बुद्धिप्रतिबिम्बनादिलक्षण-बुद्धिलेपात्मकबन्धस्याऽभावें तदभावलक्षणमोक्षस्याऽप्यभावात् । 'यस्यैव बन्धस्तस्यैव मोक्ष' इत्येवं बन्धमोक्षसामानाधिकरण्यस्य निगडबद्धमुक्तपुरुषे पूर्वोत्तरकालभेदावच्छेदेन दर्शनादित्याशयेनाऽऽह -
बुद्धिलेपोऽपि को नित्य-निर्लेपात्मव्यवस्थितौ? ।
सामानाधिकरण्येन, बन्ध-मोक्षौ हि सङ्गतौ ॥१.५५॥ , बुद्धिलेपोऽपीति । सत्त्वरजस्तमस्साम्यावस्थालक्षण-मूलप्रकृतिविकारभूत-महत्तत्त्वलक्षणबुद्ध्या भेदाग्रहनिबन्धन-तत्प्रतिबिम्बताप्रयुक्त-तद्धर्मकर्तृत्वाद्यभिमानलक्षणलेपोऽपीत्यर्थः । कः किम आक्षेपार्थकत्वान्न कश्चिदित्यर्थः । तत्र हेतुः नित्यनिर्लेपात्मव्यवस्थिताविति । कदाचित्सलेपस्याऽपि कदाचिन्निर्लेपता भवतीत्यत आह - नित्येति । एवं च सलेपत्वाभ्युपगमे कुतो नित्यनिर्लेपत्वम् ?
बुद्धिलेपात्मकबन्धाभावे नित्यनिर्लेपतालक्षण-नित्यमुक्तत्वमपि तस्य वक्तुं न युज्यते । पूर्वं बन्धसद्भावे उत्तरकालं तदभावस्यैव मुक्तित्वादित्याशयेनाऽऽह - सामानाधिकरण्येनेति । साङ्ख्यमते बुद्धिगतात्मप्रतिबिम्बस्य तत्कर्तृत्वाद्यभिमानलक्षणो बन्धः । मुक्तिस्तु बुद्धेः स्वपरिणामिनि प्रधाने तिरोभावलक्षणविनाशे सति शुद्धचैतन्यरूपस्याऽऽत्मन इति न तयोः सामानाधिकरण्यमिति बोध्यम् ॥१.५५॥ ___ साङ्ख्यादिनित्यैकान्तवादे हिंसादेरघटनात् तापशुद्धत्वाभावमुपपाद्य ताथागताभिप्रेतानित्यैकान्तवादेऽपि हिंसादेरघटनात् तापशुद्धत्वाभावमुपपादयति -