________________
२३
शास्त्रयोगशुद्धिनामाऽधिकारः
विमतिरिति स्याद्वादस्य प्रामाण्यानभ्युपगमोऽप्रामाण्यप्रतिपत्तिर्वेत्यर्थः । सम्मतिः स्याद्वादस्य प्रमाणतयोपगमः । चार्वाकस्य- बृहस्पतिमतानुसारिणो लोकायतिकस्य । न मृग्यते- नाऽन्विष्यते । चार्वाकस्य स्याद्वादाभ्युपगमोऽस्ति तदनभ्युपगमो वेति न विचार्यते इत्यर्थः । ___कुत एवमुपेक्षा चार्वाकं प्रति भवत इत्यत आह - परलोकेति । यस्य- चार्वाकस्य शेमुषी- बुद्धिः, परलोकात्ममोक्षेषु मुह्यति- मोहमनवगाहित्वलक्षणमुपगच्छति । यो हि सर्वतान्त्रिकप्रमाणप्रसाधितान्यपि परलोकादीन्यत्यन्तबुद्धिमान्द्यान्न श्रद्धत्ते, तस्य प्रामाणिकपरिषदि प्रवेश एव नाऽस्तीति वादित्वाभावात् तं प्रति स्याद्वादाभ्युपगमोपपादनमरण्यरुदितकल्पमेवेति भावः ॥१.५२॥ स्याद्वादागमस्य तदनुगमनशीलनयस्य तापपरिशुद्धत्वं नाऽन्यस्येत्युपसंहरति -
तेनाऽनेकान्तसूत्रं यद्, यद्वा सूत्रं नयात्मकम् ।
तदेव तापशुद्धं स्याद्, न तु दुर्नयसज्ञितम् ॥१.५३॥ तेनिति । सर्ववादिसम्मतत्वेन सद्यक्तित उपपद्यमानार्थकत्वेन चेत्यर्थः । अनेकान्तसूत्रम्- अनन्तधर्मात्मकवस्तुप्रतिपादकस्याद्वादागमः । यद्वा- यच्च, नयात्मकं सूत्रं- स्वाभिमतधर्मातिरिक्तधर्मावबोधने गजनिमीलिकामवलम्बमानं सत् स्याद्वादप्रतिपन्नानन्तधर्मात्मकवस्त्वेकदेशावबोधनप्रवणं सूत्रम् । तदेवेत्येवकारेण तदुभयव्यतिरिक्तस्य तीर्थान्तरीयवचनस्य तापशुद्धत्वव्यवच्छेदः ।
कथं न तीर्थान्तरीयवचनं तापशुद्धं येनैवकारेण तद्व्यवच्छेदः क्रियत इत्यत आह - न तु दुर्नयसङ्गतमिति । अन्यदर्शनानां परस्पराभ्युपगमोपमर्दप्रवृत्तानां सुन्दोपसुन्दन्यायेन दृढावस्थानमेव नाऽस्ति दुर्नयसङ्गतत्वात् । तत् कथं तेषां तापशुद्धत्वम् ? त्रिचतुःकक्षाधावित्वेऽप्युत्तरकालं बाधादिति ॥१.५३।।
‘सामान्यत एकान्तवादे दुर्नयसङ्गतत्वेन तापशुद्धिमपाकृत्य विशेषतस्तदपाकरणाय नित्यैकान्तवादमधिकृत्य तापाशुद्धिं तदभ्युपगमानुसारेण हिंसाद्यनुपपत्त्या प्रकटयति -
नित्यैकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । - मनःसंयोगनाशादौ, व्यापारानुपलम्भतः ॥१.५४॥ नित्यैकान्त इति 'एकान्तनित्यतयाऽभ्युपगते वस्तुनीत्यर्थः । तेन नित्यैकान्तस्य वस्तुतोऽभावेन निषेधानधिकरणत्वेऽपि न क्षतिः । न हिंसादि- हिंसादि न घटते इत्यर्थः । आदिपदादहिंसादिपरिग्रहः ।
___घात्यजीवानां पूर्वपर्यायविनाशनमेव हिंसा । एकान्तनित्यस्य तु पर्याय एव नाऽस्ति । यदि सहभावी पर्यायोऽभ्युपगम्येत सोऽपि नित्य एव स्यादिति तन्नाशासम्भवेन हिंसार्थाघटनादित्याह - तत्पर्यायापरिक्षयादिति । नित्ये क्रमिकपर्यायो नाऽस्त्येव, तत्सहभाविपर्यायस्य त्वभ्युपगम्यमानस्य नित्यस्याऽपरिक्षयादित्यर्थः । __- ननु तत्तच्छरीरावच्छेदेनाऽऽत्मनो यो मनःसंयोगस्तन्नाश एव तस्य जीवस्य हिंसा, न तु स्वरूपप्रच्युतिस्तत्पर्यायच्युतिर्वेत्यत आह - मनःसंयोगनाशादाविति आध्यात्मिकवायुसंयोगनाशाद्युपग्रहः ।
१. "असतो नत्थि निसेहो" इति वचनात् ।