Book Title: Adhyatmopnishat Prakaranam Savrutti
Author(s): Sheelchandrasuri, Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text ________________
अध्यात्मोपनिषत्प्रकरणम् अवयवशक्तिरूपयोगादेवं सर्वशब्दानामर्थावबोधकत्वे शक्तिग्राहकोपदेशातिदेशादितः शक्तिग्रहो दुर्घट एव प्रसज्येत । येन येन वाक्येन पदसन्दर्भविशेषरूपेण शक्तिः प्रतिनियतार्थगोचरा ग्राहयितव्या, तत्र सर्वत्र घटकीभूततत्तत्पदस्य निर्वचनमन्तरेण न शक्तिग्रहस्तमन्तरेण च नाऽर्थावबोधकत्वमित्यवश्यं प्रकृतिप्रत्ययविभजनेन निर्वचनं विधेयम् । तत्रापि प्रकृतिप्रत्ययादीनां नाऽवयवशक्तिग्रहमन्तरेणाऽर्थावबोधकत्वमित्यावश्यकावयवशक्तिग्रहार्थं तत्रापि यत्किञ्चिन्निर्वचनमाश्रयणीयमित्येवमनवस्थालताऽनिरुद्धप्रसरा प्रकृतार्थविबोधबाधायैव स्यादतस्तदपोहाय कस्यचित् पदस्य रूढ्याऽर्थावबोधकत्वमवश्यमभ्युपगन्तव्यम् । एव'मवयवानां प्रत्येकं रूढिरेव समुदायापेक्षया योग इत्याख्यायते' इत्यवयवशक्त्याऽर्थप्रतिपादकत्ववादिनाऽपि रूढिरादृतैव ।
केवलमवयवस्यैव सा, न तु समुदायस्येति तत्राऽवयवशक्तेः क्लृप्त्वेन तथैव निर्वाहे, न समुदाये शक्तिरतिरिक्ता कल्पनीया गौरवादिति भवति तेषां मतिः । सा न युक्ता । अनेकावयवशक्तिग्रहतज्जन्यानेकोपस्थितिकारणत्वकल्पनापेक्षयाऽतिरिक्तां समुदायशक्ति प्रकल्प्य तद्ग्रह-तज्जन्योपस्थितिकारणत्वकल्पन एव लाघवादित्यादियुक्तिशतोपबृंहितात् 'योगाद्रूढिर्बलीयसी'ति न्यायाद् यदि अध्यात्मपदं रूढमेवाऽभ्युपगम्यते, तदा लौकिकानां परीक्षकाणां च स्वस्वाभिमतमतसमुत्थवासनाप्रभाविता रूढिरध्यात्मपदस्य बहुविधा समस्तीति तद्ग्रहजन्योपस्थितिविषयत्वेनाऽध्यात्मत्वं प्रत्येकं विभिन्नस्वभावेषु बहुषु प्राप्तम् । तत्र किमादरणीयं किन्नाऽऽदरणीयं, विनिगमनाविरहात् सर्वमेवाऽऽदरणीयमनादरणीयं वेति शङ्कासमुन्मेषोन्मूलनायाऽऽह -
रूंढ्यर्थनिपुणास्त्वाहु-श्चित्तं मैत्र्यादिवासितम् ।। अध्यात्मं निर्मलं बाह्य-व्यवहारोपबृंहितम् ॥१.३॥ एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदः । .
यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः ॥१.४॥ अयमभिप्रायः - विभिन्नमार्गविप्रधाविता बहवः सन्ति लौकिकाः परीक्षकाश्च । परं सर्वेषां तेषां स्वात्मनि प्रामाण्यमनुशीलयतां सङ्ग्रहादिसप्तविधनयान्यतमनयाभ्युपगममर्यादयैवाऽवस्थानं युक्तं, सर्वस्याऽपि
१. पदं चतुर्विधम् - १. यौगिकम् २. रूढम् ३. योगरूढम् ४. यौगिकरूढम् च । तत्र यत्राऽवयवार्थ एव बुध्यते तद् यौगिकं यथा पाचकादिपदम् । यत्राऽवयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेणाऽर्थो बुध्यते तद् रूढं यथाऽऽखण्डलादिपदम् । यत्र तु समुदायशक्तिविषयेऽवयवार्थान्वयोऽप्यस्ति तद् योगरूढं यथा पङ्कजादिपदम् । तत्र कमल-कीटकादीनां पङ्कोद्भवत्वाविशेषेऽपि कमलस्यैव पङ्कजपदजन्यशाब्दबोधविषयत्वस्य सर्वसम्मतत्वात्, अवयवार्थस्य समुदायशक्तिनियम्यत्वात् । यत्राऽवयवार्थ-रूढ्यर्थयोः स्वातन्त्र्येण बोधस्तद् यौगिकरूढं यथा उद्भिदादिपदम् । तत्राऽवयवशक्त्योद्भेदनकर्ता वृक्षादिर्बुध्यते समुदायशक्त्या यागविशेषश्चेति । २. बाह्यव्यवहारोपबृंहितं- सद्धर्माचरणात्मकक्रियापरिकर्मितं मैत्र्यादिवासितं- मैत्री-प्रमोदकारुण्य-माध्यस्थ्यभावनाभि वितं निर्मलं- विगतक्लेशं चित्तमन्तःकरणं रूढ्यर्थनिपुणा:- लोकप्रसिद्धत्वादिरूपरूढ्यर्थप्रतिपादने निपुणा अध्यात्मम्- अध्यात्मपदवाच्यमाहुः- कथितवन्तः ।
-
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118