Book Title: Yogshastra Part 04
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002395/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ +++++**• •**• •*•*XX**X*••**••*X* •**• •DXBIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.. NEW SERIES, NO. 140 योगशास्त्रम् । स्वोपद्मविवरणसहितम् । SIR WILLAMJONES A MDCCXLVI-MDCCXCMV THE OGASASTRA, व ,e commentary called PAJNAVIVARANA. अकन्दः BY SRI HEMACHANDRACHARYA. EDITED BY ÇASTRA VIÇARADA JAINACARYA CRĪ VIJAYA DHARMA SŪRI FASCICULUS IV. Calcutta: PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS, No. 5, Nandakumar Chawdhury's 2nd Lane. AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 1, PARK STREET. 1916. • XoXX.XX.XX.XX.XX.XX.XX.XX ***Q*** • • * • • • • • •*•*• •• •*****X* ... Page #2 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENT, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., Complete copies of those works marked with an asterisk cannot be supplies of the lasciculi being ort of stock. BIBLIOTHECA INDICA. Sanskrit Series Advaitachinta Kaustubha, Fasc. 1-3 @ /10/ each ... Ry. Aitarēya Brābmaņa, Vol. I, Fate. 1-5; Vol. II, Faxe. 1-5; Vol. M, Fasc. 1-5; Vol. IV, Fase. 1-8 /10/ each Aitereya Lochana. Amarkosha, Fase. 1 • Anu Bbāşhya, Fase. 2-5 @ /10/ each Anumana Didhiti Prasarini, Fasc. 1 @ /10/Aptasahasriki Prajũặpāranitã, Fisc. - 6 @ 10/ each Atmatattaviveka, Fasc. I. Açvavaidyaka, Fasc. 1-5 @ /10/ each ... Avadana Kalpalata, Sans, and Tibetan, Vol. 1, Fase. 1-10 ; V.. Fasc. 1-10 @ 1/ each Balam Bhatti, Vol. 1, Fasc. 1-2, Vol IT, Fasc. 1 @ /30/ each .. Baudhayana S'ranta Satra, Fasc. 1-3 Vol. II, Fase 1-5 @ /10/ each Bläsavritty ... Bhatta Dipika Vol. I, Fasc. 1-6; Vol. 2, Tasc. 1, @/10 each Bauddhastotrasangraha . Brhaddēvatā Fase. 1-4 @ /10/ each Bphaddharma Purūpa Fasc 1-6 V /10/ each Bodhiearyāvatāra of Cantideva, Tasc. 1-6 @ /10/ each Cri Cantinatha Charita, Fasc. 1-3 *** Çatadūşani, Fasc. 1-2 @ /10/ each .. Catalogue of Sanskrit Books and MSS., Fase. 1-4 @ 2/ each Qatapatha Brāhmaṇa, Vol 1, Fifase. 1-7, Vol II, Fase. 1-5, Vol. II, Fasc. 1-7 Vol. V, Fasc. 1.4 @ /10/ each Ditto A Vol. VI, Fascl. 1-3 @ 1/4/ each Ditto Vol. VII, Fase. 1-5 @ 710/ ... Ditto Vol. IX. Fasc 1-2 Catasahasrika Prajnaparamita Pahrt, I. Fase. I--17 @ each... *Caturvarga Chintamani, Vol. II, Fasc. 1-25; 1 Fasc. 1-18. Part II, Fasc. 1-16. Vol. IV. Fase. 1Ditto Vol. IV, Fasc 7-8. @ 1/4/ each Vol. IV, Fasc 9-10 @ 110/ Cockavartika, (English) Fasc. 1-7 @ 1/4/ each Crauta Sütra of Cankhāyana, Vol. 1, Fasc. 1-7; 1, Fase. 1Vol. III, Fasc. 1-4; Vol 4, Falsc. 1 @ 10/ each Cri Bhăshyam, Fac. 1-3 @ /10/ each ... Dāna Kriya Kaumudi, Fasc. 1--21 /10/ each Gadadhara Paddhati Kālasăra V .1, Fase. 1-7 @ /10/ each Ditto Achárasārah Vol. II, Fase. 1-4 @ /10/ each Gobhiliya Gribya Sintra, Vol. 1!@ /10/ each ... Ditto Vol. II. Fase 1-2 @ 1/4) each ... Ditto (Appendix) Gebhila Parisista Ditto Grihya Sangraha ... Haralata Karmapradiph, Fasc. I ... Kāla Viveka, Fasc. 1-7 @ /10/ ehch Kātantra, Fage. 1-6 @ /12/ each *Kūrma Purana, Fasc. 3-9 @ 210/ each ... Kiranavali, Fase 1-2 @ /10/ each Madana Parijata, Fasc. 1-11 @ $10/ each Maha-bhäşya-pradipödyöta, Vol. 1, Fasc. 1-9; Vol. II, Fasc. 1-12 Vol. II, Fasc. 1-10 @ /10/ eaich ... Ditto Vol. IV, fasc. ! @ ... Manutikā Sangrala, Fasc: 1:30 /10/ each Märkandeya Purana, (English) Fasc: 1- 9 1 /- each *Mimäinsa Darçawa. Fase 10-19 @ /10/ each . Mugdhabodha Vyakarana, last. 1-4 @ /10/ each 1 Page #3 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविध प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्टभोजनताम्बूलवस्त्राभरणादिदानम्, आपत्रिमग्नानां च स्वधनव्ययेनाऽप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुन: पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् , प्रमाद्यतां च स्मारणवारणचोदना प्रतिचोदनाऽऽदिकरणम् वाचनाप्रच्छना परावर्तनाऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठान करणार्थं च साधारणपोषधशालादेः करणमिति । श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तत्र ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शोलशालित्वम् ?, कुतो वा रत्नत्रययुक्तत्वम् ?, स्त्रियो हि नाम लोके लोकोत्तरे चाऽनुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एता: खल्वभूमिजा विषकन्दल्यः, अननसम्भवा वजाशनयः,असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्राः, प्रत्यक्षा राक्षस्यः ; असत्यवचनस्थ, साहसस्य, बन्धुस्नेहविघातस्य, सन्तापहेतुत्वस्य, निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसमानवात्सल्यविधानं तासु युक्तियुक्तम् ? । उच्यते । अनेकान्त एषः, यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देवगुरुवञ्चकाश्च (१) ड-चोदन-। (२) ड-त-परिवर्तना-। Page #4 -------------------------------------------------------------------------- ________________ “५८४ । योगशास्त्रे दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा क न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद्दोषबहुलत्वमुपलभ्यते, तथापि कांसांचिद् गुणबहुलत्वमप्यस्ति। तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तगुणगरिमयोगितया सुरेन्द्ररपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अन्याहुः___ निरतिशयं गरिमाणं तेन युवत्या वदन्ति विद्वांसः । - तं कमपि वहति गर्भ जगतामपि यो गुरुर्भवति ॥१॥ इति ॥ काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितं स्थलभिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घ चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । मुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्वगुणाः, सुरेन्द्ररपि स्वर्गभूमिषु पुन: पुनर्बहुमतचारित्राः प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यवसम्पदः, काश्चिञ्चरमदेहाः, काश्चि-. वित्रिभवान्तरितमोक्षगमना: शास्त्रेषु श्रूयन्ते। तदासां जननीनामिव भगिनीनामिव वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवोत्यश्यामः। दुष्पसहर्याक्षणी नागिलाख्या व्रतिव्रतिनौ श्रावकवदपथिमा सत्यधीः। तत्कथं श्राविकाः पापवद्दनितानिदर्शनेन दूष्यन्ते ? । तस्माद्दरण न परिहरणीयाः, वात्सल्यं चासां करणीयमित्यलं प्रसङ्गेन। न केवलं सप्तक्षेत्रयां धनं वपन महाश्रावक उच्यते, किन्त्वतिदीनेष्वपि नि:खान्धबधिरपङ्गुरोगातप्रभृतिषु कृपया केवलया धनं वपन्, न तु भत्या । भक्तिपूर्वकं हि सप्तक्षेत्रां यथोचितं दानम् । अतिदीनेषु त्वविचारितपानापात्रमविमृष्टकल्पनीयाकल्पनीयप्रकारं केवलयैव करणया स्वधनस्य वपनं न्याय्यम् । Page #5 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । करु- भगवन्तोऽपि हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं गया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्रां दोनेषु चातिदयया धनं वपन् महाश्रावक उच्यते । ननु श्रावक इत्युच्यताम्, महाश्रावक इति तु महत्त्वविशेषणं किमर्थमुच्यते ? । श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्त्यो च्यते ; यदाह 'सम्पत्तदंसणाई पइदियहं जइजणा सुइ य । सामायारिं परमं जो खलु तं सावयं बिन्ति १ H हातां श्राति पदार्थचिन्तनाद् धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना दद्यापि तं श्रावकमाहुरञ्जसा ॥ २ ॥ इति निरुक्ताच्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम् ; विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनाद्दर्शनप्रभावकतां परमां दधानो दोनेषु चात्यन्तकृपापरो महाश्रावक शब्देनोच्यत इत्यदोषः ॥ १२० ॥ सप्तक्षेत्नयां धनवपनं व्यतिरेकद्दारेण समर्थयते ५.६.५ यः सद्दाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्वरं स समाचरेत् ? ॥ १२१ ॥ (१) संप्राप्तदर्शनादिः प्रतिदिवस यतिजनात् शृणोति च । सामाचारीं परमां यः खलु तं श्रावकं बुबते ॥ १ ॥ . Page #6 -------------------------------------------------------------------------- ________________ योगशास्त्रे सदिति विद्यमानमसतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्यं शरीराद्दहिर्भूतं श्रन्तरस्य तु कस्यचिद्दानं न शक्यं कर्तुं, बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेताऽपि, इदं त्वनित्यं चौरजलज्वलनदायादपार्थिवादिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति ; यदस्मद्गुरव: 'अत्थं चोरा विलुंषंति उद्दालंति य दाइया । राया वा संवरावेइ बला मोडोइ कत्थइ ॥ १ ॥ जलगो वा विणामेइ पाणियं वा पलावए । अवद्दारेण निग्गच्छे वसणोपहयस्स वा ॥ २ ॥ भूमीसंगोवियं चैव हरन्ति वन्तरा सुरा | उभित्ता जादू सव्वं पि मरन्तो वा परं भवं ॥ ३ ॥ अनित्यमपि स्वधनं किञ्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि येषूप्तं धनं शतसहस्रलक्ष कोटिगुणं भवति । एवंविधायामपि सामग्रयां यः स्वधनं न वषेत् स वराकः निःसत्त्वश्चारित्रं महासत्त्वसेवनीयमतएव दुश्वरं कथं समाचरेत् ? ; धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सहतिं (१) अर्थ चौरा विलुम्पन्ति, उद्दालयन्ति च दायादाः । राजा वा संवारयति बलात् म्मृव्यते कुत्रापि ॥ १ ॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयति । पहारेण निर्गच्छेत् व्यसनोपहतस्य वा ॥ २ ॥ भूमीसं गोपितमेव हरन्ति व्यन्तराः सुराः । अज्झित्वा याति सर्वमपि नियमाणो वा परं भवम् ॥ ३ ॥ Page #7 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । प्राप्नुयात् ?, सर्वविरतिप्रतिपत्तिकलशारोपणफलो हि श्रावकधर्मप्रासाद इति ॥ १२१ ॥ इदानीं महाशावक स्य दिनचर्यामाहब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् । किंधर्मा किंकुलश्चास्मि किंव्रतोऽस्मीति च स्मरन्॥१२२॥ पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशी मुहूर्तो ब्राह्मस्तस्मिनुत्तिष्ठेत् निद्रा जह्यात् ; परमे तिष्ठन्तीति परमेष्ठिन: पञ्चाईदादयस्तेषां स्तुतिं नमो अरिहन्ताणमित्यादिरूपामात्यन्तिकतहहुमानकार्यभूतां परममङ्गलार्थ वा पठनव्यक्तवर्णामिति शेषः । . यदाह --- __'परमेट्ठिचिन्तणं माणमम्मि सेज्जागएगा कायव । सुत्ता विणयपवित्ती निवारिया होइ एवं तु ॥ १ ॥ अन्ये त्वविशेषेणैव नमस्कारपाठमाहुन सा काचिदवस्था यस्यां पञ्चनमस्कारस्थानधिकार इति मन्वाना: । न केवलं पठन्, को धर्मो यस्याऽमौ किंधर्मा, किंकुलं यस्याऽसो किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मोत्यहमिति च स्मरविदं भावत: स्मरणम् । उपलक्षणत्वात्के गुरवो ममेति व्यतः, कुत्र ग्रामे नगरादौ वा वसामोति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि स्मरन्, धमेस्य जैनादेः, कुलस्येच्क्षाक्कादेः, व्रतानामणुव्रतादीनां स्मरणे तहिरुहपरिहारस्येषत्करत्वात् ॥ १२२ ॥ (१) परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम्। सुत्ता विनयप्रवत्तिनिवारिता भवति एवं तु ॥ १ ॥ Page #8 -------------------------------------------------------------------------- ________________ ५८.८ योगशास्त्रे - ततः शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि 1 प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ १२४ ॥ शुचिरिति मलोत्सर्गदन्तधावनजिह्वा लेखनमुखप्रक्षालन गण्डूषकरणस्नानादिना शुचिः सनित्यनुवादपरं लोकसिद्धेो ह्ययमर्थ इति नोपदेशपरम्, अप्राप्ते हि शास्त्रमर्थवत् । न हि मलिनः स्वायात्, बुभुचितोऽश्रीयादित्यव शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिक मोहान्धतमस विलुप्ता लोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्वाऽप्यप्राप्ते विषये उपदेश: सफल इति चिन्तनोयम् । न च सावद्यारम्भेषु शास्तॄणां वाचनिक्ाऽप्यनुमोदना युक्ता । यदाहुः— 'सावज्जणवज्जाणं वयणाणं जो न जाणए विसेसं । वृत्तं पि तस्म न खमं किमङ्ग ! पुण देसणं काउं ॥ १ ॥ इति शुचित्वमनूद्य पुष्पामिषस्तोत्रेरित्याद्युपदिशति - वेश्मनि ग्टहे देवं मङ्गलचैत्यरूपं भगवन्तमर्हन्तमभ्यर्च पूजयित्वा, पूजाप्रकारानाह – पुष्पामिषस्तोत्रैरिति, पुष्पाणि कुसुमानि पुष्प्रग्रहणं सर्वेषां सुगन्धिद्रव्याणां विलेपनधूपगन्धवासवस्त्राभरणादीनामुपलक्षणम् । आमिषं भच्यं पेयं च तच्च पक्कान्नफलाचतदीपजलष्टतपूर्णपात्रादिरूपं, स्तोत्रं शक्रस्तवादिसद्भूतगुणोत्कोर्तनरूपं, ततः प्रत्याख्यानं नमस्कारसहिताद्यद्दारूपं सङ्केतरूपं च (१) सावद्यावद्यानां वचनानां यो न जानाति विशेषम् । उक्तमपि तस्य न चमं किमङ्ग ! पुनर्देशनां कर्तुम् ॥ Page #9 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। ५८ ग्रन्थिसहितादि कृत्वा यथाशक्तीति शतवनतिक्रमेण, शक्तितस्त्यागतपसी इति सुप्रसिद्धमेव, देवगृहं भहिचैत्यरूपं बजेगच्छेत् । अत्र च स्नानविलेपनवर्ण कविशिष्टवस्त्राभरणामकारशस्त्रपरिग्रहविशिष्टवाहनाधिरोहणप्रभृतीनां स्वतः सिहामा नोपदेशः । अप्राप्ते शास्त्रमर्थवदित्युक्तमेव देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा "मवाए इड्डीए सव्वाए दित्तीए सव्वाए जुईए सबबलेणं सवपोरिसेणं' इत्यादिवचनात्प्रभावनानिमित्तं महर्घा याति। पथ सामान्यविभवस्तदा प्रोत्यपरिहारेण लोकोपहासं परिहरन् व्रजति ॥ १२३ ॥ तत:प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ १२४ ॥ तत्र देवगृहे विधिना विधिपूर्वकं प्रविश्य त्रिस्त्रीन् वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् ; जिनमहट्टारकम्, प्रवेशविधियायम्-पुष्यताम्बूलादिसचित्तद्रव्याणां क्षुरिकापादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽनलिबन्ध शिरस्यारोपयन् मनसच तत्परतां कुर्वनिति पञ्चविधाभिगमेन नैषधिकोपूर्व प्रविशति । (१) सर्वमा सजना, सर्वया दीप्ता, सर्वया धन्या, सबलेन, सर्बपौरुषेण । Page #10 -------------------------------------------------------------------------- ________________ योगशास्त्रे यदाह –'सचित्ताणं दवाणं वि उसरणयाए, अचित्ताणं दवाणं वि उसरणयाए, एगलसाडिएणं उत्तरासङ्गकरणेणं चक्षुफासे प्रश्नलिपग्गहेणं मणसो एगत्तीभावकरणेणंति । __ यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिङ्गानि परिहरति । यदाह प्रवहद्द रायकउआई पञ्च वररायक उप्रारूवाई। खग्गं छत्तीवाणह मउडं तह चामरात्री य ॥ १ ॥ . पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे प्राद्यन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम्, तथाहि-नित्यं विशेषतश्च पर्वणि नात्रपूर्वक पूजाकरणमिति मात्र काले प्रथमं सुगन्धिश्रीखण्डेन जिनबिम्बस्य तिलककरणम् । तत: मौनकुरङ्गमदागुरुसारं सारसुगन्धिनिशाकरतारम् । - सारमिलन्मलयोत्यविकारं लोकगुरोर्दह धूपमुदारम् ॥ १ ॥ - इति वचनाडूपोत्क्षेपणम्, ततः सर्वोषध्यादिद्रव्याणां जलपूर्णकलसे क्षेपणं, पश्चात् कुसुमाञ्जलिक्षेपपूर्वकं सर्वोषधिकर्पूरकुखमश्रीखण्डागुरुप्रभृतिभिर्जलमिटेघृतदुग्धप्रभृतिभिश्च नात्र (१) सचित्तानां द्रव्याणामपि अवसरणतया, अचित्तानां द्रव्याणामपि अव-- सरणतया, एकशाटके नोत्तरासङ्गकरणेन, च नसणे अञ्जलिप्रग्रहेण मनस एकत्वोभावकरणेनेति । (२) अपहृत्य राजककुदानि पञ्च वरराजककुदरूपाणि। सङ्गः छलपान सकुटं तथा चामराणि च ॥ Page #11 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । ६०१ करणम्, तत: सुरभिणा मलयजरसादिना विलेपनविधानम्, ततः सुगन्धिजाति-चम्पक-शतपत्र-विचकिल-कमलादिमालाभिभंगवतोऽभ्यर्चनम्, रत्नसुवर्णमुक्ताभरणादिभिरलङ्करणम्, वस्त्रादिभिः परिधापनम्, पुरतश्च सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिकालेखनम्, तत्पुरतश्च बलिमङ्गलदीपदधितादीनां ढौकनम्, भगवतश्च भालस्थले गोरोचनया तिलककरणम्, तत आरात्रिकाद्युत्तारणम् । . ..... ... . ...... यदाह'गन्धवरधूवसवोसहीहि उअगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवएहिं च ॥ १ ॥ सिहस्त्रयदहिअक्षयगोरोपणमाइएहिं जहलाभं ।. . कञ्चणमोत्तिभरयणाइदामएहिं च विविहेहिं ॥ २ ॥ पवरेहिं साहणेहिं पायं भावो वि जायए पवरो । न य अबो उवोगो एएसि सिया ण लट्ठयरो ॥ ३ ॥ त्ति । एवं भगवन्तमभ्यर्च पूजयित्वा ऐर्यापथिकोप्रतिक्रमणपूर्वक शक्रतवादिभिर्दण्डकैश्चैत्यवन्दनं कत्वा स्तवनैः स्तोत्रैरुत्तमैरुत्तम (१) गन्धवरधूपसर्वोषधीभिरुदकादिकैश्चिौः । सुरभिविलेपनवर कुसुमदामबलिदीपकैश्च ॥ १॥ सिद्धार्थक-दध्यिक्षत-गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः। म चान्य उपयोग एतेषां स्याद् मनोहरतरः ॥ ३॥ इति । Page #12 -------------------------------------------------------------------------- ________________ . योगशास्त्रे कविरचितैः स्तूयाद् गुणोत्कीर्तनं कुर्यात् । स्तोत्राणां चोत्तमत्व. मिदमुक्तम्यथापिण्ड क्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । प्राशयविशुदिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदनगर्भे: प्रणिधानपुरम्मरैर्विचित्रार्थः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥२॥ इति । न पुनरेवंविधैःएकं ध्याननिमीलनान्मुकुलितं चक्षुहितीयं पुन: पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यहूरविक्कष्टचापमदनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्वयं पातु वः ॥ १ ॥ तथाधन्या केयं स्थिता ते शिरसि शशिकला किं मु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारों पृच्छामि नेन्दु कथयतु विजया न प्रमाणं यदीन्दु र्देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्यादिभोर्वः ॥ १ ॥ तथा'पनमत पनयप्पकुपितगोलीचलणग्गलग्गपडिबिंबं । तसम नखतप्पनेसु एकातसतनुथलं लुई ॥ १ ॥ (१) प्रणमत प्रणयप्रकुपित गौरोचरणापलम्नप्रतिबिम्बम् । दशत नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ १ ॥ Page #13 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः । तथाएतत्किं शिरसि स्थितं मम पितुः खण्डं सुधादीधिते बलाटं किमिदं विलोचनमिदं हस्तेऽस्य किं पन्नगः । इत्यं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥१॥ तथाउत्तिष्ठन्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा कृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्ति द्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गा नीतं वपुरलसलसहाहु लक्ष्मयाः पुनातु ॥ १ ॥ 'अनेन च सम्पूर्णो वन्दनाविधिरूपलक्षितः । यथा प्रतिन्नि निसीहिय तिनि य पयाहिणा तिन्नि चेव य पणामा । तिविहा पूआ य तहा अवस्थतियभावणं चेव ॥ १ ॥ तिदिसिनिरक्वणविरई भूमोड पमज्जणं च तिक्युत्तो। वस्माइतियं मुद्दातियं च तिविहं च पणिहाणं ॥ २ ॥ पुप्फामिसयु इभा तिविहा पूा अवस्थतियगं तु। . (१) च एतेन । तिस्रो नैधिक्यस्तिस्रच प्रदक्षिणास्त्र य एव च प्रणामाः | विविधा पूजा च तथाऽवस्थाविकभावनं चैव ॥ १ ॥ विदिगनिरीक्षणविरतिभूमौ प्रमार्जनं च बिकत्वः । वहित्विक मुद्रात्रिकं च विविधं च प्रणिधानम् ॥ २ ॥ पुष्यामिषस्तुतिभेदास्विविधा पूजाऽवस्थालिककं त। Page #14 -------------------------------------------------------------------------- ________________ ६०४ । योगशास्त्रे - 'छ उमस्थ-केवलित्तं सिहत्तं भुवणनाहस्म ॥ ३ ॥ वस्माइतियं तु पुणो वसस्थालम्बणम्मरूवं तु। मणवयणकायजणि तिविहं पणिहाणमवि होइ ॥ ४॥ तथा । पंचंगो पणिवात्रो थयपाढो होइ जोगमुहाए । वन्दन जिणमुहाए पणिहाणं मुत्तमुत्तीए ॥ १ ॥ दो जाणू दोन्नि करा पंचमयं होइ उत्तिमंगं तु। सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ॥२॥ अयोसंतरिअंगुलिकोसागारहिं दोहिं हत्थेहिं । । पिहोवरिकोप्परसंठिएहिं तह जोगमुद्दत्ति ॥ ३ ॥ चत्तारि अंगुलाई पुरो जणाई जस्थ पच्छिमश्रो ॥ . पायाणं उस्मग्गो एसा 'पुण होइ जिणमुद्दा ॥ ४ ॥... (१) छमस्थ-केवलित्वं सिद्धत्वं भुवननाथस्य ॥३॥ वर्णादिलित पुनर्वालम्बनखरूपं तु । मनो-वचन कायजनितं विविध प्रणिधानमपि भवति ॥ ४ ॥ पञ्चाङ्गः प्रणिपातः स्तवपाठो भवति योगमुद्रया। वन्दनं जिनमुद्रया प्रणिधानं मुक्ताशुक्त्या ॥१॥ . हे जानुनी हौ करौ पञ्चमकं भवत्युत्तमाङ्गं तु । सम्यक् संप्रणिपातो जेयः पञ्चाङ्गप्रणिपातः ॥ २ ॥ अन्योन्यान्तरितालिकोशागाराभ्यां हाभ्यां हस्ताभ्याम् । . उदरोपरिकूर्णरसस्थिताभ्यां तथा योगमुद्रेति ॥ ३ ॥ चत्वार्यङ्गुलानि पुरत जनानि यत्र पश्चिमकः । पादयोरुत्मगं एषा पुनर्भवति जिनमुद्रा ॥४॥ ख ग ड खलु। . . (३) Page #15 -------------------------------------------------------------------------- ________________ हतीय: प्रकाशः । - ६०५ 'मुत्तासुत्तीमुद्दा जस्थ समा दोवि गम्भिया हस्था। ते पुण णिडालदेसे लग्गा भन्ने अलग्गत्ति ॥ ५ ॥ इत्यादि । एर्यापथिको प्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकोसूत्रं व्याख्यायते-तच्च इच्छामि पडिक्कमिउमित्यादि तस्म मिच्छामि दुक्कडमित्यन्तम्, इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए ; इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमौर्या गमनमित्यर्थः, तत्प्रधान: पन्या ईर्यापथः, तत्र भवा ऐर्यापथिको ; काऽसौ ? विराधना जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनाया: सकाशात् प्रतिक्रमितुमिच्छामौति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद न तु शयनादेशस्थितस्य कृतलोचादेर्वा ; तस्मादन्यथा व्याख्यायते-ईर्यापथः साध्वाचारः, यदाह- ईर्यापथो मौनध्यानादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी ; काऽसौ ? विराधना साध्वाचारातिक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः । साध्वाचाराऽतिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम्, शेषाणां त पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपञ्चः । क सति विराधना ? गमणागमणे गमनं चागमनं च समाहारहन्दस्तस्मिन्, (१) मुक्ताशुक्रिमुद्रा यत्र समौ हावपि गर्भितौ हस्तौ।। तो पुनर्ललाटदंगे लग्नावन्यावसनाविति ॥ ५ ॥ (३) क ग ड समा जहिं। Page #16 -------------------------------------------------------------------------- ________________ ६०६ .. योगशास्त्रे गमनं प्रयोजने सति बहिर्यानम्, पागमनं प्रयोजनसमाप्तौ स्वस्थान एव गमनम् । गमनागमनेऽपि कथं विराधना ? इत्याह -पाणक. मणे प्राण्याक्रमणे प्राणिनो हौन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र ; तथा, बौभक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह ; तथा, हरिपकमणे हरिताक्रमणे ; अनेन सकलवनसतेः, तथा, ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमण, अंवग्यायो जलविशेषः, इह चावण्यायग्रहण मतिशयतः शेषजलसम्भोगपरिहरणार्थम्, उत्तिंगा गर्दभाक्तयो जीवाः, ते हिभूमौ विवराणि कुर्वन्ति, कोटिकानगराणि वा उत्तिंगाः ; पनकः पञ्चवर्णोलिः ; दकमृत्तिका अनुपहतभूमौ चिक्विल्लः ; अथवा, दकशब्देनाप्कायो एयते मृत्तिकाशब्देन तु पृथ्वीकाय इति ; मर्कट: कोलिकस्तस्य सन्तानो जालकम्, ततश्चावश्यायचोत्तिङ्गश्चेत्यादिहन्दः. तेषां संक्रमणमाक्रमणं तस्मिन् । कियन्तोवा भेदेनाख्यातुं शक्यन्ते ? इत्याहजे मे जौवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः ; ते च एगिंदिया एक स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रिया: पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः ; बेइंदिया हे स्पर्शनरसने इन्द्रिये येषां ते हौन्द्रियाः कम्यादयः ; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते बौन्द्रियाः पिपीलिकादयः ; चउरिंदिया चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भमरादयः ; पंचिंदिया पञ्च श्रोबान्तानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया मूषकादयः । विराधनाप्रकारमाह अभिहया अभिमुखा हतावरणेन घहिताः, उक्षिप्य क्षिप्ता Page #17 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । वा ; वत्तिमा वर्तिताः पुञ्जीकताः धूलिचिखल्लादिना स्थगिताः ; लेसिया श्लेषिताः पिष्टा भूम्यादिषु वा लगिताः ; संघाइया संघातिता: अन्योन्यगात्ररेकत्र लगिताः ; संघटिया संघट्टिताः मनाक् स्पृष्टाः ; परिपावित्रा परितापिता: समन्ततः पीडिताः ; किलामित्रा लमिता ग्लानिमापादिता मारणान्तिकं समुद्घातं नीता इत्यर्थः ; उद्दवित्रा प्रवद्राविता उत्तासिताः ; ठाणाउ ठाणं संकामिया स्वस्थानात् परस्थानं नौताः ; जीवियानो ववरोविया जीविताद व्यपरोपिता मारिता इत्यर्थः ; तस्म तस्य अभिहया इत्यारभ्योक्तविराधनाप्रकारस्य सर्वस्य मिच्छामि दुक्कडं मिथ्या मे दुष्कृतम् एतद् दुष्कृतं मिथ्या मे भवतु विफलं भववित्यर्थः । मिच्छामि दुक्कडमित्यस्य पूर्वाचार्या निरुतविधिमुपदर्शयन्तितद्यथा - 'मित्ति मिउमद्दवस्थे छत्ति य दोसाण छायणे होई। मित्ति अमेराए ठिो दुत्ति दुगंछामि अप्पाणं ॥ १ ॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ २ ॥ एवमालोचनाप्रतिक्रमणरूपं हिविधं प्रायश्चित्तं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चित्तं प्रतिपित्सुरिदं सूत्रं पठति-तम्म उत्तरीकरणणं (१) मीति मदु-माईवार्थे छेति च दोषाणां छादने भवति । मीत्यमर्यादायां स्थितो दु-इति जुगुम आत्मानम् ॥ १ ॥ केति कतं मे प्रापं डेति च लयामि तदुपशमेन । एष मिच्छादुक्कड ( मिथ्यादुम्कृत ) पदाक्षरार्थः समासेन ॥ १ ॥ Page #18 -------------------------------------------------------------------------- ________________ : योगशास्त्र पायच्छित्तकरणणं विसोहीकरणणं विसल्ली करणणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्मग्गं । तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्मग्गमिति योगः । तत्रोत्तरकरणं पुनः संस्कारहारेण परिष्करणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् ; अयं भावः-विराधनस्य हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम्, तेन पापकर्मनिर्धातना भवति। उत्तरीकरणं च प्रायश्चित्तकरणहारेण भवति इत्याह-पायच्छित्तकरणणं प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति प्रायश्चित्तम् ; यहा, पापं छिनत्तीति पापच्छित् आषत्वात्यायच्छित्तं तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुदिहारण . भवतीत्याह-विसोहीकरणणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनो निर्मलीकरणं विशुद्धेः करणं विशुद्धिकरणं तेन हेतुभूतेन । विशुद्धिकरणं च विशल्यकरणहारेण भवति अत पाह-विसल्लीकरणणं विगतानि शल्यानि मायादीनि यस्याऽसौ विशल्यः, अविशल्यस्य विशल्यस्य करणं तेन हेतुभूतेन । किमित्याह-पावाणं कमाणं निग्घायणट्ठाए पापानां संसारनिबन्धनभूतानां कर्मणां जानावरणीयादीनां निर्धातनार्थाय निर्घातनमुच्छेदः स एवार्थः प्रयो. जनं तस्मै, ठामि काउस्मग्गं अनेकार्थत्वाहातूनां ठामि करोमि कायस्य उत्सर्गो व्यापारवत: परित्यागस्तम्। किं सर्वथा ? नेत्याहअवस्य जससिएणं अन्यत्रीच्छसितात्, ढतीया पञ्चम्यर्थे, जङ्ख प्रलम्ब वा खसितमुच्छसितं तन्मुन्ना योऽन्यो व्यापारस्तेन व्यापारवतः Page #19 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाश: । कायस्य उत्सर्ग इत्यर्थः, उच्छसितं हि निरोडुमशक्यम्, तनिरोधे सद्यः प्राणविघाताद्यापत्तेः । यदाह 'ऊसासं न निरुभइ अभिग्गहिओवि किमु चिट्ठाए । सज्ज मरणं निरोहे सुहुमुस्मासं तु जयणाउ ॥ १ ॥ एवं निःश्वसिताद्यपि नौससिएणं अध:श्वसितं नि:श्वसितं तस्मात् ; खासिएणं काशितात्; किएणं क्षुतात् ; जम्भाइएणं वितवदनस्य प्रबलपवननिर्गमो जम्भितं तस्मात्; उड्डुएणं उहारितात् ; वायनिसग्गेणं अपानेन पवननिर्गमो वातनिसर्गस्तस्मात् ; भमलिए शरीरभमेराकस्मिक्याः ; पित्तमुच्छाए पित्तप्राबल्यान्मनाग्मोहो मूळ तस्याः ; सुहुमे हिं अंगसंचाले हिं सूक्ष्मेभ्यो लक्ष्यालक्ष्येभ्योऽङ्ग सञ्चारेभ्यो गानविचलनप्रकारेभ्यो रोमोहमादिभ्यः ; सुहुमेहिं खेलसंचाले हिं सूक्ष्मेभ्यः खेलस्य श्लेष्मण: सञ्चारेभ्यः ; पात्मनो हि वीर्ययुक्तद्रव्यतया अन्तःसूक्ष्मश्लेभसञ्चार: सम्भवतीत्यतोऽन्यत्रोचते सुहुमेहिं दिट्ठिसंचालेहिं सूक्ष्मेभ्यो दृष्टिसञ्चारेभ्यो निमेषादिभ्यः ; सूक्ष्मा हि दृष्टिसञ्चारास्तदा सर्वथा निरोडुं शक्यन्ते यदा एकस्मिन् द्रव्ये दृष्टिनिवेश: स्थिरीकर्तुं शक्यते, न च शक्यते कर्तुमिति । उच्छु सितादिभ्योऽन्यत्र कायोत्सर्ग करोमोत्येतावता किमुक्तं भवति एवमाइएहिं आगारहिं अभग्गो अविराहिलो हुज्ज मे काउसमग्गो एवमादिभिरुच्छसितनिःश्वसितादिभिः पूर्वोक्तैराकारैरपवादरूपै (१) उच्छासन निरुण ड्वि आभिग्राहकोऽपि किमुत चेष्टया। सद्यो मरणं निरोधे सूक्ष्मोच्छास तु यतनया ॥ १ ॥ Page #20 -------------------------------------------------------------------------- ________________ ६१० . योगशास्त्रे रभग्नोऽविराधितो मे कायोत्सर्गो भूयादिति सम्बन्धः ; आदिशब्दादन्यैरपि यदा अग्ने विद्युतो वा ज्योतिः स्पृशति तदा प्रावरणायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति ? । उच्यते-नाऽत्र नमस्कारेण पारणमेवावशिष्ट कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाण: कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत अर्द्ध नमस्कारमपठित्वा पारयतो भङ्गोऽपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाणः कायोत्सर्गस्तस्मिन् पूर्ण एव नमो अरिहंताणमिति वक्तव्यम् । तथा मार्जारमूषिकादेः पुरतो गमनेऽग्रतः सरतोऽपि न भङ्गः। तथा चौरसंभ्रमे राज. संभ्रमे वा अस्थानेऽपि नमस्कारमुच्चारयतो न भङ्गः । तथा सर्पदष्टे आत्मनि परे वा साध्वादौ सहसा उच्चारयतो न भङ्गः । यदाहु: 'अगणि-उच्छिन्दिज्ज-बोहिअखोभाइ-दीहडको वो। आगारहिं न भम्गो उम्मग्गो एवमाईहिं ॥ १ ॥ आक्रियन्ते आग्रह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकाविद्यमानैरपि भग्नः सर्वथा विनाशितः, न भग्नोभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्ग: । कियन्तं कालं यावदित्याह-जाव अरिहंताणं भगवंताणं नमोकारणं न पारमि यावदिति कालावधारणे, याव . (१) अग्न्यु- गोद्य-बोधिकक्षोभादि दीर्घदष्टो वा। बाकारन भग्न उत्सर्ग एवमादिभिः ॥ १॥ .. Page #21 -------------------------------------------------------------------------- ________________ हतीय: प्रकाश:। ६११ दर्हतां भगवतां सम्बन्धिना नमस्कारेण नमोअरिहंताणमित्यनेन न पारयामि न पारं गच्छामि तावत्किमित्याह ताव कायं ठाणेणं मोणेणं झाणणं अप्पाणं वोसिरामि तावत्तावन्तं कालं कायं देहं स्थानेनी स्थानेन हेतुभूतेन अर्द्धस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मौनेन वाग्निरोधलक्षणेन,ध्यानेन शुभेन सहिषये चिन्तामभिगृह्ये त्यर्थः ; अप्पाणं आर्षत्वादात्मीयं कायं वोसिरामि व्युत् सृजामि कुव्यापारनिराकरण न परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः-पञ्चविंशत्युच्छासमानं कालं यावदूईस्थानस्थितः प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानाऽनुगतस्तिष्ठामि स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासहारेण व्युत्सृजामि । पञ्चविंशत्युच्छ्रासाश्च चतुर्विशतिस्तवेन चन्देसु निम्मलयरा इत्यन्तेन चिन्तितेन पूर्यन्ते, पायसमा जसासा इति वचनात् । संपूर्णकायोत्सर्गच नमो अरहताण मिति नमस्कारपूर्वक पारयित्वा चतुर्विंशतिस्तवं सम्पूर्ण पठति। एवं सनिहिते गुरौ तत्समक्षं, गुरुविरहे तु गुरुस्थापनां मनसिकत्वा ईर्यापथप्रतिक्रमणं निववं चेत्यवन्दनमुत्कृष्टमारभ्यते, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकोप्रतिक्रमणमन्तरेणाऽपि भवतः । प्रत्व नमस्कारेण नमो अरहंताणमित्यनेन वपुरेव सवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाडलः ॥ १ ॥ इत्यादिना कविकृतेन च जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति । Page #22 -------------------------------------------------------------------------- ________________ योगशास्त्र प्रणामस्तु पञ्चधा-- एकाङ्गः शिरमो नामे स द्यङ्गः करयोईयोः । त्रयाणां नमने त्राङ्गः करयोः शिरसस्तथा ॥ १ ॥ चतुणां करयोर्जान्वोनमने चतुरङ्गकः।। शिरस: करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥ २ ॥ मध्यमा तु स्थापनाहतस्तवदण्डकेन स्तुत्या चैकया भवति । यदाह - 'नवकारेण जहन्ना दंडगथुइजुगल मज्झिमा गया। संपुरमा उक्कोसा विहिणा खलु वंदणा तिविहा ॥ १ ॥ इत्यु कृष्टया चैत्यवन्दनया वन्दितु कामो विरत: साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुनर्बन्धको वा यथाभट्रको यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्द नमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्ड कसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकदिकादिप्रमाणाश्च विश्रामभूमिरूपा नवसम्पदो भवन्ति । यदाह-- दो तिअ चउर ति पंचा दोन्नि अचउरो य हुन्ति तिने य। - सक्थए नव संपय तित्तीसं होन्ति आलावा ॥ १ ॥ (१) नमस्कारेण जघन्या दण्ड कस्तुति युगलाद् मध्यमा जेया । सम्पूर्णोत्कृष्टा विधिना खलु वन्दना विविधा ॥ १ ॥ (२) दो वयश्चत्वारस्त्रयः पञ्च हौ च चत्वारश्च भवन्ति त्रयश्च । शक्तस्तवे नव सम्पदात्रयस्त्रिंशद् भवन्ति अालापाः ॥ १.॥ Page #23 -------------------------------------------------------------------------- ________________ तीयः प्रकाशः । एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते । व्याख्या नमोत्थुणं अरहंताणं भगवंताणं तत्र नम इति नैपातिक पदं पूजार्थ, पूजा च द्रव्यभावसङ्कोचः । तत्र करशिरःपादादिद्रयसन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु। प्रार्थनैषा धर्मबोजमाशयविशुद्धिजनकत्वात्। णमिति वाक्यालङ्कारे। अतिशय पूजामर्हन्तीति अर्हन्तः। यदाह 'अरहंति वंदणनमंसणाई अरहंति पूयसकारं । सिडिगमणं च अरिहा अरहंता तेण वुञ्चति ॥ १ ॥ सुगद्दिषाहः सत्रिशत्रुस्तुत्ये ॥५।२।२६॥ इति वर्तमानकालेऽटश् । कथं वर्तमानकालत्वमिति वेत्, पूजारम्भस्याऽनुपरमात् । एष एव हिन्याय्यो वर्तमानकालो यत्रारब्धस्यापवर्गो नास्ति । तथा अरिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामने कभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः । तथा रजोहननादहन्तः, रजश्व घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुण स्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति तस्य हननाद हन्तः। तथा रहस्याभावादहन्तः ; तथाहि--भगवतां निरस्तनिरवशेषज्ञानावरणादिकमैपारतन्त्रयाणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत्प्रत्यक्षतो जानतां पश्यतां च (2) अर्हन्ति वन्दन-नमस्य नाद्यहन्ति पूजामत्कारम् । मिनिगमने च अर्हा अन्तिस्ते नोचन्ते ॥ १॥ Page #24 -------------------------------------------------------------------------- ________________ ६१४ रहस्यं नास्ति, तस्माद्रहस्याभावादर्हन्तः । एषु त्रिष्वर्थेषु पृषोदरादित्वाददिति सिप्रति । अथवा अविद्यमानं रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां तेऽरहोऽन्तरस्तेभ्योऽर होन्तर्भ्यः । अथवा अरहदुद्भ्यः क्षीणरागत्वात् कचिदप्यासक्तिमगच्छङ्गाः । अथवा अरहदभ्यो रागद्वेष हेतुभूतमनोज्ञेतर विषय संपर्केऽपि वीतरागत्वादिकं खं स्वभावमत्यजद्भाः । अरिहंताणमिति पाठान्तरं वा ; तत्र कर्मा रिहन्तृभ्यः । श्राह च- योगशास्त्रे 'अट्ठविहं पि हु कम्मं अरिभूर्य होइ सयलजीवाणं । तं कम्ममरिहंता अरिहंता तेण वुश्चंति ॥ १ ॥ अरुहंताणमित्यपि पाठान्तरम् । तत्र अरोहदुभ्योऽमुपजायमानेभ्यः, क्षौणकर्मबीजत्वात् । उच - दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाडुरः । कर्मबीजे तथा दग्धे नारोहति भवाङ्कुरः ॥ १ ॥ शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति ; यद्दयमवोचाम --" उच्चार्हति ॥ ८ २ १११ ॥ चकाराददितावपि, तेभ्योऽर्हदभ्यो नमोऽस्त्विति नमः शब्दयोगाच्चतुर्थी, “चतुयाः षष्ठो” ॥८।३।१३१॥ इति प्राकृतसूत्राच्चतुष्याः स्थाने षष्ठो । बहुवचनं चा 1 (१) अष्टविधमपि खलु कर्माऽरिभूतं भवति सकलजीवानाम् । तत् कर्मारिहन्तारोऽर्हन्नस्तेनोच्यन्ते ॥ १ Page #25 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६१५ हैतव्यवच्छेदेनाऽहहहुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च। एते चाऽहन्तो नामाधनेकभेदा इति भावात्मम्परिग्रहार्थमाह भगवद्भाः भगोऽर्कज्ञानमाहात्म्ययशोवैराग्य मुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मेखर्ययोनिषु ॥ १ ॥ इति वचनादर्कयोनिवर्जमिह हादशधा भगशब्दस्यार्थ: म विद्यते येषां ते भगवन्तः, निन्दावज भूम्यादिष्वर्थेषु मतुः ; ज्ञानं तावह निवासात् प्रभृति आदीक्षातो मतिश्रुतावधिलक्षणं दीक्षानन्तरं त्वघातिकर्मचतुष्टयक्षयाद मन:पर्यायज्ञानसहितम्, घातिक्षये चानन्तमनन्तविषयं नि:शेषभावाभावस्वभावावभासकं केवलज्ञानम् । १ । माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन गर्भनिवासात् प्रभृति कुलस्य धनादिवर्धनेनाऽप्रणतसामन्तानां च प्रणत्येतिमारिवैरोपहतिवर्जितराज्यकरणनाऽतिवृष्ट्यनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चाऽवसेयम् । २। यशस्त रागहेषपरीषहोपसर्मपराक्रमसमुत्थमाकालप्रतिष्ठं यत्सर्वदा दिवि सुरसुन्दरोभिः पाताले नागकन्याभिर्गीयते सुरासुरैनित्यमभिष्ट्रयते च ।। वैराग्यं मरुवरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिर्नाम, यदा त सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्मणो भवन्ति तदा सुखदुःखयोर्भवमोक्षयोरीदासीन्यमिति त्रिविधमप्यतिशायि भवति । Page #26 -------------------------------------------------------------------------- ________________ . योगशास्त्रे यदवोचाम वीतरागस्तोत्रे यदा मरुनरेन्द्र श्रीस्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ १ ॥ नित्यं विरक्त: कामेभ्यो यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ २ ॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमौशिषे । तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ॥३॥ इति ।। मुक्तिश्च सकलले शप्रहाणलक्षणा सनिहितैवेति । ५। रूपं तु 'सव्वसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा। जिणपायंगुटुं पड़ न सोहए तं जहिंगालो ॥ १ ॥ इति निदर्शनात् सिद्धं सर्वातिशायि । ६ । वीर्यं च मेरोर्दण्डरूपतां धरित्रवाश्च छत्ररूपतां कर्तुं सामर्थ्यम् श्रूयते ; हि तत्कालजातेनैव श्रीमहावीरेण शकशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वत: प्रकम्पितः । ७। प्रयत्नः परमवीर्यसमुत्थ एकरात्रि क्यादिमहाप्रतिमाभावहेतुः समुहातशैलेश्यवस्थाव्यङ्गाः । ८। इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपतमग्नस्य जगत उद्दिधीर्षातिशयवती । ८ । श्री_तिकर्मोच्छेदविक्रमावाप्त केवलालोकसम्पत्तिः, अतिशयसुख सम्पच्चानुपमा । १० । धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् । ११ । ऐश्खये तु (1) सर्वसुरा यदि रूपमङ्गुष्ठ प्रमाणक विकुर्वे युः । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथागारः ॥ १ ॥ Page #27 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६१७ भक्तिभरावनम्त्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् | १२ | एवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते – आइगराणं तित्थयराणं सयंसंबुद्धाणं- आदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते तेभ्यः । यद्यपि सैषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भवति, न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति चेति वचनाद नित्या दादशाङ्गी ; तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्खतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्दम् । एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते अकृत्स्त्रक्षये कैवल्याभावादिति वचनादिति तद्यपोहार्थमाह - तीर्थकरेभ्यस्तीर्यते संसारसमुद्रोऽनेनेति तीर्थं तच्च प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा ; यदाहु: - तित्थं भन्ते ! तित्थं तित्थयरे तित्थं गोयमा ! अरिहा ताव नियमा तित्यंकरे तित्थं पुण चाउवसे समणसंघे पढमगणहरे वा, लत्करणशीलास्तीर्थकराः । न चाकत्त्रचये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् । एवं ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थकरत्वमस्माभिरपि नेष्यते । एतेऽपि सदा शिवानुग्रहात् कैश्चिश्वोधवन्त इष्यन्ते, यदाह- -महेशानुग्रहाद् बोधनियमाविति तत्रिराकरणार्थमाह – स्वयं संबुद्धेभ्यः स्वयमात्मना तथा - (१) तीर्थं भगवन् ! तीर्थं तीर्थंकरस्तीर्थं गौतम ! अर्हस्तावनियमात् तीर्थकरस्तोर्थं पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथम गणधरो वा । ७८ Page #28 -------------------------------------------------------------------------- ________________ ६१८ : योगशास्त्रे भव्यत्वादिसामग्रीपरिपाकात्र तु परोपदेशात् सम्यगविपर्य येण बुद्धा अवगततत्त्वाः स्वयंसंबुद्धास्तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसविधानायत्तबोधास्तेऽभूवन्, तथापि तीर्थकरजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः, यद्यपि च तीर्थकरजन्मन्यपि लोकान्तिकविदशवचनात् "भयवं तिथं पवत्तेह' इत्येवंलक्षणाद दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयाबावत् खयमेव प्रव्रज्यां प्रतिपद्यन्ते। इदानी स्तोतव्यसम्पद् एव हेतुविशेषसम्पदुच्यते-पुरिसोत्तमाणं पुरिससौहाणं पुरिसवरपुण्डरीपाणं परिसवरगन्धहस्थीणं -पुरि शरौरे शयनात् पुरुषा विशिष्ट कर्मोदयाहिशिष्ट संस्थानवत्शरीरवासिनः सत्त्वास्तेषा- . मुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः ;' तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनौकतखार्थी उपचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कतन्नतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति। न खल्वसमारचितमपि जात्यरत्नं समानमितरेण । न च समारचितोऽपि काचादिर्जात्यरत्नीभवति। एवं च यदाहुः सौगता:-नास्तीह कश्चिदभाजन सत्त्व इति, सर्वे बुद्धा भविष्यन्ति इति च ; तत् प्रत्युक्तम् । एते च बाह्यार्थसंवादसत्यवादिभिः संस्कृताचार्यशिथैनिरुपमानस्तवार्ही एवेष्यन्ते होनाधिकाभ्यामुपमा मृषेति वचना. सहावच्छेदार्थमाह-पुरुषसिंहेभ्यः पुरुषा: सिंहा इव प्रधाना: (१) भगवस्तीर्थं प्रवर्तयत। Page #29 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । शौयादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौय्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया तदुच्छेदं प्रति क्रूरता क्रोधादौन् प्रत्यसहनतया रागादीन् प्रति वीर्ययोगेन तपः कर्म प्रति वीरतया ख्याताः, तथा एषामवज्ञा परोष हेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्गे, न खेदः संयमाध्वनि, न प्रकम्पो ध्याने, न चैवमुपमा मृषा तद्वारेण तदसाधारणगुणाभिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते विजातीयेनोपमायां तत्सहधर्मापत्त्या पुरुषत्वाद्यभावप्राप्तिः । यदाहु:ते विरुद्धोपमायोगे तम्मापत्त्या तदवस्तुत्वमिति तहापोहायाहपुरुषवरपुण्डरोकेभ्यः पुरुषा वरपुण्डरोकाणीव संसारजला - सङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि तेभ्यः यथाहि पुण्डरीकाणि पङ्क्ते जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति निवासी भुवनलक्ष्मनाः, आयतनं चक्षुराद्यानन्दस्य प्रवरगुणयोगतो विशिष्टतिर्य्यग्नरामरेः सेव्यन्ते सुखहेतवो भवन्ति ; तथा भगवन्तोऽपि कर्मपते जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन निवासो गुण सम्पदः, हेतवः परमानन्दस्य केवलादिगुणभावेन तिर्यग्न रामरे से त्र्यन्ते निवृत्तिसुखहेतवश्च जायन्ते इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु विजातीयोपमायोगेन तद्धर्मापत्तिरापाद्यते तर्हि सिंहादिसजातीयोपमायोगे तद्धम्माणां पशत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरो ६१८ Page #30 -------------------------------------------------------------------------- ________________ ६२० योगशास्त्रे विनयीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते अभिधानक्रमाभावे अभिधेयमपि तहदक्रमवदसदितिवचनादेतन्निरासायाह -पुरुषवरगन्धहस्तिभ्यः पुरुषा वरगन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रगजा भज्यन्ते तहदिति परचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्वगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते, न चैवमभिधानक्रमाभावेऽभिधेयमपि क्रमवदसदिति वाच्यम् । सर्वगुणानामेकनाऽन्योऽन्यसंवलितत्वेनावस्थानात्, तेषां यथारुचि स्तोत्राभिधाने न दोषः। एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत्ततीया ।३। इदानों स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदमाह - लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोअगराणं-समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते, धर्मादीनां वृक्तिट्रयाणां भवति यत्र तत् क्षेत्रं तेव्यैः सह लोकस्तहिपरीतं ह्यलोकाख्यमिति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः। अन्यथा अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वात्रैषामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याण निबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, लोकनाथभ्यः, इह लोकशब्देन बीजाधानादिना संविभतो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्य लोकः परिग्टह्यते अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमकनाथ Page #31 -------------------------------------------------------------------------- ________________ ६२१ तृतीयः प्रकाशः। इति वचनात्, तदिह येषामेव बीजाधानोझेदपोषणैर्योगः, क्षेमं च तत्तदुपद्रवरक्षणेन ते एव भव्या लोकशब्देन गृह्यन्ते, न चैते योगक्षेमे सकलभव्यसत्त्व विषये कस्यचित्सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गात्तस्मादक्तस्यैव लोकस्य नाथा इति, तथा लोकहितेभ्यः, इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिता लोकहिताः, तथा लोकप्रदीपेभ्यः, अत्र लोकशब्देन विशिष्ट एव देशनाद्यंशभिमिथ्यात्वतमोऽपनयनेन यथाहं प्रकाशितज्ञेयभावः संज़िलोकः परि. ग्राह्यते तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः। नह्यन्धं प्रति प्रदीपः प्रदीपो नाम । तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः, तथा लोकप्रद्योतकरेभ्यः, इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वत: प्रद्योतकरत्वोपपत्तेः, प्रद्योतं च सप्तप्रकारं जीवादिवस्तुतत्त्वं तत्प्रद्योतकरणञ्च विशिष्टानामेव पूर्व विदा भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्ट तत्त्वसंवेदनयोग्यता सा च विशिष्टानामेव भवति। तेन विशिष्ट चतुर्दशपूर्व विलोकापेक्षया प्रद्योतकरा एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणाः स्तोतव्यसम्पदः सामान्ये नोपयोगसम्पच्चतुर्थी ।४। इदानीमुपयोगसम्पद एव हेतुसंपदुच्यते। अभयदयाणं चक्खुदयाणं मग दयाणं सरणदयाणं बोहिदया-इह अभयं सप्तधा इहपरलोका-ऽऽदाना-ऽकम्मादा-ऽऽजीव-मरण-श्लाघाभेदेनैतप्रतिपक्षतोऽभयं विशिष्टमात्मन: स्वास्थ्यं निःश्रेयसे धर्मभूमिकानिबन्धनभूतं Page #32 -------------------------------------------------------------------------- ________________ ६२२ योगशास्त्रे तिरित्यन्येषां तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्ति युक्तत्वात् मर्वथा परार्थकारित्वाद् भगवन्त एव ददतीत्यभयदास्तेभ्यः ; तथा चक्षुर्देभ्यः, इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते। तच्च श्रद्धेत्यन्येषां तहिहीनस्याचक्षुमत इव वस्तुतत्त्वदर्शनायोगाद्, न च मार्गाऽनुसारिणी श्रद्धा सुखेनावाप्यते सत्यां चास्यां कल्याणचक्षुषो भवति वस्तुतत्त्वदर्शनम्, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भा एव भवतौति चक्षुर्ददतीति चक्षर्दाः ; तथा मार्गदेभ्यः, इह मार्गी भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरस वाही क्षयोपशमविशेषोऽयममुमन्ये सुखेत्याचक्षते अस्मिन्नसति न यथोचितगुण स्थानावाप्तिर्मागविषमतया चेत:स्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्गा एवेति मागें ददतीति मार्गदाः ; तथा शरणदेभ्य:, इह शरणं भयार्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाखासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं विवदिषेत्यन्येषामस्मिंश्च सति तत्त्वगोचराः शुषा-श्रवण-ग्रहण-धारण-विज्ञानो-हाऽपोह-तत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति । तत्त्वचिन्तामन्तरेण तेषामभावात् सम्भवन्ति तु तामन्तरेणाऽपि तदाभासा न पुन: स्वार्थसाधक त्वेन भावसाराः, तत्त्वचिन्तारूपं शरणं भगवद्भा एव भवतीति शरणं ददतीति शरणदा: ; तथा बोधिदेभ्यः, इह बोधिर्जिनप्रणीतधर्मावाप्तिः, इयं पुनर्यथाप्रवत्त-अपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्गामभिन्नपूर्वग्रन्थिभेदतः प्रशमसंगनिर्वेदानु Page #33 -------------------------------------------------------------------------- ________________ हतीयः प्रकाशः। कम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते विज्ञप्तिरित्यन्येषां पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावादेते. च यथोत्तरं पूर्वपूर्वफलभूताः, तथा हि-अभयफलं चक्षुः, चक्षुःफलं मार्ग: मार्गफलं शरणम्, शरणफलं बोधि: सा च भगवद्भा एव भवतीति बोधिं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्यो यथोदितोपयोगसि रुपयोगसम्पद एव हेतुसम्पदुक्ता ; साम्प्रतं स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुचते-धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहोणं धम्मवरचाउरन्तचक्कवहीणं-धर्मदेभ्यः, इह धर्मश्चारित्रधर्मो ग्राह्यते स च यति-श्रावकसम्बन्धिभेदेन देवा यतिधर्मः सर्वसावद्ययोगविरतिलक्षण: ; श्रावकधर्मस्तु देशविरतिरूपः, स चायमुभयरूपोऽपि भगवद्भा एव हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः, धर्मदत्वं च धर्मदेशनाहारेणैव भवति नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवध्यतया देशयन्तीति धर्मदेशकाः, तथा धर्मनायकेभ्यः, धर्मोऽधिक्कत एव तस्य नायकाः स्वामिनस्तदशीकरणभावात् तदुत्कर्षाऽवाप्तेस्तत्प्रक्ष्टफल-'. भोगात् तयाघातानुपपत्तेश्च धर्मनायकाः, तथा धर्मसारथिभ्यः प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्तनपालनदमनयोगतः सारथयो धर्मसारथयः, तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः, धर्मः प्रस्तुतः स एव त्रिकोटिपरिशुद्धितया सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्यादिचक्रापक्षया च वरं प्रधानं Page #34 -------------------------------------------------------------------------- ________________ ६२४ योगशास्त्रे चतसृणां गतीनां नारकतिर्यग्नरामरलक्षणानामन्तो यस्मात् तचतुरन्तं चक्रमिव चक्र रौद्रमिथ्यात्वादिभावशत्रुलवनात्तेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः चाउरन्तेति समृ धादिखादात्वमेवं धर्मदत्वादिभिः पञ्चभिः स्तोतव्यसम्पदेव विशेषोपयोगसम्पदुक्ता । ६ । इदानीं सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु। . ... कीटसंख्यापरिज्ञानं तस्य न: क्वोपयुज्यते ? ॥ १॥ इति सर्वदर्शनप्रतिक्षेपेणेष्ट तत्त्वदर्शनवादिनः सौगतान् प्रतिक्षिपतिअप्पहडिहयवरनाणदंसणधराणं विअट्टछ उमाणं-अप्रतिहते सर्व वाप्रतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयतीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति। एते च कश्चित्तत्त्वत: खल्वव्यावृत्तच्छमान एवेष्यन्ते यदाह जानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गल्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ तथादग्धेधनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभौरुनिष्ठम् । - मुक्तः स्वयं कतभवश्व परार्थशूर .. स्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १ ॥ इति । Page #35 -------------------------------------------------------------------------- ________________ तृतीयः प्रकाशः । ६२५ तन्निवृत्त्यर्थमाह – व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म ज्ञानावरणादिघातिकर्म तद्दन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाऽक्षीणे संसारे अपवर्गः क्षीणे च जन्मपरिग्रह इत्यसत्, हेत्वभावात् । न च तीर्थनिकारजन्मपराभवो हेतुस्तेषां मोहाभावाद मोहे वा अपवर्ग इति प्रलापमात्रमेवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् । एते च कल्पिता विद्यावादिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्दिद्येति वचनात् एत. पोहाय आह - जिणाणं जावयाणं रागादिजेतृत्वाज्जिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात् । न चाऽनुभवोऽपि भ्रान्तः सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाज्जिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः तेभ्यः, एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतौर्णादय एवेष्यन्ते काल एव कृत्स्नं जगदावर्तयति इति वचनात् एतन्निरासायाह –तिखाणं तारयाणं - सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तोर्णवन्तः तीर्णः; न चैषां तीर्णानां पारगतानामावर्तः सम्भवति तद्भावे मुक्त्यसिद्धेः, एवं च न मुक्तः पुनर्भवे भवतीति तोर्णत्वसिद्धि:, एवं तारयन्ति अन्धानपीति तारकास्तेभ्यः, एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदेरवुडादय एवे - घ्यन्ते अप्रत्यक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः इति वचनात् एतावच्छेदार्थमाह- बुद्धाणं बोहयाणं - अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो " ७९ Page #36 -------------------------------------------------------------------------- ________________ ६२६ योगशास्त्र बुद्धाः, न चाखसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति। न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्षीकरोति, नचेन्द्रियवदस्वसंविदितस्याऽपि ज्ञानस्याधप्रत्यक्षीकरणमिन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदित रूपत्वात् यदाह अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति ॥ एवं च सिद्ध बुद्धत्वमेवमपरानपि बोधयन्तीति बोधकास्तेभ्यः, एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनय स्तत्त्वतोऽमुक्तादय एवेष्यन्ते, ब्रह्मवद ब्रह्मसङ्गतानां स्थितिरिति वचनात् एतन्निराचिकोर्षयाऽऽह-मुत्ताणं मोअगाणं-चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान् मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् होनादिकरणे च रागद्देषाऽनुषङ्गः, न चान्यनाऽन्यस्य लयः सम्भवति एकतराभावप्रसङ्गात् एवं च जगत्कर्तरि लयाभावाद मुक्तत्वसिद्धिः, एवं मोचयन्त्यन्यानपौति मोचकास्तेभ्यः, एवं च जिनवजापकत्वतीर्णत्वतारकत्वबुद्धत्वबोधकत्वमुक्तत्वमोचकत्वैः खपरहितसिडेरामतुल्यफलकर्तृत्व सम्पदष्टमी ।८। एतेऽपि बुद्धियोगज्ञानकादिभिः कापिलैरसर्वज्ञा असर्वदर्शिन एवेष्यन्ते बाध्यवसितमर्थं पुरुषश्चेतयते इति वचनात् एतन्निराकरणायाह- सवर्ण सव्वदरिसोणं-सर्व जानन्तीति सर्वज्ञाः सर्वं पश्यन्तीत्येवंशीला: सर्वदर्शिनः तत्स्वभावत्वे निरावरणत्वात् Page #37 -------------------------------------------------------------------------- ________________ उक्तञ्च तृतीयः प्रकाशः । ६२७ स्थितः शीतांशुवज्जीवः प्रक्कत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमन्त्रवत् ॥ १ ॥ न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम्, परनिष्ठितप्लवकस्य तरण्डकाभावेऽपि प्लवनदर्शनात् इति बुद्धिलक्षणं करणमन्तरेणाऽपि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद् दर्शनस्य च सामान्यविषयत्त्वात्, तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादित्युच्यते नहि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमता संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते ततश्च ते एव ज्ञायन्ते ते एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । ननु ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा श्रपि दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते न विषमताधर्मविशिष्टा अपि । ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्दयाऽग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति न, धर्मधर्मिणोः सर्वथाभेदानभ्युपगमात् । ततश्चाभ्यन्तरोक्कृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते अभ्यन्तरोक्त विषमताख्यघर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयोर्नाsसर्वार्थविषयत्वमिति सर्वज्ञाः सर्वदर्शिनश्च तेभ्यः । एते च सवगतात्मवादिभिर्मक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते – “मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः” इति । Page #38 -------------------------------------------------------------------------- ________________ योगशास्त्रे तन्निराकरणार्थमाह - सिवम यलमरु अमांत मक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं - शिवं सर्वोपद्रवरहितत्वात्, अचलं स्वाभाविकप्रायोगिक चलनक्रियारहितत्वात्, अरुजं व्याधिवेदनारहितं तन्निबन्धनयोः शरीरमनसोरभावात्, अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात्, अक्षयं विनाशकारणाभावात्, अव्याबाधम कर्मत्वात्, अपुनरावृत्तिः, न पुनरावृत्तिः संसारेऽवतारो यस्मात् सिद्धिगतिनामधेयं सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिर्लोकान्त क्षेत्रलक्षणा सैव गम्यमानत्वागतिः, सिद्धिअतिरेव नामधेयं यस्य तत्तथा, स्थानं तिष्ठन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहु: - 'इह बुन्दिं चद्रत्ता णं तत्थगंतूण सिज्झइ इति । निश्श्रयतस्तु स्वस्वरूपमेव सर्वे भावा आत्मभावे तिष्ठन्तीति वचनात्, विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्था निनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं स्थानं सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्तास्तेभ्यः, न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात्, नित्यानां चैकरूपतया अवस्थानं तद्भावात्र्ययस्य नित्यत्वात् । श्रतः क्षेत्रतोसर्वगतपरिणामिनामेवैवं प्राप्तिः सम्भवति, अत एव कायप्रमाणमा मेति सुस्थितं वचनं तेभ्यो नम इति क्रियायोगः एवंभूता एव प्रेक्षावतां नमस्कारार्हा आद्यन्तसङ्गतश्च नमस्कारो ६२८ (१) इह शरीरं त्यक्वा तत्र गत्वा सिध्यति । Page #39 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ६२८ मध्यव्यापीति जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरबाह-नमो जिणाणं जिअभयाणं-नमो जिनेभ्यो जितभयेभ्य इति तदेवं सव्ववृणं सबद रिसोणमित्यत आरभ्य नमो जिणाणं जिअभयाणमित्येवमन्तस्त्रिभिरालापकैः प्रधानगुणाऽपरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी ।। अत्र स्तुतिप्रस्तावान पौनक त्यशङ्का करणीया। यदाह - 'समाय-ज्माण-तव-ओसहेसु उवएस थुइ-पयाण सु । . सन्तगुणकित्तणेसु य न होन्ति पुणरुत्तदोसा भो ॥ १ ॥ एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्याठानन्तरं प्रणिपातकरणाज्जिनजन्मादिषु स्वर्विमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते, अयञ्च प्रायेण भावार्हहिषयो भावाहंदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोषाय प्रणिपातदण्ड कानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनाथ केचिदेतां गाथां पठन्ति जे अ अईआ सिद्धा जे अ भविस्मंति णागए काले । संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥ १ ॥ . सुगमा चेयम् । ततश्चोत्थाय स्थापनाहहन्दनार्थं जिन मुद्रया अरिहंतचेइयाणमित्यादि सूत्रं पठति । अर्हतां पूर्वोक्तस्वरूपाणां (१) स्वाध्याय-ध्यान-तप-औषधेधूपदेश-स्तुति-प्रदानेषु । सहरण कीर्तनेषु च न भवन्ति पुनरुक्कदोषास्तु ॥ १ ॥ (२) ये चातीताः सिवा ये च भविष्यन्त्यनागने काले । समति च वर्तमानाः सर्वान् विविधेन बन्दे ॥ २ ॥ Page #40 -------------------------------------------------------------------------- ________________ योगशास्त्रे चैत्यानि प्रतिमालक्षणानि अहंञ्चैत्यानि-चित्तमन्तःकरणं तस्य भावः कम वा वर्णदृढादित्वात् व्यगि चैत्यं बहुविषयत्वे चैत्यानि तत्राऽहतां प्रतिमा हि प्रशम्तममाधिचित्तोत्पादकत्वादह चैत्यानि भण्यन्ते तेषां किं वन्दनादिप्रत्ययं कायोत्सर्ग करोमोति सम्बन्धःकायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिक्कत्य परित्यागस्तं करोमि । वंदणवत्तिाए-वन्दनप्रत्ययं वन्द नमभिवादनं प्रशस्तकायवामनःप्रवृत्तिरित्यर्थः तत्प्रत्ययं तनिमित्तं कथं नाम कायोसर्गादेव मम वन्दनं स्यादिति वत्तिाए इत्याषत्वामिइमेवं सर्वत्र द्रष्टव्यम् । तथा पूअणवत्तिाए पूजनप्रत्ययं पूजननिमित्त पूजनं गन्धमाल्यादिभिरभ्यर्चनम्, तथा सकारवत्तिपाए-सत्कारप्रत्ययं सत्कारनिमित्तं सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम्, ननु च यते: पूजनसत्कारावनुचितौ द्रव्यम्तवत्वात् ; श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गहारण तत्प्रार्थना निष्फला, उच्यते, साधोद्रव्यस्तवप्रतिषेधः करणमधिक्तत्य न पुनः कारणानुमती, यत उपदेशदानत: कारण मद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह'सुव्वइप्रवदररिसिणा कारवणं पि अ अणु ट्ठियमिमस्म । वायगगन्थेसु तहा आगया देसणा चेव ॥१॥ (१) सुतिकावर्षिणा कारणमपि चानुष्ठितमस्य । वाचक ग्रन्थेषु तथा यागता देशना चैध ॥ ३ ॥ Page #41 -------------------------------------------------------------------------- ________________ टतीयः प्रकाशः । ६३१ श्राव कस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारी प्रार्थयमानो न निष्फलारम्भः, तथा सम्माणवत्तिाएसन्मानप्रत्ययं सन्माननिमित्तं सन्मानः स्तुत्यादिभिर्गुणोन्नतिकरणं मानसप्रीतिविशेष इत्यन्ये ; अथ वन्दनादयः किंनिमित्तमित्याह – बोहिलाभवत्तिाए-बोधिलाभोऽहणीतधर्मावाप्तिस्तत्प्रत्ययं तबिमित्तं बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तिाए-जन्मायुपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं तविमित्तं ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव तत्किं सतस्तस्य • प्रार्थनया बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते क्लिष्ट कर्मोदयवशेन बोधिलाभस्य प्रतिपातमम्भवाद् जन्मान्तरे च तस्यार्यमानत्वाविरुपसर्गोऽपि तहारण प्रार्थत एवेति युक्तोऽनयोरुपन्यासः ; अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रमाधनायाऽलमित्याह -सहाए मेहाए धिईए धारणाए अणुप्पेहाए वड्डमाणोए ठामि काउसगं-श्रद्धा मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी तया श्रद्धया न तु बलाभियोगादिना, एवं मेधया न अडत्वेन मेधा च सच्छास्त्रग्रहण पटुः पापश्रुताऽवज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया नाऽसमञ्जसत्वेन एवं धृत्या मनःसमाधिलक्षणया न रागद्देषाद्याकुलतया एवं धारणया अर्हद्गुणाविस्मरणरूपया न तु तच्छून्यतया एवम नुप्रेक्षयाऽर्हगुणानामेव मुहुर्मुहुरनुस्मरणेन, न तहैकल्येन वर्धमानतयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते श्रद्धादीनां क्रमो Page #42 -------------------------------------------------------------------------- ________________ ६३२ योगशास्त्रे पन्यासो लाभापेक्षया बहायां हि सत्यां मेधा तद्भावे तिस्ततो धारणा तदन्वनुप्रेक्षा तिरप्यासामेव । तिष्ठामि करोमि कायोत्सर्ग ननु प्राकरोमि कायोमर्गमित्युक्तं साम्प्रतं तिष्ठामोति किमर्थमुच्यते ?, सत्यं सत्सामीप्ये सहप्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाऽभिमुख्यं पूर्वमुक्तमिदानों त्वासव्रतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्यवाहमिति किं सर्वथा तिष्ठामि कायोत्सर्ग नेत्याह – अन्नत्थजससिएणमित्यादिव्याख्यातं पूर्व कायोत्सर्गश्चाष्टोच्छासमात्रो न त्वत्र ध्येयनियमोऽस्ति कायोत्सर्गान्ते च यद्येक एव ततो नमो अरिहंताणमिति नमस्कारण पारयित्वा यत्र चैत्यं वन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति । अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमाप्तिः, तत: सर्वेऽपि नमस्कारेण पारयन्तीति तदनन्तरं तस्यामेवावसर्पिण्यां ये भारत वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्रनिवासिनामासबोपकारित्वेन कौतैनाय चतुविंशतिस्तवं पठति, पठन्ति वा। तथा लोगस्म उर Serving JinShusanto m। . अरिहंते कि ली ॥ १ ॥ . अरिहंत इति "026916 क्तनिर्वचनात्, कीर्तयिष्ये नामोच्चारण पूर्वक स्तोष्थे, ते च राज्याद्यवस्थासु द्रव्याहन्तो भवन्तीति भावाहत्त्वप्रतिपादनायाह -केवलिन - उत्पत्रकेवल gyanmandir@kobatirth.org Page #43 -------------------------------------------------------------------------- ________________ ripes in the Library of the 1/ each ... A Appendix, Fase. 1-21 @ 1/8/ each 3! s each Ay'al Books, Fasc. 1.-4 @ 1/- each Eng.) ... Persian Masnawi, Fasc, 1 @ /12/ each English) Fase. 1-6 @1/4/ each Fasc. 1.-3 @ /11) each ent, 51 Fasc. @ 1. etch rt I, Fase. 1--3 @ 2) eitch Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--9; Vol. IIT, 1-10; A. I, Fase. 10-11; Index tu Vol. II, Fase 10-12; 1. III, Fasc. 11-12 @ /1/ echt (Eng) Vol. I, Fase. 1--2, @ 1/4/ tach Tabits 'L-llali 'L-Mu'Dila Fasc. 1-2... abı-t-Tawărikh, Fasc. 1--15 (D. /10/ each ... Ditto (English) Vol. I, Fase. 1.-7: Vol IIFasc. 1--5 and 3 Indexes; Vol. 111, Fasc. 1 @1/ each untakhabu-l-Lubāb, Fase. 1-19 @ /10/ each Ditto Part 3, Fase. 1-2 @ 1/- each .. Nukhbatu-l-Fikr, Fase. 1 @ /10/ Nizāmi's Kbiraduanal-i-Iskandari, Fase. 1.-2 @ /12/ each Persian and Turki Divans of Bayran Khan, Khu Khanan Qawaninu's-Sayyad of Khula Yar Khu Albasi, elit in the risinal Persian with English notes by Lieut. Col. D. C. Phillutt Riyazıl-s-Salātin, Fasc. 1.-5 @ /10/ each .. Ditto (English) Fasc. 1.-5 1/ Shah Alam Nanuit Tadhkira-i-khushnavisán .. Tubaquát-i-Naziri, ( English ), Fasc. 1-11 a 1/- cach Ditto Index Tarikh-i-Firīz Shāhi of Ziyāu-d-din Barni Fisc. 1.-7 @ 10/ each Tarikh-i-Firūzshāhi, of Shams-i-Sirai Ait. Fase 1-0 /10cach Ten Ancient Arabic Poems, Fasc. 1.2 @ 1/87 tach ... The Mabani 'L Lughat : A Grammar of the Turki Language in Persian Tuzuk-i-Jahangiri, (Eng) Fase. 1 @ 1/ ... ... Wis-O-Ramin, Fase. 1--5 @ /10/ each Zafarnāmab, Vol. I, Fage. 1.-9, Vol. II, Fasc. 1--3 @ /10/ each ... ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XX 10/ each 2. PROCEEDINGS of the Asiatic Society from 1975 to 1899 190 to 1904 are out of stock) @/8/ per No. 3. JOURNAL of the Assiatic Society for 1875 (8). 1871 (7). 1972 (S), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1977 ). 1973(8), 13/917), 1880 (8), 1881 (7), 1882 (6), 1883 (5). 1851 (6), 1855 (6), 1881 (8), 1857 (7), 1888 (7), 1889 (101, 1890 (11), 1891 (7). 1892 (8). 189:(11), 1994 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (S), 1900 (7). 190! (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per Nw. tu Members and @ 2/ per No. to Non-Members N. B.--The figures enclosed in brakets gire the number of Nos. in cuch volume. 4. Journal and Proceedings, N. S., 1905, t ate, (Nos. 1 tot 1905 are out of stock), @ 1.8 per No. to Member's anil Rs. 2 per N t. Non Members. 5. Menoirs, 1905. to late. Price varies in ier tu number Discount of 25% to Members. 6. Centenary Review of the Researches of the Sciety fruit 1791-189: 7. Catalogue of the Library of the Asiatie Society, Bungal, 191"), Moure and Hewitson's Desertions of New t Lepidoptera, Parts I-III, with 8 luurel l'lat , 4tu. @6/ cuci ... Kamraçabdáurta, Parts I & II @ 1S 10. Persian Translation of Haji Babiloi Ispahan, invlji Shaiki: Ahmad-i-Kirmasi, and edited with mies by Major D. C. Pullutt. ... 8. Notices of Sanskrit Manuscripts, Fitze 1-31 1 / uten .. Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Ordler', Sv. Lust be maile patysia to tie "! • Aviatic Society," only. Books are supplied by V. P. P. Page #44 -------------------------------------------------------------------------- ________________ A . Con Elisiun) . I. base. 1 vartik, Fase. 2-6 @ /10/ each tyacarapacehatib, Fase. 1.-7 @ /10/ each Epacarapradipa Vol. I, Fasc. 1--8; Vol. II, cayabin.lutika, Fasc. 1 a /10/ each yaya Kusimajali l'rakaran Vol. II, Fasc. 1-3 Fira Vartika Tatpurya Parisudli, Fasc. 1-2 @ /10/ vasarak tumawati, Fasc.)..6 @ 2' each krita. Paingrtiam, Fasc. 1.-7 (w /10/ each cara Smrti, Vol. I, Fasc. 2-8; Vol. II, Fasc. 1--6; Von c. 1.9@/10/ each . acara, Institutes of (English) @ 1/- each ik suminkha Sutra bandlacintamani (English) Fase. )--3 @ 1/4/ each maravan, . 1-3 visidhanta Manjari, Fasc. 1 Tilrani-Samiecaya, Fast, 1-2 /10/ cach naraice Kab . 11. @ / / each akhya Sintra Vrtti, Fase 1 4 @ 10) each Ditt Baglish) Fase. 1-3 @ 1/- each < Buhist Nyayit Tuets. ... Ballina Kriva kamuci, Fasc. 1-6 @ /10/ cach cruti Sunlita, Ing. Fisc. 1 @1/- each illik mandi, Hase 4 /10/ each ... latanun Kavyam vya Siatthanti Fase. 1-2 @ 1-1 each rinika Sastra ... aitteya Brahmana. Fase 11-25 @ /10/ cachi aittoriya Sunlita, kitse. 27-45 /10/ each ndya Bralimana, Finse 10-19 @ /10/ each utri Varteka (Evglish) Fase. 1-10 @1/4/ each 12 attva Cintamani, vol. I, Fitxe. 1-9, V II, Faxc. 2-10, Vol. III, Fasc. 1-2, Vol. IV. Fixc. 1, Vol. V. Fase. 1.-5, Part IV, Vol. Ji, Fasc. 1-12 @ /10/ each 23 ttva Cintamani nidhiti Vivriti, vol. I, Fase, 1-6; Vol. 1, Fc, 1, @ /10/ each 4 ttva Cintamani Dictiti Prakas, Hase. 1-5, @ /10/ each 32 ttvarthadhigama Sutram, Fase 1-3 @ /10/ cach ... thucinta noni, Fasc, 1-3, a. /10/ each skanda-Mandanam, Faze. 1-3 @ /10/ each l'si Satsii. Fasc. 1.5 ((1/10/tach .. amita-shava-pmaincit-katha, Fasc. 1-2, 5.13 @ /10/ ench Tasaxla. . (Text me English) Fasc. 1.-6 @ 1/- each lala Carita, Fasc1 @/10/ Ersa Kriya kamnndi, Fasc 1.-6 @ /10/ each : ayilluana, Vol. i, Fase. 3.-6; Vol. II, Fase. 1-7, @ /10/ each dhara Parijata, Fase. 1-8 Vol. II. Fase. I @ /10/ each Ditto Vol. II, Fase. 2-5 @ 1/4/ ... Vadratnakara, Pitse. 1-.7 @ / / each bt Styluu liu 11 : 19:1, Fs, 1-6 4 / 1 :: ... garaxtr . 1: "ibetien Serias. Darkost: uhastotrasangraha, Vol. I Lower L akhi version of Kesarsaga, Fasc. 1 --4 @ 1/- each ayabinein of Dharmakirti, Fasc. 1 ... Sam Shi Tin, Fasc. 1 - 1 @ 1/- cach... ogs arjoil hkbri Sini Til & Sans. Avadana Kalpalata Vol. I, ase. 1--10: Vol. II. Fasc. 1--1( @ 1/ench ... 20 er-Phyin, Vol. I, Fase 1-5; Vol. II, Fase. 1-3; Vol. III, Fase 1.6, @ 1/ each 14 ravic urat Persian Series. mal-i-Salih, or Sha Jahan Nimal -Muquitisi (English Vol. 1. Fase. 1 --4 @ 1/- cach Eu Aku, Kase. 1-2 a 18/ each Ditto (English) Vol. II Fasc. 1-5 Vol. III, Fasc. 1-5, C itrixto Vol. II @ 21- each ... ... 22 barimal, with T ex, Fasc. 1--37 @ 1/8/ each... 55 clanemali, English Vol. I, Fase. 1-.S; Vol. 11, Fasc. 1--7, Vol. III. ... 21 4 abic Bibliography, by Dr. A. Sprenger, @/10/.. R est Of Syria, Fase. 1-9 a/10: each talague of Arabic Books and Manuscripts, 1.2 @ 1/- each .. -The other Fasciculi of these works are out of stock and complete copies cannot 0 0 . . . AWAN 100 A 0 33