________________
टतीयः प्रकाशः ।
६२८
मध्यव्यापीति जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरबाह-नमो जिणाणं जिअभयाणं-नमो जिनेभ्यो जितभयेभ्य इति तदेवं सव्ववृणं सबद रिसोणमित्यत आरभ्य नमो जिणाणं जिअभयाणमित्येवमन्तस्त्रिभिरालापकैः प्रधानगुणाऽपरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी ।। अत्र स्तुतिप्रस्तावान पौनक त्यशङ्का करणीया। यदाह -
'समाय-ज्माण-तव-ओसहेसु उवएस थुइ-पयाण सु । . सन्तगुणकित्तणेसु य न होन्ति पुणरुत्तदोसा भो ॥ १ ॥
एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्याठानन्तरं प्रणिपातकरणाज्जिनजन्मादिषु स्वर्विमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते, अयञ्च प्रायेण भावार्हहिषयो भावाहंदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोषाय प्रणिपातदण्ड कानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनाथ केचिदेतां गाथां पठन्ति
जे अ अईआ सिद्धा जे अ भविस्मंति णागए काले ।
संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥ १ ॥ . सुगमा चेयम् । ततश्चोत्थाय स्थापनाहहन्दनार्थं जिन मुद्रया अरिहंतचेइयाणमित्यादि सूत्रं पठति । अर्हतां पूर्वोक्तस्वरूपाणां
(१) स्वाध्याय-ध्यान-तप-औषधेधूपदेश-स्तुति-प्रदानेषु ।
सहरण कीर्तनेषु च न भवन्ति पुनरुक्कदोषास्तु ॥ १ ॥ (२) ये चातीताः सिवा ये च भविष्यन्त्यनागने काले ।
समति च वर्तमानाः सर्वान् विविधेन बन्दे ॥ २ ॥