________________
तीयः प्रकाशः ।
एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते । व्याख्या नमोत्थुणं अरहंताणं भगवंताणं तत्र नम इति नैपातिक पदं पूजार्थ, पूजा च द्रव्यभावसङ्कोचः । तत्र करशिरःपादादिद्रयसन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु। प्रार्थनैषा धर्मबोजमाशयविशुद्धिजनकत्वात्। णमिति वाक्यालङ्कारे। अतिशय पूजामर्हन्तीति अर्हन्तः। यदाह
'अरहंति वंदणनमंसणाई अरहंति पूयसकारं ।
सिडिगमणं च अरिहा अरहंता तेण वुञ्चति ॥ १ ॥ सुगद्दिषाहः सत्रिशत्रुस्तुत्ये ॥५।२।२६॥ इति वर्तमानकालेऽटश् । कथं वर्तमानकालत्वमिति वेत्, पूजारम्भस्याऽनुपरमात् । एष एव हिन्याय्यो वर्तमानकालो यत्रारब्धस्यापवर्गो नास्ति । तथा अरिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामने कभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः । तथा रजोहननादहन्तः, रजश्व घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुण स्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति तस्य हननाद हन्तः। तथा रहस्याभावादहन्तः ; तथाहि--भगवतां निरस्तनिरवशेषज्ञानावरणादिकमैपारतन्त्रयाणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत्प्रत्यक्षतो जानतां पश्यतां च
(2) अर्हन्ति वन्दन-नमस्य नाद्यहन्ति पूजामत्कारम् ।
मिनिगमने च अर्हा अन्तिस्ते नोचन्ते ॥ १॥