________________
हतीय: प्रकाश:।
६११ दर्हतां भगवतां सम्बन्धिना नमस्कारेण नमोअरिहंताणमित्यनेन न पारयामि न पारं गच्छामि तावत्किमित्याह ताव कायं ठाणेणं मोणेणं झाणणं अप्पाणं वोसिरामि तावत्तावन्तं कालं कायं देहं स्थानेनी स्थानेन हेतुभूतेन अर्द्धस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मौनेन वाग्निरोधलक्षणेन,ध्यानेन शुभेन सहिषये चिन्तामभिगृह्ये त्यर्थः ; अप्पाणं आर्षत्वादात्मीयं कायं वोसिरामि व्युत् सृजामि कुव्यापारनिराकरण न परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः-पञ्चविंशत्युच्छासमानं कालं यावदूईस्थानस्थितः प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानाऽनुगतस्तिष्ठामि स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासहारेण व्युत्सृजामि । पञ्चविंशत्युच्छ्रासाश्च चतुर्विशतिस्तवेन चन्देसु निम्मलयरा इत्यन्तेन चिन्तितेन पूर्यन्ते, पायसमा जसासा इति वचनात् । संपूर्णकायोत्सर्गच नमो अरहताण मिति नमस्कारपूर्वक पारयित्वा चतुर्विंशतिस्तवं सम्पूर्ण पठति। एवं सनिहिते गुरौ तत्समक्षं, गुरुविरहे तु गुरुस्थापनां मनसिकत्वा ईर्यापथप्रतिक्रमणं निववं चेत्यवन्दनमुत्कृष्टमारभ्यते, जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकोप्रतिक्रमणमन्तरेणाऽपि भवतः । प्रत्व नमस्कारेण नमो अरहंताणमित्यनेन
वपुरेव सवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाडलः ॥ १ ॥ इत्यादिना कविकृतेन च जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति ।