________________
योगशास्त्रे
सदिति विद्यमानमसतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्यं शरीराद्दहिर्भूतं श्रन्तरस्य तु कस्यचिद्दानं न शक्यं कर्तुं, बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेताऽपि, इदं त्वनित्यं चौरजलज्वलनदायादपार्थिवादिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति ; यदस्मद्गुरव:
'अत्थं चोरा विलुंषंति उद्दालंति य दाइया । राया वा संवरावेइ बला मोडोइ कत्थइ ॥ १ ॥ जलगो वा विणामेइ पाणियं वा पलावए । अवद्दारेण निग्गच्छे वसणोपहयस्स वा ॥ २ ॥ भूमीसंगोवियं चैव हरन्ति वन्तरा सुरा |
उभित्ता जादू सव्वं पि मरन्तो वा परं भवं ॥ ३ ॥
अनित्यमपि स्वधनं किञ्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि येषूप्तं धनं शतसहस्रलक्ष कोटिगुणं भवति । एवंविधायामपि सामग्रयां यः स्वधनं न वषेत् स वराकः निःसत्त्वश्चारित्रं महासत्त्वसेवनीयमतएव दुश्वरं कथं समाचरेत् ? ; धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सहतिं
(१) अर्थ चौरा विलुम्पन्ति, उद्दालयन्ति च दायादाः । राजा वा संवारयति बलात् म्मृव्यते कुत्रापि ॥ १ ॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयति ।
पहारेण निर्गच्छेत् व्यसनोपहतस्य वा ॥ २ ॥
भूमीसं गोपितमेव हरन्ति व्यन्तराः सुराः । अज्झित्वा याति सर्वमपि नियमाणो वा परं भवम् ॥ ३ ॥