________________
हतीयः प्रकाशः ।
६०१
करणम्, तत: सुरभिणा मलयजरसादिना विलेपनविधानम्, ततः सुगन्धिजाति-चम्पक-शतपत्र-विचकिल-कमलादिमालाभिभंगवतोऽभ्यर्चनम्, रत्नसुवर्णमुक्ताभरणादिभिरलङ्करणम्, वस्त्रादिभिः परिधापनम्, पुरतश्च सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिकालेखनम्, तत्पुरतश्च बलिमङ्गलदीपदधितादीनां ढौकनम्, भगवतश्च भालस्थले गोरोचनया तिलककरणम्, तत आरात्रिकाद्युत्तारणम् । . ..... ... . ...... यदाह'गन्धवरधूवसवोसहीहि उअगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवएहिं च ॥ १ ॥ सिहस्त्रयदहिअक्षयगोरोपणमाइएहिं जहलाभं ।. . कञ्चणमोत्तिभरयणाइदामएहिं च विविहेहिं ॥ २ ॥ पवरेहिं साहणेहिं पायं भावो वि जायए पवरो । न य अबो उवोगो एएसि सिया ण लट्ठयरो ॥ ३ ॥ त्ति ।
एवं भगवन्तमभ्यर्च पूजयित्वा ऐर्यापथिकोप्रतिक्रमणपूर्वक शक्रतवादिभिर्दण्डकैश्चैत्यवन्दनं कत्वा स्तवनैः स्तोत्रैरुत्तमैरुत्तम
(१) गन्धवरधूपसर्वोषधीभिरुदकादिकैश्चिौः ।
सुरभिविलेपनवर कुसुमदामबलिदीपकैश्च ॥ १॥ सिद्धार्थक-दध्यिक्षत-गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः। म चान्य उपयोग एतेषां स्याद् मनोहरतरः ॥ ३॥ इति ।