________________
हतीयः प्रकाशः।
५८ ग्रन्थिसहितादि कृत्वा यथाशक्तीति शतवनतिक्रमेण, शक्तितस्त्यागतपसी इति सुप्रसिद्धमेव, देवगृहं भहिचैत्यरूपं बजेगच्छेत् । अत्र च स्नानविलेपनवर्ण कविशिष्टवस्त्राभरणामकारशस्त्रपरिग्रहविशिष्टवाहनाधिरोहणप्रभृतीनां स्वतः सिहामा नोपदेशः । अप्राप्ते शास्त्रमर्थवदित्युक्तमेव देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा "मवाए इड्डीए सव्वाए दित्तीए सव्वाए जुईए सबबलेणं सवपोरिसेणं' इत्यादिवचनात्प्रभावनानिमित्तं महर्घा याति।
पथ सामान्यविभवस्तदा प्रोत्यपरिहारेण लोकोपहासं परिहरन् व्रजति ॥ १२३ ॥
तत:प्रविश्य विधिना तत्र त्रिः प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ १२४ ॥
तत्र देवगृहे विधिना विधिपूर्वकं प्रविश्य त्रिस्त्रीन् वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् ; जिनमहट्टारकम्, प्रवेशविधियायम्-पुष्यताम्बूलादिसचित्तद्रव्याणां क्षुरिकापादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽनलिबन्ध शिरस्यारोपयन् मनसच तत्परतां कुर्वनिति पञ्चविधाभिगमेन नैषधिकोपूर्व प्रविशति ।
(१) सर्वमा सजना, सर्वया दीप्ता, सर्वया धन्या, सबलेन, सर्बपौरुषेण ।