SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । ६३१ श्राव कस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारी प्रार्थयमानो न निष्फलारम्भः, तथा सम्माणवत्तिाएसन्मानप्रत्ययं सन्माननिमित्तं सन्मानः स्तुत्यादिभिर्गुणोन्नतिकरणं मानसप्रीतिविशेष इत्यन्ये ; अथ वन्दनादयः किंनिमित्तमित्याह – बोहिलाभवत्तिाए-बोधिलाभोऽहणीतधर्मावाप्तिस्तत्प्रत्ययं तबिमित्तं बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तिाए-जन्मायुपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं तविमित्तं ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव तत्किं सतस्तस्य • प्रार्थनया बोधिलाभमूलो मोक्षोऽप्यनभिलषणीय एव, उच्यते क्लिष्ट कर्मोदयवशेन बोधिलाभस्य प्रतिपातमम्भवाद् जन्मान्तरे च तस्यार्यमानत्वाविरुपसर्गोऽपि तहारण प्रार्थत एवेति युक्तोऽनयोरुपन्यासः ; अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रमाधनायाऽलमित्याह -सहाए मेहाए धिईए धारणाए अणुप्पेहाए वड्डमाणोए ठामि काउसगं-श्रद्धा मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिवच्चेतसः प्रसादजननी तया श्रद्धया न तु बलाभियोगादिना, एवं मेधया न अडत्वेन मेधा च सच्छास्त्रग्रहण पटुः पापश्रुताऽवज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया नाऽसमञ्जसत्वेन एवं धृत्या मनःसमाधिलक्षणया न रागद्देषाद्याकुलतया एवं धारणया अर्हद्गुणाविस्मरणरूपया न तु तच्छून्यतया एवम नुप्रेक्षयाऽर्हगुणानामेव मुहुर्मुहुरनुस्मरणेन, न तहैकल्येन वर्धमानतयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते श्रद्धादीनां क्रमो
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy