________________
तृतीयः प्रकाशः ।
६१७
भक्तिभरावनम्त्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् | १२ | एवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते – आइगराणं तित्थयराणं सयंसंबुद्धाणं- आदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते तेभ्यः । यद्यपि सैषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भवति, न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति चेति वचनाद नित्या दादशाङ्गी ; तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्खतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्दम् । एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते अकृत्स्त्रक्षये कैवल्याभावादिति वचनादिति तद्यपोहार्थमाह - तीर्थकरेभ्यस्तीर्यते संसारसमुद्रोऽनेनेति तीर्थं तच्च प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा ; यदाहु: - तित्थं भन्ते ! तित्थं तित्थयरे तित्थं गोयमा ! अरिहा ताव नियमा तित्यंकरे तित्थं पुण चाउवसे समणसंघे पढमगणहरे वा, लत्करणशीलास्तीर्थकराः । न चाकत्त्रचये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् । एवं ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थकरत्वमस्माभिरपि नेष्यते । एतेऽपि सदा शिवानुग्रहात् कैश्चिश्वोधवन्त इष्यन्ते, यदाह- -महेशानुग्रहाद् बोधनियमाविति तत्रिराकरणार्थमाह – स्वयं संबुद्धेभ्यः स्वयमात्मना तथा
-
(१) तीर्थं भगवन् ! तीर्थं तीर्थंकरस्तीर्थं गौतम ! अर्हस्तावनियमात् तीर्थकरस्तोर्थं पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथम गणधरो वा ।
७८