SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ६१८ : योगशास्त्रे भव्यत्वादिसामग्रीपरिपाकात्र तु परोपदेशात् सम्यगविपर्य येण बुद्धा अवगततत्त्वाः स्वयंसंबुद्धास्तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसविधानायत्तबोधास्तेऽभूवन्, तथापि तीर्थकरजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः, यद्यपि च तीर्थकरजन्मन्यपि लोकान्तिकविदशवचनात् "भयवं तिथं पवत्तेह' इत्येवंलक्षणाद दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयाबावत् खयमेव प्रव्रज्यां प्रतिपद्यन्ते। इदानी स्तोतव्यसम्पद् एव हेतुविशेषसम्पदुच्यते-पुरिसोत्तमाणं पुरिससौहाणं पुरिसवरपुण्डरीपाणं परिसवरगन्धहस्थीणं -पुरि शरौरे शयनात् पुरुषा विशिष्ट कर्मोदयाहिशिष्ट संस्थानवत्शरीरवासिनः सत्त्वास्तेषा- . मुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः ;' तथाहि-आसंसारमेते परार्थव्यसनिन उपसर्जनौकतखार्थी उपचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कतन्नतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति। न खल्वसमारचितमपि जात्यरत्नं समानमितरेण । न च समारचितोऽपि काचादिर्जात्यरत्नीभवति। एवं च यदाहुः सौगता:-नास्तीह कश्चिदभाजन सत्त्व इति, सर्वे बुद्धा भविष्यन्ति इति च ; तत् प्रत्युक्तम् । एते च बाह्यार्थसंवादसत्यवादिभिः संस्कृताचार्यशिथैनिरुपमानस्तवार्ही एवेष्यन्ते होनाधिकाभ्यामुपमा मृषेति वचना. सहावच्छेदार्थमाह-पुरुषसिंहेभ्यः पुरुषा: सिंहा इव प्रधाना: (१) भगवस्तीर्थं प्रवर्तयत।
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy