SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ : योगशास्त्र पायच्छित्तकरणणं विसोहीकरणणं विसल्ली करणणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्मग्गं । तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्मग्गमिति योगः । तत्रोत्तरकरणं पुनः संस्कारहारेण परिष्करणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् ; अयं भावः-विराधनस्य हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम्, तेन पापकर्मनिर्धातना भवति। उत्तरीकरणं च प्रायश्चित्तकरणहारेण भवति इत्याह-पायच्छित्तकरणणं प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति प्रायश्चित्तम् ; यहा, पापं छिनत्तीति पापच्छित् आषत्वात्यायच्छित्तं तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुदिहारण . भवतीत्याह-विसोहीकरणणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनो निर्मलीकरणं विशुद्धेः करणं विशुद्धिकरणं तेन हेतुभूतेन । विशुद्धिकरणं च विशल्यकरणहारेण भवति अत पाह-विसल्लीकरणणं विगतानि शल्यानि मायादीनि यस्याऽसौ विशल्यः, अविशल्यस्य विशल्यस्य करणं तेन हेतुभूतेन । किमित्याह-पावाणं कमाणं निग्घायणट्ठाए पापानां संसारनिबन्धनभूतानां कर्मणां जानावरणीयादीनां निर्धातनार्थाय निर्घातनमुच्छेदः स एवार्थः प्रयो. जनं तस्मै, ठामि काउस्मग्गं अनेकार्थत्वाहातूनां ठामि करोमि कायस्य उत्सर्गो व्यापारवत: परित्यागस्तम्। किं सर्वथा ? नेत्याहअवस्य जससिएणं अन्यत्रीच्छसितात्, ढतीया पञ्चम्यर्थे, जङ्ख प्रलम्ब वा खसितमुच्छसितं तन्मुन्ना योऽन्यो व्यापारस्तेन व्यापारवतः
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy