________________
६२२
योगशास्त्रे तिरित्यन्येषां तदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्ति युक्तत्वात् मर्वथा परार्थकारित्वाद् भगवन्त एव ददतीत्यभयदास्तेभ्यः ; तथा चक्षुर्देभ्यः, इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते। तच्च श्रद्धेत्यन्येषां तहिहीनस्याचक्षुमत इव वस्तुतत्त्वदर्शनायोगाद्, न च मार्गाऽनुसारिणी श्रद्धा सुखेनावाप्यते सत्यां चास्यां कल्याणचक्षुषो भवति वस्तुतत्त्वदर्शनम्, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भा एव भवतौति चक्षुर्ददतीति चक्षर्दाः ; तथा मार्गदेभ्यः, इह मार्गी भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरस वाही क्षयोपशमविशेषोऽयममुमन्ये सुखेत्याचक्षते अस्मिन्नसति न यथोचितगुण स्थानावाप्तिर्मागविषमतया चेत:स्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्गा एवेति मागें ददतीति मार्गदाः ; तथा शरणदेभ्य:, इह शरणं भयार्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाखासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं विवदिषेत्यन्येषामस्मिंश्च सति तत्त्वगोचराः शुषा-श्रवण-ग्रहण-धारण-विज्ञानो-हाऽपोह-तत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति । तत्त्वचिन्तामन्तरेण तेषामभावात् सम्भवन्ति तु तामन्तरेणाऽपि तदाभासा न पुन: स्वार्थसाधक त्वेन भावसाराः, तत्त्वचिन्तारूपं शरणं भगवद्भा एव भवतीति शरणं ददतीति शरणदा: ; तथा बोधिदेभ्यः, इह बोधिर्जिनप्रणीतधर्मावाप्तिः, इयं पुनर्यथाप्रवत्त-अपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्गामभिन्नपूर्वग्रन्थिभेदतः प्रशमसंगनिर्वेदानु