________________
उक्तञ्च
तृतीयः प्रकाशः ।
६२७
स्थितः शीतांशुवज्जीवः प्रक्कत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमन्त्रवत् ॥ १ ॥ न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम्, परनिष्ठितप्लवकस्य तरण्डकाभावेऽपि प्लवनदर्शनात् इति बुद्धिलक्षणं करणमन्तरेणाऽपि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद् दर्शनस्य च सामान्यविषयत्त्वात्, तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादित्युच्यते नहि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमता संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते ततश्च ते एव ज्ञायन्ते ते एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । ननु ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा श्रपि दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते न विषमताधर्मविशिष्टा अपि । ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्दयाऽग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति न, धर्मधर्मिणोः सर्वथाभेदानभ्युपगमात् । ततश्चाभ्यन्तरोक्कृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते अभ्यन्तरोक्त विषमताख्यघर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयोर्नाsसर्वार्थविषयत्वमिति सर्वज्ञाः सर्वदर्शिनश्च तेभ्यः । एते च सवगतात्मवादिभिर्मक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते – “मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः” इति ।