________________
हतीय: प्रकाशः । - ६०५ 'मुत्तासुत्तीमुद्दा जस्थ समा दोवि गम्भिया हस्था।
ते पुण णिडालदेसे लग्गा भन्ने अलग्गत्ति ॥ ५ ॥ इत्यादि । एर्यापथिको प्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकोसूत्रं व्याख्यायते-तच्च इच्छामि पडिक्कमिउमित्यादि तस्म मिच्छामि दुक्कडमित्यन्तम्, इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए ; इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमौर्या गमनमित्यर्थः, तत्प्रधान: पन्या ईर्यापथः, तत्र भवा ऐर्यापथिको ; काऽसौ ? विराधना जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनाया: सकाशात् प्रतिक्रमितुमिच्छामौति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद न तु शयनादेशस्थितस्य कृतलोचादेर्वा ; तस्मादन्यथा व्याख्यायते-ईर्यापथः साध्वाचारः, यदाह- ईर्यापथो मौनध्यानादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी ; काऽसौ ? विराधना साध्वाचारातिक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः । साध्वाचाराऽतिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम्, शेषाणां त पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपञ्चः । क सति विराधना ? गमणागमणे गमनं चागमनं च समाहारहन्दस्तस्मिन्,
(१) मुक्ताशुक्रिमुद्रा यत्र समौ हावपि गर्भितौ हस्तौ।।
तो पुनर्ललाटदंगे लग्नावन्यावसनाविति ॥ ५ ॥ (३) क ग ड समा जहिं।