________________
६०६
.. योगशास्त्रे गमनं प्रयोजने सति बहिर्यानम्, पागमनं प्रयोजनसमाप्तौ स्वस्थान एव गमनम् । गमनागमनेऽपि कथं विराधना ? इत्याह -पाणक. मणे प्राण्याक्रमणे प्राणिनो हौन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र ; तथा, बौभक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह ; तथा, हरिपकमणे हरिताक्रमणे ; अनेन सकलवनसतेः, तथा, ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमण, अंवग्यायो जलविशेषः, इह चावण्यायग्रहण मतिशयतः शेषजलसम्भोगपरिहरणार्थम्, उत्तिंगा गर्दभाक्तयो जीवाः, ते हिभूमौ विवराणि कुर्वन्ति, कोटिकानगराणि वा उत्तिंगाः ; पनकः पञ्चवर्णोलिः ; दकमृत्तिका अनुपहतभूमौ चिक्विल्लः ; अथवा, दकशब्देनाप्कायो एयते मृत्तिकाशब्देन तु पृथ्वीकाय इति ; मर्कट: कोलिकस्तस्य सन्तानो जालकम्, ततश्चावश्यायचोत्तिङ्गश्चेत्यादिहन्दः. तेषां संक्रमणमाक्रमणं तस्मिन् । कियन्तोवा भेदेनाख्यातुं शक्यन्ते ? इत्याहजे मे जौवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः ; ते च एगिंदिया एक स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रिया: पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः ; बेइंदिया हे स्पर्शनरसने इन्द्रिये येषां ते हौन्द्रियाः कम्यादयः ; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते बौन्द्रियाः पिपीलिकादयः ; चउरिंदिया चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भमरादयः ; पंचिंदिया पञ्च श्रोबान्तानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया मूषकादयः । विराधनाप्रकारमाह अभिहया अभिमुखा हतावरणेन घहिताः, उक्षिप्य क्षिप्ता