________________
टतीयः प्रकाशः
समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविध प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्टभोजनताम्बूलवस्त्राभरणादिदानम्, आपत्रिमग्नानां च स्वधनव्ययेनाऽप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवक्षये पुन: पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् , प्रमाद्यतां च स्मारणवारणचोदना प्रतिचोदनाऽऽदिकरणम् वाचनाप्रच्छना परावर्तनाऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठान करणार्थं च साधारणपोषधशालादेः करणमिति । श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तत्र ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शोलशालित्वम् ?, कुतो वा रत्नत्रययुक्तत्वम् ?, स्त्रियो हि नाम लोके लोकोत्तरे चाऽनुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एता: खल्वभूमिजा विषकन्दल्यः, अननसम्भवा वजाशनयः,असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्राः, प्रत्यक्षा राक्षस्यः ; असत्यवचनस्थ, साहसस्य, बन्धुस्नेहविघातस्य, सन्तापहेतुत्वस्य, निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसमानवात्सल्यविधानं तासु युक्तियुक्तम् ? । उच्यते । अनेकान्त एषः, यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देवगुरुवञ्चकाश्च (१) ड-चोदन-।
(२) ड-त-परिवर्तना-।