Page #1
--------------------------------------------------------------------------
________________
Sunलब्धिसूरीश्वरजैनग्रन्थमालायास्तृतीयोमणिः [३] श्रीस्याद्वादिने नमः । आत्मकमललन्धिसूरीश्वरेभ्यो नमः ।
पण्डित सत्यराजगणिविरचितम्
श्री श्रीपालचरित्रम् । - सरिसार्वभौम जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरशिष्येण
मुनि विक्रमविजयेन संशोधितम् । जैनरत्न व्या० वा० कविकुलकिरीटाचार्यवर्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयगंभीरसूरीश्वरोपदिष्ट वेरावलवास्तव्य शा. देवकरण कल्याणजी विहितार्थसाहाय्येन लब्धिसूरीश्वरजैनग्रन्थमाला
कार्यवाहकेन जमनादासतनुजचन्दुलालेन प्रकाशितम् । बीर २४५६. आत्म ४३. विक्रम १९९५.
प्रतयः २५०.
Page #2
--------------------------------------------------------------------------
________________
श्री लब्धिसूरीश्वर जैनग्रन्थमाला।
१ जैनव्रतविधिसंग्रह २ हीरप्रश्नोत्तराणि ३ श्रीपालचरित्रम् ४ तत्त्वन्यायविभाकरः ५ पंचसूत्रम् ६ आरंभसिद्धिः
( सुधारावधारा साथे बिजी आवृत्ति)
०-८-० (कीर्तिविजयमणिसमुच्चित)
०-१२-० (पण्डित सत्यराजगणिकृतम् )
०-०-० (श्रीमद्विजयलब्धिंसूरीश्वरप्रणीतः)
(प्रेसमां) ( हरिभद्राचार्यकृत टिकोपेतम् )
(प्रेसमां) (हेमहंसगणिकृत टीकोपेता)
(प्रेसमां) शाह चन्दुलाल जमनादास छाणि ( वडोदरा स्टेट)
मुद्रक : शाह गुलाबचन्द लल्लुभाई, श्री महोदय प्रीन्टींग प्रेस-भावनगर.
Page #3
--------------------------------------------------------------------------
________________
HORAKAREGACASASARAS
* प्र....स्ता....व....ना अयि सुरभारतीरतिमन्तो धीमन्तः ! जन्मजरामरणविपत्तिसङ्कले, मिथ्यादर्शनाविरत्यादिमहाग्राहपरिपूर्णे, रागद्वेषजवनपवनसंकीर्णे, नानाविधानिष्टेष्टसंयोगवियोगविचित्रवीचीनिचयसश्चिते, पशुपुत्रकलत्रादिमहावर्तावृते, प्रबलमनोरथवेलाकुलाकुले, अतिविषमसंसारपारावारे, अनादिकालतः संसरद्भिरसुमद्भिः महापुण्योदयाद्दशोदाहरणेभ्यो दुर्लभतया प्रसिद्धिं गतो मानुषो भवोऽवाप्यते। __ स च मानुषो भवः सकलजीवाजीवादिपदार्थसार्थप्ररूपकेण, अवदातधर्मप्रादुर्भावासाधारणकारणेन, नितान्तानवद्यान्याविज्ञातचरणकरणक्रियाप्रतिपादकेन, अविसंवादिप्रवचनेनानुशिष्टशासनाकूलप्रवर्तनात् सफलीभवति । तत्र विविधविधेषु शास्त्राभिहितोपायेषु सर्वाननुष्ठातुं सर्वे न शक्नुवन्तीत्युपकारैकजीविमिः स्याद्वादिभिः जीवयोग्यतानुगुणं नैकविधाराधनाः प्रदर्शिताः ।
तासु नैक विद्यामन्त्राद्यधिष्ठितदृष्टिवादाद्यागमप्रथितमहामन्त्रावतंसं यथासामग्रीपूर्वकंपरमविशुद्धचित्तेनानुष्ठातुस्तस्मिन्नेव भवे मोक्षदातृ च सिद्धचक्राराधनमेव प्रवरतरं वर्वत्ति । ____ तच्च परानुग्रहैकवत्सलैः स्याद्वादसमयपारावारपारीणैः श्रीमन्मुनिचन्द्रगुरुभिः नृपालपृथिवीपालनन्दिनीमदनावचसा, सिद्धान्तात् निष्कासितं पूर्वजननोपार्जितकर्मप्रादुर्भूतरौद्रवेदनाप्रदकुष्ठामयग्रस्तावनिपालश्रीपालस्य कृते ।
श्रीनवपदाराधकैरैहिकपारलौकिकसौख्यं कथं प्राप्यत इत्येतन्निजरचितश्रीपालमदनसुन्दरीपवित्रचरित्रेण पण्डितमण्डलमण्डन
RRRRRRRR
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना
श्रीपालचरित्र ।
सत्यराजर्षिगणिः प्रबोधयति । अस्मिश्च चरित्रे श्रीपालजनिः, पितृव्याजितसेनभयात् मात्रा सत्रा स्वनगर्या निर्गमनम् , सप्तशतकुष्टिकदम्बकसंमिलनम् , मदनसुन्दर्याः पाणिपीडनम् , गुरोरुपदेशनानुसारेण श्रीसिद्धचक्रस्थाराधनम् , तेन नीरोगीभवनम् , विविधविषयावलोकनाय पृथिवीपर्यटनम् , धवलश्रेष्ठिकृतोपद्रवाणां सिद्धचक्रसंस्मरणतो दूरीभवनम् , अनेकपार्थिवकुमारीभिः समं परिणयनम् , स्वराज्यस्वायत्तीकरणम् , पराभवबीजवैराग्यात् सर्वविरत्यापन्नाजितसेनराजर्षिवंदनेन पूर्वजन्मवृत्तान्ताकर्णनमित्यादयः श्रीपालधराध| वस्यातिकान्तोदन्ताः समासेनोदिताः । आस्ताम् श्रीपालो मदनसुन्दरी च श्रीमुनिसुव्रतस्वामितीर्थे । ____एतद् ग्रन्थावसानवर्तिभिः प्रशस्तप्रशस्तिश्लोकैरस्य ग्रन्थस्य प्रणेतारो वैक्रमपञ्चदशशताब्द्यामासन् , तथा पूर्णिमागच्छीयगुणसागरसूरीश्वरान्तेवासिनः समुद्रसागरमुनिवरा एतद्ग्रन्थकर्तुर्गुरव इत्यवगम्यन्ते । ___एतच्चरित्रं कविकुलकिरीट-व्याख्यानवाचस्पति-आचर्यवर्य श्रीमद्विजयलब्धिसूरीश्वरपट्टप्रभावकाणां गम्भीररिवराणामुपदेशेन वेरावलवास्तव्ययोः श्राद्धवर्ययोहीरालालदेवकरणयोर्द्रव्यसाहाय्यतः । श्रीलब्धिसूरीश्वरजैनग्रन्थमालाया 'स्तृतीयमणितया प्रकाशितं । अन्थेऽस्मिन्मतिमान्द्यादिना यन्त्रतो वा सञ्जाता अशुद्धयोऽपश्चिमविपश्चिद्भिः संशोध्यावलोकनीयमिति प्रार्थयते
.ईडरनगरे. मार्गशीर्षबहुलपञ्चम्याम् ता. ११-१२-३८
मुनिर्विक्रमविजयः
॥
१
॥
Page #5
--------------------------------------------------------------------------
________________
RRRRRR
श्री लब्धिसूरीश्वरजैनग्रन्थमालायाः तृतीयो मणिः
• श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः॥ पण्डितश्रीसत्यराजगणिप्रणीतं श्रीसिद्धचक्रमाहात्म्यस्योपरिश्री श्रीपालचरित्रम्।
Othere श्रिये श्रीमन्महावीर स्वामी वासवसेवितः । यद्वाचो भव्यजन्तूनां रज्जूयन्ते भवावटे ॥१॥ अहंदाद्यां नवपदी ध्यात्वा हृत्पद्मसमनि । श्रीसिद्धचक्रमाहात्म्यमुत्तमं किमपि ब्रुवे ॥ २ ॥ अस्त्यत्र भरतक्षेत्रे देशे मगधनामनि । पुरं राजगृहं तत्र राजते श्रेणिको नृपः॥ ३ ॥ तस्य प्रशस्यभूजानेर्जाने रूपश्रिया श्रियः। सुनन्दाचेल्लणाधारिण्याद्या धर्मप्रियाः प्रियाः ॥४॥ अभयः कोणिको हल्लविहल्लौ मेघनामकः । एवमाद्या अनेकेपि विवेकेनान्विताः सुताः ॥ ५॥ वसन्ति यत्र श्री शालिभद्राद्या इभ्यपुङ्गवाः । यत्र वैभारगिरिणा भूषितोपान्तभूतलम् ॥ ६ ॥ तत्रान्यदा निजपदैः पुनातुं पृथिवीतलं । श्रीवीरः समवासार्षीनगरोपान्तसीमनि ॥७॥ प्राहिणोत्प्रथमं शिष्यमिन्द्रभूति गणेश्वरं। पुरे राजगृहे स्वामी लोकानां लाभहेतवे ॥८॥
Page #6
--------------------------------------------------------------------------
________________
श्रीपाल - ॥ १ ॥
1
ज्ञात्वा तमागतमथो लसद्रोमाञ्चकञ्चुकः । श्रीश्रेणिको नृपोऽप्यागाद्वन्दितुं सपरिच्छदः ॥ ९ ॥ पञ्चधाभिगमं कृत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणम्योचितभूदेशे देशेशः स निषण्णवान् ॥ १० ॥ भगवान् गौतमस्वामी गर्जत्पर्जन्यमञ्जुना । - निना वक्तुमारेभे धर्म शर्मनिबन्धनम् ॥ ११ ॥ भो भव्या ! दशदृष्टान्तैर्मानुष्यं प्राप्य दुर्लभम् । यतितव्यं दानशीलतपोभावेषु सन्ततम् ॥१२॥ तत्रापि भावो नासीरवीरः सद्धर्मभूभृतः । तमन्तरेण यद्व्यर्थं दानादि तुषवापवत् ॥ १३ ॥ स मनोविषयस्तच्च निरालम्बं हि दुर्जयम् । नियन्त्रणार्थं तस्योक्तं सालम्बंध्यानमुत्तमैः ॥ १४ ॥ यद्यप्यालम्बनान्यत्र शास्त्रे सन्ति बहून्यपि । तथापि नवपदानां( सिद्धचक्रस्य १ ) ध्यानमुत्तममुच्यते ॥ १५ ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वसाधवः । दर्शनज्ञानचारित्रतपांसीति पदावली ।। १६ ।। दशाष्टदोषविकलान् केवलालोकनिर्मलान् । स्मरार्हतस्तथा सिद्धान् सिद्धानन्तचतुष्टयान् ॥ १७ ॥ पञ्चाचारविचारज्ञान् स्मर सूरिपुरन्दरान् । सूत्रार्थाध्ययनपरान् स्मर वाचकपुङ्गवान् ।। १८ ।। शिवसाधन योगेषु नित्योद्युक्तान्मुनीन् स्मर | जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ||१९|| पठ पाठय सद्ज्ञानं यानं भवमहार्णवे । चर दुश्वरचारित्रं तपस्तप सुदुस्तपम् ||२०|| एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्त्तितम् । श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्त्तिमत् ॥२१॥ एतानि नवसंख्यान्यर्हदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ||२२|| पृष्टवान् मगधेशोऽथ श्रीपालः कोऽमुना कथं । सिद्धचक्रं समाराध्य संप्राप्तं ? फलमुत्तमम् || २३ || उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते ! । श्रीसिद्धचक्रमाहात्म्यमतिचित्र करं नृणाम् ॥ २४॥ तथाहि - इहैव भरतेऽवन्तिदेशेषुञ्जयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ २५ ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते ।। २६ ।। मिथ्यात्व
चरित्रम्.
॥ १ ॥
Page #7
--------------------------------------------------------------------------
________________
तयोः । शैवे जैने मतेचानामतज्ञयोः । शिवभुतिसुबुद्ध्याख्याचमोत्सव तयोः । सुरसुन्दरीमद
4] मोहिता तत्रादिमा सौभाग्यसुन्दरी । सम्यक्त्ववासिता बाढं द्वितीया रूपसुन्दरी ॥ २७ ॥ अथो मिथः प्रीतियुजोः सापल्ये
ऽपि तयोः समं । आपन्नसत्वयोर्जाते उभे कन्ये मनोहरे ॥२८॥ प्रमोदात्कारयामास पिता जन्मोत्सवं तयोः। सुरसुन्दरीमदनसुन्दरीत्यभ्यधत्त च ॥ २९ ॥ समं समर्पिते ते च शैवजैनमतज्ञयोः। शिवभूतिसुबुद्ध्याख्याचार्ययोः पाठहेतवे ।। ३०॥ परं| तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः ॥ ३१ ॥ इत्थं कृतकलाभ्यासे ते कला-| चार्यसंयुते । कलापरीक्षणकृते पितरं नन्तुमीयतुः॥ ३२ ॥ पित्रापि हृष्टमनसा निवेश्यात्मीयपार्श्वयोः । द्वयोः प्रज्ञापरीक्षायै समश्यापदमर्पितं ॥३३॥ यथा-'पुण्णेहिं लभइ एह '। ततस्तत्कालमत्यन्तगर्वचञ्चलचित्तया । पूरिता सुरसुन्दर्या समश्या शृण्वतः पितुः ॥ ३४ ॥ 'धण-जुवण-सुबड्डपण, रोगरहियनियदेह । मणवल्लहमेलावड पुण्णेहिं लब्भइ एह ॥ ३५ ॥ तत् श्रुत्वा नृपतिस्तुष्टः प्राशंसत्तत्कलागुरुम् । चतुर्विद्यानिधानेति परिषत्सकलापि च ॥३६॥ ततोऽपरा नृपादिष्टापूरयन्मदनापि ताम् । स्वभावसदृशा वाचा जिनधर्मपरायणा ॥३७॥ 'विणय-विवेक-प्रसन्नमण सीलसुनिम्मलदेह । परमप्पहमेलावडु पुण्णेहिं लप्मइ एड. ॥३८॥ ततस्तजननी चोपाध्यायस्तुष्टौ न चेतरे । यतस्तत्त्वोपदेशो न मुदे मिथ्यादृशां भवेत् ॥३९॥ इतश्च कुरुदेशेऽस्ति नाम्ना शंखपुरी पुरी । दमितारिर्नुपस्तत्र प्रजा पाति पितेव यः॥४०॥ प्रतिवर्ष स चावन्तीपतिसेवार्थमाव्रजेत् । तत्स्थानेऽथान्यदागच्छत् सुतोऽरिदमनाभिधः॥४१॥ दिव्यरूपं च तं वीक्ष्य चुक्षोभ सुरसुन्दरी । कामबाणैर्भृशं भिन्ना कटाक्षान् विक्षिपन्त्यथ ॥४२॥ | तदेकतानां तां दृष्ट्वा नृपोऽपि ज्ञाततन्मनाः। प्रोवाच ते वरः कोऽस्तु ? तुभ्यं वा रोचतेऽत्र कः ॥ ४३ ॥ तदनन्तरं प्रतिवाक्सजयाथ तयोदितं । तातपादाः सप्रसादाश्चन्ममायं वरोऽस्तु तत् ॥ ४४ ॥ तथेति प्रतिपन्नेऽस्मिन् पर्षल्लोकोऽप्यदोऽवदत् ।
AAAAAAAA%9454
Page #8
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
॥२॥
SACREARSA
देवायमनयोर्योगो भाग्ययोगेन संभवेत् ॥ ४५ ॥ पित्राथ मदना पृष्टा वरार्थ सा तु लज्जया। जिनवाक्यवशोद्भूतविवेका नाह किञ्चन ।। ४६ ॥ पुनः पृष्टा नरेन्द्रेण विहस्यैवं जगाद सा । तात ! किं पृच्छसीदं मां लज्जाकारि विवेक्यपि ॥४७॥ येनैवं कुलबालानां नोचितं हि वरार्थनं । यस्मै दत्ते पिता तं तु वृणुते कुलबालिका ॥४८॥ निमित्तमात्रं हि वरप्रदाने पितरावपि । पूर्वबद्धो हि सम्बन्धो यस्माजन्तुषु जायते ।। ४९ ।। यद्येन यादृशं कर्मोपार्जितं स्याच्छुभाशुभम् । तत्तेन तादृशं सर्व भोक्तव्यं निश्चयादपि ॥ ५० ॥ कन्या पुण्याधिका या तु दत्ता हीनकुलेऽपि सा । सुखिता पुण्यहीना तु सुकुलेऽपि हि दुःखिता ॥५१॥ तत्तात ! ज्ञाततत्त्वस्य गर्वोऽयं ते न युज्यते । मत्प्रसादाप्रसादाभ्यां यज्जनः सुखदुःखभाक् ॥ ५२ ॥ य एव पुण्यवांस्तस्य त्वमप्याशु प्रसीदसि । पुण्यहीनस्तु यस्तस्य न प्रसीदसि जातुचित् ।।५३।। इति तद्वचसा दूनो भूपः कोपकरालहक् । प्राह रे! मत्प्रसादेन वस्त्रालङ्कारणादिकम् ।।५४॥ दधाना भव्यभोज्यानि भुञ्जानापि निरन्तरम् । यदेवं वक्षि तेन त्वं स्वकर्मफलमाप्नुहि ॥ ५५ ॥युग्मं।। अथाह पर्षल्लोकोऽपि मुग्धेयं नावगच्छति । त्वमेव कल्पवृक्षोऽसि तुष्टो रुष्टो यमोपमः॥५६॥ मदनोवाच धिग् लक्ष्मीलवलाभकृतेऽप्यमी । जानन्तोऽपि नृपस्याग्रे कुर्वतेऽलीकभाषणम् ॥५७॥ किमथो बहुनोक्तेन तुभ्यं यस्तात! रोचते । वरः स मेऽस्तु चेत्पुण्यं निर्गुणोऽपि गुणी ततः ।।५८ ॥ यदिवा पुण्यहीनाहं सुन्दरोऽपि वरस्ततः । असुन्दरो ध्रुवं भावी तात! मत्कर्मदोषतः ॥ ५९॥ ततः प्रकुपितं ज्ञात्वा मन्त्री विज्ञप्तवान्नृपं । स्वामिन् ! समस्ति ते राजपाटिकासमयोऽधुना ॥ ६० ॥ प्रज्वलन्निव रोषेण घृतसिक्त इवानलः । ससैन्योऽथ नृपो राजपाटिकार्थ विनिर्गतः॥६१ ॥ पुरादहिरथो राजा निर्गच्छन् कुष्ठिपेटकं । दृष्ट्वा पप्रच्छ मन्त्रीशं सोऽप्युवाच यथातथम् ॥६२॥ देवात्र नगरे सप्तशतसंख्याः किलासिनः ।
55555ॐॐ
Page #9
--------------------------------------------------------------------------
________________
तैः सम्भृयोम्बरव्याधिग्रस्त एको नृपः कृतः॥ ६३॥ उम्बरराडिति ख्यातोऽभितस्तैः कुष्ठिभिर्वृतः । वरवेसरमारूढो बम्भ्रमीत्यखिले पुरे ॥ ६४ ॥ महेभ्यानां कुले राजकुले मन्त्रिकुलेऽपि च । गृह्णन् स्वपञ्जिकादानमेष आयाति सन्मुखम् ॥६५॥ विहाय तदमुं मार्ग गम्यतेऽन्यपथा प्रभो ! । तथा कृते कुष्ठिनोऽपि वलितास्तत्पथि द्रुतम् ॥६६॥ राजा प्राह पुरो गत्वा मन्त्रिन्नेतानिवारय । दत्त्वा प्रार्थितमप्येषां दर्शनं यन्न शोभनम् ॥६७॥ यावन्मन्त्री करोत्येतत्तावत्तत्पेटकाद् द्रुतं । गलिताङ्गुलिनामागात्कुष्ठी मन्त्री नृपाग्रतः ॥ ६८ ॥ स चावदन्नृपं नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते सर्वैर्दानमानादिभिर्भृशम् ।। ६९॥5 तेनास्माकं धनस्वर्णादिभिः कार्य न किंचन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्यते ॥ ७० ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्रदापय । युष्मदत्तेन चान्येन कृतं स्वर्णधनादिना ।। ७१॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिनृपस्यास्य कीर्तिरेवंविधा यथा ।। ७२ ।। कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्य- 12 काम् ।। ७३ ।। बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्मनः ? ।।७४ । यासौ कृतघ्नतनया सा देयास्मै मया ध्रुवम् । ध्यात्वेति नृपतिः सद्यो वलित्वागानिकेतने ।।७५।। आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाहये ॥ ७६ ॥ चेपुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयं ॥ ७७ ॥ आहूय कुष्ठिनामीशं नृपः प्रादान्निजां सुतां । स च प्रोवाच भो राजन् ! किमयुक्तं ब्रवीष्यदः ॥ ७८ ॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फलम् । भुञ्जानोऽस्याः स्त्रियो देव ! कथं जन्म विनाशये ॥७९॥ त्वं चेद्दास्यसि त. देहि दासी दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ ८० ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलं ।
KC
Page #10
--------------------------------------------------------------------------
________________
श्रीपाल -
॥ ३ ॥
तेनासि त्वमिहानीतो विचारं हृदि मा कुरु ॥ ८१ ॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा । विवाहलग्नवेलायां करं जग्राह पाणिना ।। ८२ ।। मातृमातुलमुरूयोऽथ परिवारोऽसमञ्जसं । तद् दृष्ट्वा कुरुते हाहारवं शोकभरार्द्दितः ॥ ८३ ॥ तथापि नृपतिः कोपाटोपान्नैव निवर्त्तते । ज्ञाततच्चा मदनापि न सच्चाच्चलिता मनाक् ॥ ८४ ॥ याति वेसरमारुह्य मदनामुम्बरे नृपे । एके वदन्ति धिग्भ्रूपमविचारिशिरोमणिम् ॥ ८५ ॥ दैवं केचित्सुतां केचिजिनधर्म च केचन । केऽपि निन्दन्त्युपाध्यायं नैकवाक्यो जनो यतः || ८६ ॥ शृण्वन्त्येवं वचांस्युच्चैरुम्बरेण समं ययौ । हृष्टेन पेटकेनापि चक्रे पाणिग्रहोत्सवः ॥ ८७ ॥ राज्ञाथ सुरसुन्दर्या विवाहार्थं निमित्तवित् । पृष्टः प्राह महालग्नमभून्मदनया यदा ।। ८८ ।। कुष्ठिनोऽस्य करोऽग्राहि साम्प्रतं तु न ताहशम् । राजापि प्राह हुं ज्ञातं लग्नस्यास्य फलं मया ।। ८९ ।। अधुनापि निजां पुत्रीं सुमहेन विवाहये । इत्युक्त्वा मुदितो राजा विवाहं कृतवांस्तयोः ॥ ९० ॥ कुमारोऽथारिदमनः परिणीय निजां पुरीम् । प्रस्थितः सुरसुन्दर्या समं लौकैर्निरीक्षितः ॥ ९१ ॥ भणन्त्येकेऽनयोर्योगं कृतवान् कीदृशं विधिः । सुविनीता महापुण्या यद्वासौ सुरसुन्दरी ॥ ९२ ॥ नृपं केचिद्वरं केचित्कन्यां केचिज्जनास्तदा । प्राशंसन् शिवधर्म च केचित्केचिच्च पण्डितम् ||१३|| सन्मानं सुरसुन्दर्या मदनाया विडम्बनम् । दृष्ट्वा समग्रलोकोऽपि समदुःखसुखोऽभवत् ॥ ९४ ॥ इतश्च कुष्ठिना तेन भणिता मदना निशि । याहि भद्रे ! नरं कश्चिद् यौवनं सफलीकुरु ॥ ९५ ॥ पेटकेऽत्र च तिष्ठन्त्या भविता सुन्दरं न ते । प्रायः कुसङ्गजनितं कुष्ठमासीन्ममापि यत् ॥ ९६ ॥ इति तद्वचनं श्रुत्वा मदना साश्रुलोचना | जगौ भूयोऽपि नो वाच्यमिदं नाथ ! वचस्त्वया ॥ ९७ ॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छील विकलं तद्धि कांजिकं क्वथितं ननु ।। ९८ ।। तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुर्वदतोरेवमेतयोः
चरित्रम्
॥ ३ ॥
Page #11
--------------------------------------------------------------------------
________________
॥१९॥ मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदहगृहं प्राप्तो युगादिजिनमानमत् ॥ १०० ॥ अथ प्रसन्नवदना मदना | KI मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥१०१॥ जयादिवरराजेन्द्र ! जय प्रथमनायक ! । जय प्रथमयोगीन्द्र !
जय प्रथमतीर्थप! ॥१०२॥ भवार्णवे जरामृत्युरोगदुःखोर्मिसङ्कले। मजतां यानपात्राभस्त्वमेव जिन! दृश्यसे ॥१०३ ॥ त्वं मे माता पिता भ्राता बन्धुः स्वामी सुहृद्गुरुः। गतिमतिर्जीवितव्यं शरणं च नमोऽस्तु ते ॥ १०४ ।। घोररोगार्दिता येऽत्र ये च दुःखैः प्रपीडिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ १०५ ॥ इति स्तुतो मया भक्या श्रीयुगादिजिनेश्वरः। मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ १०६ ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक् जिनकण्ठादुदच्छलत् ॥ १०७ ॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलं । पुष्पमाला स्वयं चादादानन्दोद्यतमानसा ॥ १०८ ।। भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येनैष संयोगो जिनराजप्रसादतः ।। १०९ ॥ मदनाथ युता पत्था मुनीन्दुगुरुसन्निधौ । प्राप्ता प्रणम्य तत्पादाविति शुश्राव देशनाम् ॥११० ।। मानुध्यत्वं कुलं रूपं सौभाग्यारोग्यसंपदः । स्वर्गापवर्गसौख्यानि लभ्यन्ते पुण्ययोगतः ॥ १११ ।। एवं श्रीधर्ममाहात्म्यं विज्ञाय जगदद्भुतं । मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ ११२ ॥ इहास्तां विभवो भूयान् कुटुम्बं च महत्तमं । परं भवान्तरेऽवश्यं पुण्यमेवानुगं मतम् ॥११३।। देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः । मदनापि रुदन्त्याख्यत् सर्व वृत्तान्तमादितः ॥११४ ॥ विज्ञप्तं च विभो ! नान्यन्मम दुःखं हि किंचन । परं मिथ्यादृशो जैन धर्म निन्दन्ति तन्महत् ॥ ११५ ॥ कृत्वा प्रसादं तत्किचिदुपायं कथय प्रभो !। समं लोकापवादेन येनेयं क्षीयते हि रुक् ॥११६।। कृपामानसोऽथाख्यद् गुरुस्तदुःख
Page #12
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
॥४॥
दुःखितः । भद्रेऽनवा कुराधनं नवपदात्मकं ॥११७।। अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ ११८ ।। एतैः पदैविरहितं तत्वं नास्त्यत्र किश्चन। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥११९॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितं ॥१२०।। एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितं । तदष्टदलपद्मस्थं ध्येयं ध्यानपरायणैः ॥१२१।। नादबिन्दुकलोपेतं मायावीजसमन्वितं । आदौ प्रणवसंयुक्तं ध्यायेदहन्तमन्तरा ॥१२२।। सिद्धादीनि चतुर्दिक्षु दर्शनादिपदानि च । विदिस्थितानि चत्वारि स्मर नित्यं प्रमोदभाक् ॥१२३।। सिद्ध्यन्ति यत्प्रसादेन ध्रुवमष्टापि सिद्धयः । अनन्तसौख्यो मोक्षोऽपि तस्य सन्निहितो भवेत् ॥१२४॥ क्षान्तो दान्तो निरारम्भ उपशान्तो जितेन्द्रियः। एतदाराधको ज्ञेयो विपरीतो विराधकः ॥१२५॥ तदेतदाराधकेनार्जवमार्दवशालिना । भाव्यं विशुद्धचित्तेन मुनिना गृहिणापि च ॥१२६।। आश्विनधवलाष्टम्या आरम्याष्टप्रकारया । पूजयाष्टौ दिनान्याचामाम्लानि कुरु भावतः ॥१२७। | नवमे च दिने पञ्चामृतैः स्नानं विधाय च । श्रीसिद्धचक्रयन्त्रस्य विधिनाराधनं कुरु ॥१२८॥ चैत्रेऽप्येवं तथा भूयोऽष्टाह्निकानवकेन तत् । एकाशीत्याचाचामाम्लैः पूर्यते सकलं तपः॥१२९॥ कुर्वन्नेवं नवपदध्यानं मनसि धारय । सम्पूर्णे च तपस्यत्र विधिनो. द्यापनं कुरु ॥ १३० ॥ कृतेऽमुष्मिन् दुष्टकुष्ठज्वरक्षयभगंदराः । कासश्वासादयो रोगाः क्षीयन्ते तत्क्षणादपि ॥ १३१ ।। न स्यादस्यानुभावेन दास्यं प्रेष्यत्वमन्धता। मृकत्वं बधिरत्वं च दौर्भाग्यं चापि देहिनाम् ॥ १३२॥ एतदाराधनपरा न वन्ध्या विधवापि च । दुर्भगा मृतवत्सापि जायते जातु नारी न ।। १३३ ॥ यदि वा किं बहूक्तेन प्रसादादस्य सर्वदा । मनोमनीषितं सर्व जनः प्राप्नोत्यसंशयं ॥१३४॥ गुरुरेवं सिद्धचक्रमहिमानं प्रकीर्णं च । तत्रागतश्रावकेभ्यस्तद्वात्सल्यार्थमुक्तवान्
Page #13
--------------------------------------------------------------------------
________________
AASARAGRAM
॥ १३५ ॥ साधर्मिकाणां वात्सल्यं ये कुर्वति नरोत्तमाः। श्रीमजिनेश्वरस्याज्ञा शिरस्यारोपिता हि तैः ॥ १३६ ॥ गुर्वादिष्टैस्ततस्तैरप्यानीयैतौ स्ववेश्मनि । स्थापयित्वान्नवस्त्राद्यैः सच्चक्राते प्रमोदिभिः॥ १३७ ॥ तत्र स्थितः कुमारोऽथ श्रद्धावान्मदनान्वितः । गुरुवाक्यासिद्धचक्रतपश्चक्रे यथाविधि ॥ १३८ ॥ अष्टाह्निकातपः कृत्वा नवमेऽथ दिने सुधीः । श्रीसिद्धचक्रस्नपनाम्बुभिः स्वाङ्गञ्च सिक्तवान् ॥ १३९ ॥ तेन शान्तिजलेनाप क्रमादुल्लाघतां वपुः । मणिमन्त्रौषधादीनामचिन्त्यो महिमा यतः ॥१४०॥ तं तथाविधरोगार्तमपि रूपश्रिया तदा । दृष्ट्वा देवकुमारामं चित्रपूर्णा न केऽभवन् ?॥१४॥ श्रीसिद्धचक्रमाहात्म्यमितिप्रत्यक्षमात्मनः । वीक्ष्य जैनमते रागं बबंधुर्निविडं जनाः ॥१४२॥ मदनाथ स्वनाथस्यालोक्य रूपं तथाविधं । प्राह प्रिय! प्रसादोऽयं सर्वोऽपि गुरुपादयोः ॥१४३॥ तादृग् नैवोपकुर्वन्ति मातृपित्रादयोऽप्यमी । निष्कारणदयापूर्णो गुरुर्यादृक् तु देहिनां ॥ १४४ ॥ कुमारो जिनधर्मस्य माहात्म्यमनुभूय तत् । जिनधर्मैकचित्तोऽभूत् फलैरेवोद्यमो यतः॥१४५॥ जिनं नत्वा जिन-13 गृहानिर्गच्छन्नन्यदा सकः । दृष्ट्वा कात्यायनी कांचिद्वनितां सहसाऽनमत् ॥१४६॥ अहो ! अनभ्रा वृष्टिर्मे जाता मातुर्विलोकनात् । वदत्यस्मिन्निति ज्ञात्वा श्वश्रू सापि ननाम ताम् ॥१४७॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति (दृश्यतामिति)॥१४८॥ साथ तद्वत्तमाकर्ण्य सहर्षा समभूभृशम् । शशंस स्वं च वृत्तांतमशेषमपि तद्यथा ॥ १४९ ॥ त्वां तथाविधरोगात वत्स! स्वच्छमते । तदा । गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि जग्मुषी ॥१५०।। दृष्ट्वा जिनगृहे कंचित्तत्र ज्ञानधरं मुनिं । अपृच्छं भगवन् ! सज्जः कदा मे भविता सुतः ॥१५१॥ मुनिनोक्तं तदा भद्रे! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्रभुः ॥१५२॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र
Page #14
--------------------------------------------------------------------------
________________
श्रीपाल
नाम्ना मदनसुन्दरीम् ॥ १५३ ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥ १५४ ॥ तकृत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्ध्वा समं दृष्टो ज्योत्स्नयेव सुधाकरः॥१५५।। तद्वत्स! सवधूकस्त्वं जय जीव सुखान्वितः । यावज्जीवं ममापि स्याच्छरणं धर्म आर्हतः ॥ १५६ ॥ इतश्च पुत्रीदुःखेन दुःखिताः रूपसुन्दरी । स्वभ्रातुः | पुण्यपालस्य गृहे तिष्ठति शोकतः॥१५७ ।। अथान्यदा जिनगृहे गता यावद्ददर्श सा । तावत्कुमारं तं जायाजननीभ्यां सम-18 न्वितं ॥ १५८ ।। उपलक्ष्य च पुत्रीं स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनान्येन चालगत् ॥१५९।। कुले कलङ्क आनीतो जिनधर्मश्च दूषितः । यया न तादृशं दुःखं सुतया मृतयतया ॥१६॥ यादृगीदृक्षवृत्तेन जीवन्त्यापि ममास्ति तत् । मत्कुक्षौ नापतद्वज्रं कथमेवं रुरोद सा ।। १६१ ॥ मदनापि जगौ मातः! कोऽयं हर्षपदे तव । विषादो येन जामाताऽप्येष तेऽभूनिरामयः ।। १६२ ॥ विकल्पो यश्च ते चित्ते मातर्जातोऽस्ति मय्यपि । उदेति पश्चिमां भानु| स्तथाप्येवं न संभवेत् ॥ १६३ ॥ उचे कुमारमात्रापि भद्रे ! मैवंविधं वद । त्वत्सुतायाः प्रभावेण सूनुर्मेऽभून्निरामयः |
॥१६४ ॥ कथमेवमथाचख्यौ मदनावृत्तमादितः । ततः कुमारजननीमवदद्पसुन्दरी ॥ १६५ ॥ लोकोत्तरगुणा भद्रे ! त्वत्सूनोविदिता मया । तथापि तत्कुलं श्रोतुं कर्गकौतूहलं मम ॥ १६६ ॥ साप्याख्यदंगदेशेऽस्ति चम्पानाममहापुरी । तत्र सिंहस्थो राजा तत्प्रिया कमलप्रभा ॥१६७ ।। तयोश्चिरेण पुत्रोऽभूत् श्रीपालो नामविश्रुतः । तस्मिन् द्विवर्षदेशीये नरनाथोव्यपद्यत ॥१६८॥ मतिसागरसंज्ञेन राज्यभक्तेन मन्त्रिणा। सद्यः श्रीपालबालोऽयं पैव्ये राज्ये निवेशितः ॥ १६९ ॥ तत्पितृव्यो जितसेनः कियत्स्वपि दिनेष्वथ । सैन्यभेदं विधाय स्वशिशोमन्त्रितवान् वधं ।। १७०।। ज्ञात्वा कुतोऽपि तन्मन्त्र्यऽकथ
ल्पो यथा । मदनापि जी" १६० ॥
ALANARRAHASAHERE
Page #15
--------------------------------------------------------------------------
________________
यत्कमलप्रभाम् । सादाय स्वसुतं रात्रौ निरगानगरादहिः ॥१७॥ पत्युर्मृत्युः स्थाननाशो वैरित्रासोऽसहायता । बालः सुतः क्क गन्तव्यमिति ? दुःखादुरोद सा ॥ १७२ ॥ कथंचित्प्रविभातायां विभावर्यामथ प्रगे । चचालासौ पुरस्तावन्मिलितं कुष्ठिपेटकं ॥१७३॥ तद् दृष्ट्वा कमला भीता भाषिता कुष्ठिभिश्च तैः । भद्रे ! कासि ? किमत्रैका ? किमु रोदिषि वा कथं ॥१७४॥ मा भैषीर्भगिनि ! भद्रं भवामस्ते सहोदराः। तयापि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥१७५।। तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ १७६ ।। अपृच्छंस्तेऽपि भो ! दृष्टा कापि राज्ञी सुतान्विता । उक्तं तैरस्ति साथै नश्चेत्कार्य तत्प्रगृह्यताम् ॥१७७।। एकेनोक्तमिमेऽस्मभ्यं पामानं ददते खलु। त(स)देव दीयते सर्वैनष्टास्ते त
यात्ततः ॥ १७८ ॥ क्रमेणोजयिनी प्राप्ता ससुता कमलप्रभा । स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं वयः ॥ १७९ ॥ ततः स कर्मदोषेणोंबररोगार्दितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठामयापहम् ॥१८०॥ कौशाम्ब्यां पुरि संप्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाहं कमलप्रभा ॥१८१ ।। एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले ।। १८२ ।। अथ सिंहस्थस्याङ्गजन्मानं समवेत्य सा । प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी ।। १८३ ॥ वृत्तान्तमेनं चाज्ञापि पुण्यपालनृपस्तया । जामातरं समादाय सोऽपि स्वस्थानमागमत् ॥१८४ ॥ अथान्यदा गवाक्षस्थं नृपस्तं वीक्ष्य सप्रियम् । अचिन्तयद्धि मत्पुत्री कुलं स्वमकलङ्कयत् ।। १८५।। क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं हि विधेर्वशात् ।। १८६ ।। अत्रान्तरे पुण्यपालो राक्षे तच्चरितं जगौ । तच्छ्रुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् ।। १८७ ।। संभाष्य बहुमानेन सुतां जामातरं तथा । महामहेन नृपतिनिजगेहं समानयत् ॥ १८८ ॥ श्रुत्वा तमथ वृत्तान्तं
Page #16
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्
| लोकः सर्वो विसिष्मिये । जिनेंद्रशासनस्योचैः प्रभावः प्रसृतो मुवि ॥ १८९॥ श्रीपालमन्यदा राजपाटिकार्थ विनि
गतं । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ॥ १९० ॥ अन्येनोक्तं नरेन्द्रस्य जामातासौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागानिजौकसि ॥ १९१ ।। दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणं । सोऽप्याख्यदधमत्वस्य लक्षणं मेत्र तिष्ठतः ।।१९२।। यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुणैः। अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः॥१९३॥ तेनाहं गमनं कुर्वे विदेशदर्शनेच्छया। त्वया सुखेन वध्वा च मातः! स्थेयं स्वमन्दिरे॥१९४॥अथाह जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥१९५।। त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृहामि कृतार्थः स्यां तदा ननु ॥१९६॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाचिरेण राज्यं स्वं गृह्णामि स्वभुजौजसा ॥१९७।।
(तंपइ जंपइ जगणी बालो सरलोसि तंसि सुकुमालो । देसंतरेसु भमणं विसमं दुरकावहं चेव ॥१॥ तो कुमरोजणणींपइ जंपइ मा माइ एरिसं भणसु । तावच्चिय विसमत्तं जाव न धीरा पवजंति ॥२॥ पभणइ पुणोवि माया वच्छ ! य अम्हे सहागमिस्सामो । को अम्हं पडिबंधो तुमं विणा इत्थ ठाणंमि ॥३॥ कुमरो कहेइ अम्मो तुम्मेहिं सहागयाहिं स| वत्थ । न भवामि मुक्कलपओ ता तुम्भे रहह इत्थेव ॥ ४ ॥ मयणा भणेइ सामिय! तुम्हं अणुगामिणी भविस्सामि । भारं पि हु | किंपि अहं न करिस्सं देहछायव ॥ ५॥ कुमरेणुत्तं उत्तमं धम्मपरे देवि ! मम वयणेणं । नियसस्स्सु सूसणपरा तुमं रहसु इत्थेव ॥ ६ ॥ मयणाह पइपवासं सइउ इच्छंति कहवि नो तहवि । तुम्हं आएसुच्चिय महप्पमाणं परं नाह ! ॥७॥ अरिहंताइपयाई खपि न मयाउ मिल्हियज्वाइं । नियजणणिं च सरिजसु कयावि हु मंपि नियदासिं ॥८॥)
Page #17
--------------------------------------------------------------------------
________________
अहंदादिपदानि त्वं ध्यायेर्यदनुभावतः । सुखेनैष्यामि कार्यों न हृदि खेदो मनागपि ॥ १९८ ॥ ज्ञात्वा तन्निश्चयं सापि कृतकौतुकमंगला । विससर्ज सुतं सोऽपि चचाल करवालभृत् ॥ १९९ ॥ ग्रामाकरपुरादीनि शनैरुल्लंघयन्नसौ । पृच्छति स्म वने कंचिन्नरं ध्यानकतत्परम् ॥२०० ॥ कस्त्वं ? कथमिहैकाकी किं वा ध्यायसि मानसे सोऽप्याह तं स्मराम्ये| नां विद्यां सद्गुरुदेशिताम् ॥ २०१॥ न सिद्ध्यति परं भद्र! सा विनोत्तरसाधकम् । नरोत्तम! ततस्त्वं मे भवतूत्तरसाधक:
॥ २०२ ॥ ततः कुमारसान्निध्यात्सिद्धविद्यः क्षणादसौ । ददौ कृतोपकाराय कुमारायौषधीयुगम् ॥ २०३ ।। उक्तं च जलतारिण्येकाऽपरा शस्त्रवारिणी । भुजयोर्धारणीये च वेष्टयित्वा त्रिधातुभिः॥२०४॥ ततः कुमारेण युतः स विद्यासाधको गिरेः। ययो निकुञ्ज प्रोक्तं च धातुवादिनरैस्त्विदं ॥२०५॥ देव! त्वदुक्तकल्पेनाऽस्माकं साधयतामपि। केनापि कारणेनात्र रससिद्धिर्न जायते ॥२०६॥ कुमारोऽप्यूचिवान् भद्र ! मदृष्ट्या साधयन्त्विति । तैस्तथा विहिते जाता सिद्धिः कल्याणसंभवा ॥२०७॥ तदाग्रहादथादाय कुमारः कांचनं कियत् । भृगुकच्छपुरं प्राप्तो विलसन् धनमिच्छया ॥२०८॥ तत्रागतोऽथ कौशाम्ब्या महेभ्यो धवलाभिधः । यियासुः परकूलं स भूरि यानान्यसज्जयत् ॥ २०९ ॥ नृपादेशादथो नानाविधैर्मृत्वा क्रयाणकैः। चाल्यमानानि यानानि मनागपि न चाचलन् ॥ २१० ॥ चिन्तातुरेऽथ धवले शाकिन्येका ह्यदोऽवदत् । द्वात्रिंशल्लक्षणेनात्र पुंसा बलिविधिं कुरु ॥ २११॥ नृपादेशेन निर्नार्थ श्रीपालं समवेत्य तम् । श्रेष्ठी बलिविधानार्थ निजपुंभिरधारयत् ॥ २१२ ॥ एषोऽप्यजैषीद्धवलभटानेकोऽपि लीलया । ज्ञात्वामहानुभावं तमथ श्रेष्ठ्यप्यदोऽवदत् ।। २१३ ॥ परोपकाररसिकोपायं कंचित्कुरुध्व तम् । चलन्ति यानपात्राणि येनामूनि क्षणादपि ॥ २१४ ॥ दीनारलक्षदानेऽथ श्रेष्ठिना स्वीकृते सति । अचालयन्नवपद
Page #18
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
ध्यानाद्यानान्यसौ क्षणात् ॥२१५॥ महामन्त्रस्मृतेरस्य प्रणष्टा दुष्टदेवता । दीनारलक्षं दत्त्वाथ श्रेष्ठी श्रीपालमृचिवान् ॥२१६।। दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । गृहीतमस्ति साथै स्वे भटानामयुतं मया ॥ २१७ ॥ त्वमप्येष्यसि चेद्भद्र ! तन्निजं ब्रूहि वाञ्छितम् । सोऽप्याह स्म यदेतेभ्यः सर्वेभ्यो दीयते त्वया ॥२१८ ।। एकाकिनेऽपि तच्छेष्ठिन् ! यच्छ स्वच्छमना हि मे । स्नेहलोभेन यन्नूनमुच्छिष्टमपि भुज्यते ॥ २१९ ॥ दीनारकोटिमादास्ये वर्षे नैतत्तथापि ते । दशसहस्रान् दास्यामि कुरु पश्चाद्यथोचितम् ॥ २२० ।। कुमारोऽथाह मे तात ! राया कार्य न किञ्चन । दचा भाटकमप्येतत् (प)किंत्वेष्यामि त्वया समम् ॥ २२१ ॥ श्रेष्ठिनाप्योमिति प्रोक्ते यानारूढश्चचाल सः । प्राप्तानि बब्बरद्वीपे यानपात्राण्यपि क्षणात् ॥ २२२ ॥ महाकालाभिधस्तत्र नृपो भूरिबलान्वितः । श्रेष्ठिनं समुपागत्य वस्तुशुक्लममार्गयत् ।। २२३ ।। अददानोऽथ तं श्रेष्ठी युद्धाय प्रगुणीभवन् । समं भटायुतेनापि जितो बद्धश्च तत्क्षणात् ।। ६२४ ।। अत्रान्तरे कुमारोऽपि श्रेष्ठिनं प्राह भो! वद । क्व गतास्ते भटा ? येभ्यः कोटिदत्ता तदा त्वया ॥ २२५ ।। अद्यापि तव सर्वस्वं तदितो वालयाम्यहम् । यदार्द्धमपि दत्से मे सोऽपि तत्प्रतिपन्नवान् ॥ २२६ ।। कुमारोऽपि ततः खड्गचापतूणीरभृत्स्वयं । बड्वा नृपं महाकालमानिन्ये श्रेष्ठिसन्निधौ ॥ २२७ ॥ बन्धान्मुक्तोऽथ धवलो नृपघातार्थमुत्थितः । शरणागत इत्युक्त्वा कुमारस्तं न्यषेधयत् ॥ २२८ ।। मप्टेन श्रेष्ठिनाथैते वृत्तिभङ्गानिराकृताः । कुमारेन्द्रस्य सेवायै सुभटाः समुपागमन् ॥ २२९।। स्वभागागतयानेषु नियुक्तास्तेन ते पृथक् । सच्चक्रे च महाकालनृपं बन्धाद्विमोच्य सः ॥२३० ।। महाकालोऽपि तं पुण्यश्लोकं नीत्वा निजे पुरे । वसनाशनभूषाद्यैः सत्कृत्येति जगाद च ।। २३१॥ कुमारेन्द्र !
१' राया 'लक्ष्म्या ।
FASEARCARE
Page #19
--------------------------------------------------------------------------
________________
त्वदायत्तं राज्यं प्राणाः श्रियोऽपि मे । तथापि यासौ मदनसेना नाम्ना ममाङ्गजा ॥२३२॥ प्रसौनां स्वयं (स्वीय) पाणिग्रहणेन कृतार्थय । तन्निबंधात्कुमारोऽपि सद्यः परिणिनाय ताम् ॥२३३।। महाकालोऽपि भूपालः स्वजामात्रे ततो ददौ । गजाश्वरत्नकोशाढ्यं स्वर्णादि करमोचने ॥ २३४ ॥ नवनाटकं वस्त्रालंकाररत्नादिभिर्भूतम् । महायानं चतुःषष्टिकूपस्तंभयुतं तथा ॥२३५॥ कुमारेन्द्रोऽपि सामग्र्यां प्रगुणायां ततोऽचलत् । रत्नद्वीपं च सम्प्राप्य तस्थौ वारिनिधेस्तटे ।। २३६ ॥ पश्यनाट्यविधिं यावदासीनोऽस्ति कुमारराट् । तावत्तत्रागतः कोऽपि पुरुषो वररूपभाक् ॥ २३७ ।। विसृज्य नाटकं पृष्टः कुमारेन्द्रेण सोऽञ्जसा । कस्त्वं ? कुतः समेतोऽसि ? वदाश्चर्य च किंचन ।। २३८ । सोऽप्याह रत्नद्वीपेऽत्र रत्नसानुनगोत्तमे। सद्रत्नसंचयापुर्यां नृपो. ऽस्ति कनकध्वजः ॥ २३९ ॥ चतुर्णां तस्य पुत्राणामुपर्येका सुताभवत् । नाम्ना मदनमञ्जूषा जिनधर्मैकनिश्चया ।। २४०॥ नृपोऽन्यदा जिनगृहे निजपूर्वजकारिते । श्रीयुगादिजिनं नन्तुं परिवारयुतोऽप्यगात् ॥ २४१ ॥ विरचय्य महापूजां जिनस्य नृपपुत्र्यपि । सानन्दा वन्दते देवान् जिनध्यानपरायणा ।। २४२ ॥ नृपोऽपि तत्कृतां पूजां वीक्ष्य विस्मितमानसः । दध्यौ जिनेन्द्रपूजायां कीदृगस्या हि कौशलम् ॥ २४३ ।। यथावदनुरूपोऽस्या वरः कश्चन संभवेत् । तदा चिन्तासमुद्रस्य प्राप्नुयां पारमध्यहम् ।। २४४ ॥ इति चिन्तयतो राज्ञः कुमारी गर्भगेहतः । यावनिर्याति तावत्तकपाटयुगलं तथा ॥ २४५ ॥ अमिलद्वलयुक्तेनाप्युद्धाट्यते न वै यथा । कुमारी स्वकृतां पूजामपश्यन्ती रुरोद च ॥ २४६ ॥ नृपोऽपि दध्यौ दोषोऽयं ममैव यजिनालये । वरचिन्ताकृते शून्यमनाः क्षणमहोऽभवम् ।। २४७॥ ध्यात्वेति शासनसुरीप्रसादनविधौ नृपः। उपवासत्रयं चक्रे धृपोत्क्षेपपुरस्सम् ।। २४८ ॥ तृतीयस्मिन्नेव दिने चिन्ताचान्ते नृपे निशि । सहसा दिव्यवाण्येवं प्रादुरासी जिनौकसि ॥२४९॥
Page #20
--------------------------------------------------------------------------
________________
भोपाल
चरित्रम्.
ACCA%ARORSC3%
यथा--दोस न कांई कुमरी इह नरवर दोस न कोई। जिण कारणिं जिणहर जडिओ तं निसुणउ सहु कोइ ॥ २५० ॥ जसु नर दिठइ होइसे जिणहरमुक्कदुवारु । सोइज मयणमंजूसिय होइसइ भरतारु ॥ २५१ ॥ सिरिरिसहर ओलगणी हुं चक्केसरी देवी । मासाभिंतर तसु नरह आणिसु निच्चल मेवी ॥ २५२ ॥ यदृष्ट्या जिनगेहस्य द्वारमुटयिध्यति । ध्रुवं मदनमञ्जूषायोग्यो भावीवरोऽप्यसौ ॥ २५३ ।। श्रीमद्युगादिनाथांहिभक्ता चक्रेश्वरी जगौ । मासान्तस्तमिहानेष्ये विधेया नाऽधृतिस्ततः ॥ २५४ ।। तद्द्वारोद्घाटने सर्वैरपि यत्नो विनिर्ममे । स च सर्वोऽपि संजातोस्त्यवकेशीव निष्फलः ॥ २५५ ॥ पुरुषोत्तम! तच्चेत्त्वं द्वारमुद्धाटयिष्यसि । ध्रुवं चक्रेश्वरीवाणी तन्मासान्तर्मिलिष्यति॥२५६॥ तदाकर्ण्य कुमारोऽपि तत्रागात्सपरिच्छदः। दृष्टे तस्मिन् झटित्येव द्वारमुजघटेऽथ तत् ॥२५७।। ततः सर्वेऽपि सन्तुष्टा नृपामात्यादयो जनाः। नत्वा कुमारं पप्रच्छनिजवंशाभिधादिकम् ॥२५८॥ स्वमुखेन स्ववंशादिवर्णनं क्रियते कथम् ? । इति स चिन्तयामास चारणर्षिस्तदागमत् ॥२५९|| तं वन्दित्वा नृपायेषु निषण्णेषु यथाक्रमम् । चारणश्रमणश्चक्रे देशनां क्लेशनाशिनीम् ।। २६० ॥ धर्मः सम्यस्वमूलोऽयं तत्तु तत्त्वत्रयात्मकम् । सद्देवगुरुधर्माश्च तत्त्वानीति विदुर्जिनाः ॥ २६१ । प्रत्येकं तेऽथ विज्ञेयाः क्रमाद् द्वित्रिचतुर्विधाः । अर्हत्सिद्धभेदभिन्न देवतत्त्वं प्रकीर्तितम् ॥२६२॥ गुरुतत्त्वेऽपि भेदाश्चाचार्योपाध्यायसाधवः । धर्मोऽपि दर्शनज्ञानचारित्रसत्तपोऽभिधः ॥ २६३ ॥ यदेतेष्वेव नवसु दृष्टिवादोऽप्यवातरत् । तद्भक्त्याराधनीयानि पदानि तानि सर्वदा ॥ २६४ ॥ एतदाराधनात्कान्तिकीर्तिसौभाग्यसिद्धयः । इहलोकेऽपि जायन्ते श्रीपालस्येव निश्चितम् ॥२६५।। राजापृच्छन्मुने! कोऽयं ? श्रीपालोऽनेन वा कथम् ? । सिद्धचक्रं समाराध्य प्राप्तमत्रैव सत्फलम् ॥ २६६ ॥ तं नृपावं समाचख्यौ मुनिः स्वकरसंज्ञया ।
॥८
Page #21
--------------------------------------------------------------------------
________________
तद्वत्तमपि चाशेष नृपपृष्टो मुनिर्जगौ ॥ २६७ ॥ श्रुत्वा तत्कुलनामादि विशेषाद् हृष्टमानसः । नृपः प्रदत्तवांस्तस्मै कुमाराय निजां सुताम् ॥ २६८ ॥ नृपप्रदत्तावासेऽथ प्रियाद्वययुतः स्थितः । सिद्धचक्रस्मृतिं कुर्वन् सुखमास्ते कुमारराट् ॥ २६९ ।। अन्यदा स्थानमासीनं नृपं कोऽपि व्यजिज्ञपत् । एकेन सार्थपेनात्र शुल्कं भग्नं विभो ! तव ।। २७० ॥ स चापराधी बद्धोऽस्ति दण्डः कोऽस्य विधीयते । सोऽपि भ्रक्षेपमात्रेण तं वधाय समादिशत् ।।२७१।। एवमश्रद्दधानेऽथ कुमारे भूपतिस्तकम् । यावदानाययत्तावत्स कुमारेण लक्षितः ॥ २७२ ॥ धवलश्रेष्ठिनं तं स नृपादेशादमोचयत् । सापराधेष्वपि प्रायः साधवः स्युर्दयापराः ॥ २७३ ॥ कियतोऽथ दिनान् स्थित्वा कुमारः श्वशुरालये । धवलश्रेष्ठिना युक्तश्चचाल स्वपुरं प्रति ॥ २७४ ।। धवलोऽथ कुमारद्धिं पत्नीयुग्मं तथास्य च । दृष्ट्वा (च?) चलचित्तोऽभूत् किमकार्य हि लोभिनाम् ।।२७५।। सोऽपि तन्निजमाकूतं चतुर्मित्रैरमन्त्रयत् । त्रयः सुबुद्धिदास्तेऽथ धवलं प्रत्यबोधयन् ।। २७६ ॥ अन्यस्यापि न युज्येत धनस्त्रीहरणं नृणाम् । प्रभोस्तद्वाञ्छका ये तु ते स्वामिद्रोहपापिनः ॥२७७।। यद्यानचालनं यच्च महाकालाद्विमोचनम् । विद्याधरेन्द्राच्च सखे ! विस्मृतं किं तवाधुना ? ॥ २७८ ॥ एवंविधोपकारैककारिण्यपि नरोत्तमे । यद् द्रोहबुद्धिस्तन्नूनं पिशुनस्यैव लक्षणम् ।। २७९ ॥ अन्यच्च न त्वं धवलो लेश्यया कृष्णयानया । अतः परं तु नास्माकं त्वयाऽऽलापो हि युज्यते ॥२८०।। इत्युदित्वा त्रयोऽप्येते ययुर्निजनिजास्पदम् । वक्रस्वभावस्तुर्योऽथ श्रेष्ठिनः पार्श्वमाश्रितः॥२८१॥ उवाच च विपक्षा हि श्रेष्ठिन्नेते त्रयोऽपि ते । पश्याहं साधयाम्येष तत्क्षणात्तव चिन्तितम् ॥ २८२ ।। श्रेष्ठ्यप्युवाच सत्यं त्वं मदर्थ साधयिष्यसि । तथापि ब्रूहि मित्रात्र कोऽप्युपायो विधीयते ? ॥२८३॥ सोऽप्याह बद्धमञ्चऽस्मिन् गुणाधारेण मण्डिते । आरोप्यैनं गुणच्छेदात् पातयिष्य महार्णवे ॥२८॥
DRONACADERS
Page #22
--------------------------------------------------------------------------
________________
श्रीपाल -
॥९॥
ततस्त्वं नायको भावी स्त्रीणां श्रीणां च निश्चितम् । इत्युक्ते तेन तत्कार्यं श्रेष्ठी सिद्धममन्यत ।। २८५ ।। अथान्यदा कौतुकार्थं तमारो प्योच्चमञ्चके । तेन कूटप्रयोगेण पातयामास सोऽम्बुधौ ॥ २८६ ॥ निपतन् सहसा सोऽप्यर्हदादीन् ध्यायति स्म च । तत्प्रभावान्मीनपृष्ठे स्थितः कौंकणमाप्तवान् || २८७ ॥ कस्मिन्नपि वने तत्र चम्पकाख्यतरोस्तले । सुप्तो जजागार यावद्ददर्श परितो भटान् || २८८ ॥ तैर्विज्ञप्तं विभो ! स्थानाभिधानपुरवासिना । वसुपालनृपेणामी त्वत्कृते प्रेषिता वयं ।। २८९ ।। यदस्माभिस्त्वमेवात्र यथोक्तगुणशोभितः । दृष्टोऽसि तत्समागच्छ समारुह्य तुरंगमम् ।। २९० ।। तत्र प्राप्तः कुमारोऽपि सर्वारोपितविस्मयः । अभिगम्य नृपेणापि दानमानैश्च पूजितः || २९१ ॥ उक्तवानेकदा प्राप्तः कश्चिनैमित्तिकाग्रणीः । पुत्र्या मदनमञ्जर्याः पृष्टश्च वरहेतवे ॥ २९२ ॥ तेनोक्तं सितवैशाखदशम्यां जलधेस्तटे । छायातरुतले सुप्तः सोऽस्या भावी ध्रुवं वरः ॥ २९३ ॥ आनीतोऽस्येतदर्थं तत् पुत्र्याः पाणिग्रहं कुरु । इत्युदित्वा नृपश्चक्रे विवाहं वरकन्ययोः ॥ २९४ ॥ देशग्रामपुरादीनि ददतोऽपि नृपादसौ । स्थगीधरपदं स्वस्य सम्प्रार्थ्य लब्धवांस्ततः ।। २९५ ।। इतश्च धवलश्रेष्ठी सांयात्रिकनृणां पुरः । हा दैव ! किं त्वया चक्रेऽस्मत्प्रभोरीदृशी दशा ॥ २९६ ॥ वदमेवं शुचाक्रान्तो हृदयं कुड्ट्टयन् भृशम् । विललाप स भूयोऽपि लोकप्रत्यय हेतवे ॥ २९७ ॥ तच्छ्रुत्वा मदने हाहारवं भूमौ निपेततुः । कथंचिल्लब्धचैतन्ये स्वोरस्ताडं विलेपतुः ॥ २९८ ॥ धवलोऽपि तदागत्यावदन्मधुरया गिरा । भद्रे ! मा कुरुतं खेदं शोच्यते न मृतं गतम् ॥ २९९ ॥ स तावद्युवयोः स्वामी युवां मुक्त्वा गतो यदि । तथा पुनरप्येषोऽहं भावी वां प्राणवल्लभः ।। ३०० ।। इति श्रुतिकटुप्रायं वाक्यमाकर्ण्य दुःश्रवम् । विशेषाद् दुःखभाजिन्यौ दध्यतुर्मनसीति ते ।। ३०१ ।। ध्रुवमेतेन पापेनाकार्यकार्यमिदं यतः । भुज्यते यादृगुद्द्वारस्तादृक्ष एव निश्चितम् ॥ ३०२ ॥
चरित्रम्.
118 11
Page #23
--------------------------------------------------------------------------
________________
| चिन्तयन्त्योरित्यनयोर्यजातं तनिशम्यताम् । क्षणाजलेनोल्ललितं पवनेन च जृम्भितम् ॥ ३०३ ।। उन्नतं मेघमालाभिद्योंतितं विद्युतापि च । प्रसृतं घोरतमसा रौद्रशब्दैः समुत्थितम् ।।३०४ ॥ प्रवृत्तं चाट्टहासेनेत्युत्पाताः शतशोऽभवन् । तद् दृष्ट्वा धवलः श्रेष्ठी भयभ्रान्तमना अभूत् ।। ३०५ ॥ उच्चैः कोलाहलाक्रान्ते सांयात्रिकजने तदा । चक्रेश्वरी प्रादुरासीत्सच्चक्रं बिभ्रती करे ॥ ३०६ ।। तदादिष्टः क्षेत्रपालस्तं दुर्बुद्धिप्रदायकम् । उद्भध्य कूपस्तम्भेऽथ गतासुं चक्रिवान् क्षणात् ।। ३०७ ॥ धवलो भयभीतः सन् स्त्रियोः शरणमाश्रितः । मा कार्षीः पुनरित्युक्त्वा विमुक्तश्चक्रयाप्यसौ ॥ ३०८ ॥ अथो जगाद मदने प्रीता चक्रेश्वरी सुरी । मासान्ते बहुलक्ष्मीयुक् सङ्गमेष्यति वां पतिः ॥ ३०९॥ न कार्यस्तन्मनाक खेदो मनसीति निगद्य सा । कल्पवृक्षस्रजं कंठेऽक्षिपन्मदनयोस्तयोः ।। ३१० ॥ अस्या स्रजोऽनुभावेन दुष्टा दृक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाचक्रेश्वरी सुरी ॥ ३११ ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुःस्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ ३१२ ।। अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् । लप्स्यसेऽनर्थसन्ततिम् ।। ३१३ ॥ अथाब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेष पुनरेवमचिन्तयत् ।। ३१४ ।। अहो ! पुण्योदयो यन्मे स्वायत्ता श्रीरसावभूत् । मन्येते चेत्स्त्रियौ मां तत् सौभाग्योपरि मञ्जरी ॥ ३१५ ॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भसिता ताभ्यां ततः स्वयमगादसौ ।। ३१६ ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुट्टयित्वा स दासीभिस्तावनिर्वासितो गृहात ॥ ३१७ ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौंकणं तटम् ॥ ३१८ ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥३१९॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् ।
40CANCHOCACCCCCACANCECASCAMER
Page #24
--------------------------------------------------------------------------
________________
श्रीपाल -
॥ १० ॥
चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ ३२० ॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः १ सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वज्राहतोऽभवत् || ३२१|| नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं ययौ । मातङ्गानां कुलं तावत् तत्रागाद् गानहेतवे ॥ ३२२ ॥ चिन्तातुरो यावदसावेभ्यः किंचिद्ददाति न । तावतैर्गदितं स्वामिन् ! किं रुष्टोऽस्मासु वर्त्तसे १ ।। ३२३ ।। अथाकार्य रहस्येकं श्रेष्ठी मातंगमूचिवान् । हंसि केनाप्युपायेन नृपजामातरं यदि ॥ ३२४ ॥ वितरामि तदा नूनं सर्वं त्वन्मुखमार्गितम् | गृहाण कार्यसिद्ध्यर्थमर्द्धलक्षमितं धनम् || ३२५ || प्रतिपद्य तदेषोऽपि सकुटुम्बो नृपान्तिके । चक्रे गानं नृपोऽप्यस्मै स ताम्बूलमदापयत् ।। ३२६ ।। तदैका वृद्धमातंगी कुमारगलकन्दले । लगित्वा कुत्र पुत्र ! त्वमित्युक्त्वा व्यलपद्धहु ॥ ३२७॥ हा वत्स ! कियतः कालान्मिलितोऽसि ममाधुना । कुत्र भ्रान्त इयत्कालं ? शोधितोऽसि पदे पदे || ३२८|| मातंगोऽप्यवदत्स्वामिन् ! लघुभ्राता ममासकौ । युष्मत्पार्श्वस्थितः सम्प्रत्यस्माभिश्चोपलक्षितः || ३२९ ॥ एकाड्वोचन्मम भ्राता भ्रातृव्योऽस्यपराऽवदत् । देवरोऽस्यपरोवाच पुण्यैः प्राप्तोऽसि साम्प्रतम् ||३३०|| दध्यौ नृपो हहानेन कुलं मम कलङ्कितम् । तदेष कुत्र हन्तव्यः पापभाजां शिरोमणिः ॥ ३२९॥ नृपौ नैमित्तिकं प्राह किमयं दुर्मते ! त्वया । मातङ्गो न ममाख्यातस्तद्वध्योऽसि त्वमप्यरे || ३३२ || नृपं नैमित्तिकोऽवोच मातङ्गो नैष नाथ ! हे। किंतु मातङ्गनाथोऽयं भविष्यति न संशयः ।। ३३३ || गाढं रुष्टो नृपोऽप्येतौ वधार्थं यावदादिशत् । व्यजिज्ञपदिदं तावन्नृपं मदनमञ्जरी ||३३४|| आचारेण कुलं ज्ञेयमिदं लोकेऽपि गीयते । लोकोत्तरस्तदाचारः कोऽप्यपूर्वोऽत्र दृश्यते ॥ ३३५ ॥ नृपः प्राह कुमारं भोः ! प्रकाशय निजं कुलं । सोऽप्याचख्यौ जलं पीत्वा गृहं किं पृछयते १ नृप ।। ३३६ ।। सैन्यं सञ्जय यथा मे जौ निगदतः कुलम् । स्वजिह्वया स्ववंशस्य वर्णनं यत् त्रपाकरम् ||३३७|| यद्वा प्रवहणान्तःस्थे आनीय
चरित्रम् .
॥ १० ॥
Page #25
--------------------------------------------------------------------------
________________
वनिते मम । कुलं पृच्छ क्षमानाथ ! यदि ते संशयोऽरत्ययं ॥ ३३८ ॥ पप्रच्छ धवलं राजा त्वद्याने वनितायुगम् । किमस्ति सोऽपि विच्छायस्तत्क्षणान्यग्मुखोऽभवत् ॥ ३३९ ॥ नृपादिष्टैनरैस्ते द्वे आनिन्ये तत्क्षणादपि । अप्येते निजभर्तारं वीक्ष्य स्वान्ते जहर्षतुः॥३४०॥ अथ पृष्टा नरेन्द्रेण विद्याधरसुता जगौ । कुमारचरितं सर्व जगदाश्चर्यकारकम् ॥३४१॥ राजा प्रोवाच तन्नूनं ममैव भगिनीसुतः। सकुटुम्बोऽपि मातङ्गो राज्ञा रुष्टेन ताडितः ॥३४२॥ सोऽप्याह सर्वमप्येतत्सार्थवाहेन कारितम् । अस्माभिर्धनलोभान्धस्तत्प्रभो ! क्षम्यतामिदम् ॥३४३॥ रुष्टो नृपः श्रेष्ठिनं तं वधाय समुपादिशत् । कुमारोऽमृमुचत्तं च सन्तः सर्वत्र सकृपाः ।। ३४४॥ मातगाधिपतां पृष्टः राज्ञा नैमित्तिकोऽवदत् । मातङ्गा हस्तिनस्तेषामधिपोऽयं भविष्यति ॥३४५।। ततो विसृष्टः सत्कृत्य नैमित्तिकशिरोमणिः । जामातरं च जामेयं श्रीपालं बह्वमन्यत ॥ ३४६ ॥ कुमारोऽप्येष धवलं नीत्वा निजनिकेतने । स्वगेहचन्द्रशालायां स्थापयामास मानदः ॥ ३४७ ॥ तत्र सुप्तोऽन्यदा रात्रौ स तद्धातं विचिन्तयन् । आरुह्य सप्तमी भूमिं यावद्घातार्थमुद्यतः ॥ ३४८ ॥ तावत्तदुत्थपापेन पातितः प्राप पापभाक् । विहाय सप्तमी भूमि सप्तमी नरकावनिम् ॥३४९॥ लोकोऽपि तं तथावस्थं प्रातर्वीक्ष्य मिथोऽवदत् । नूनमत्युग्रपापानां फलमत्रैव दृश्यते ॥ ३५० ॥ यञ्चिन्त्यते परस्मिन् हि तत्स्वस्यैवाधिगच्छति । कुमारे चिन्तितो द्रोहः श्रेष्ठिन्येव यथाभवत् ।। ३५१ ॥ तच्चरित्रं कुमारोऽपि ध्यायन् शोकात्सगद्गदः । तत्प्रेतकृत्यं कृत्वाथ ददौ तस्मै जलाञ्जलिम् ।।३५२॥ धवलस्य च त्रयो येऽभूवन् सद्बुद्धिदायकाः। सर्वश्रीणां कुमारेण तेऽधिकारे नियोजिताः॥ ३५३ ॥ कुमारोऽथान्यदा राजपाटिका) विनिर्गतः । सार्थवाहं पुरः कश्चिद् दृष्ट्वा पप्रच्छ चेति तम् ॥ ३५४ ॥ कुतस्त्वमागतः ? कुत्र गमिष्यसि ? च सार्थप ! नानादेशभ्रमात्प्राप्तमाश्चयं ब्रूहि किंचन
Page #26
--------------------------------------------------------------------------
________________
श्रीपाल -
॥ ११ ॥
॥ ३५५ || सोऽप्याख्यदागतः काञ्चयाः कम्बुद्वीपं व्रजामि च । दृष्टं यदन्तराश्चर्यं तत्कुमार ! निशम्यताम् ||३५६ ।। इतोऽस्ति योजनशते कुण्डलाख्यपुरे नृपः । मकरकेतुस्तद्राज्ञी कर्पूरतिलकाभिधा ।। ३५७ ।। तयोर्बहुषु पुत्रेषु सुताऽभूद्गुणसुन्दरी । सा च सर्वकलादक्षा वीणावाद्ये विशेषतः ॥ ३५८ ।। प्रत्यज्ञासीदिदं सा चान्यदा वीणाविधौ हि माम् । विजेता वरणीयो यः स एव हि वरो मया ।। ३५९ ।। तच्छ्रुत्वा तत्र सम्प्राप्ता राजपुत्रा अनेकशः । वीणाभ्यासं प्रकुर्वन्ति तत्पाणिग्रहहेतवे || ३६० ॥ परं न जीयते केनाप्यसौ वीणाविशारदा । त्वं चेजेष्यसि राजंस्तां तत्तवैव भवित्र्यसौ । ३६१ ॥ इत्याकर्ण्य कुमारोऽपि दिदृक्षुस्तत्कुतूहलम् । कृत्वा नवपदध्यानं यावत्सुप्तोऽस्ति तावता ॥ ३६२ ॥ सौधर्मवासी श्री सिद्धचक्राधिष्ठायकः सुरः । विमलेशः समागत्य कुमारं प्रत्यदोऽवदत् ॥ ३६३॥ इच्छाऽकृतियोंमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तदसुं गृहाण || ३६४ ॥ वदन्नेवं कुमारस्य कण्ठे हारं निवेश्य सः । स्वस्थाने ऽगात्कुमारोऽपि तत्क्षणात्कुंडलं पुरम् || ३६५ || कृतवामनरूपोऽसौ हारस्यास्य प्रभावतः । वीणाभ्यासं प्रकुर्वाणः कं कं हासयति स्म न ? ॥ ३६६ ॥ तत्राथ लेखशालायामभ्यस्यन्ति नृपाङ्गजाः । वीणावाद्यं च सोऽप्येषां मध्येऽभ्यासं करोति च ।। ३६७ ।। उपाध्यायं वशीकृत्य वीणामादाय वादयन् । तत्तन्त्रीं त्रोटयामास स्फोटयामास तुम्बकम् || ३६८ ।। वैपरीत्येन गृह्णश्च वीणां हास्यं प्रवर्द्धयन् । जनैर्निवार्यमाणोऽपि तां क्रीडां स मुमोच न ।। ३६९ || प्रतिमासं सदस्येते स्वं स्वं वीणासु कौशलम् । नृपाङ्गजायाः पुरतो दर्शयन्ति नृपाङ्गजाः ॥ ३७० ॥ गच्छत्सु तेषु सर्वेष्वेकदा तत्रैव वामनः । लोकैर्विहस्यमानोऽपि कुमार्याः पुर आगमत् || ३७१ || स्वरूपदर्शनेनासौ कुमार्या रागमुत्कटम् । वामनत्वेन लोकानां हास्यमेवमवीवृधत् ||३७२ ||
चरित्रम्
॥ ११ ॥
Page #27
--------------------------------------------------------------------------
________________
तथासौ तत्र वीणाया दर्शयामास कौशलम् । राजपुत्रीमुखः सर्वः परिवारोऽपि व्यस्मयत् ॥३७३।। अथ पूर्णप्रतिज्ञाऽसौ कुमारी गुणसुन्दरी । वृणुते स्म कुमारं तं जगत्सारं तनुश्रिया ॥३७४।। चिन्तयन्ति नृपाद्यास्ते वामनोऽयं हहा ! वृतः । तावत्कुमारः स्वं रूपं तेषामेषोऽप्यदीदृशत् ॥ ३७५ ।। तद्रपदर्शनात्तुष्टस्तस्मै कन्यां नृपोऽप्यदात् । रत्नस्वर्णादिदानं च चकार करमोचने ॥३७६॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥३७७।। देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥३७८|| अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याकारिताः सन्ति शतसंख्या नरेश्वराः ॥३७९|| शुत्रिशुक्लद्वितीयायां लग्नं कल्ये च तदिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण तत्पुरम् ।।३८०॥कुन्जं वीक्ष्य नृपाःप्रोचुः किमर्थं त्वं समागतः। सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥३८१।। इत्थं नानाविधैर्वाक्यसियामास तानयम् । अत्रान्तरे नृपसुताप्यारुह्य शिविकां वराम् ।।३८२।। दधाना वाससी शुभ्रे स्वर्णरत्नविभूषणा । समागाद्विभ्रती पाणी स्वयंवरणमालिकाम् ॥३८३॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राजसु। स्वरूपस्थं कुमार तं दृष्ट्वासौ मुमुदेतराम् ॥३८४॥ अत्रान्तरे शालभंजीवदनाद्धारदेवता । प्राह विज्ञासि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥३८५ ।। यदि धन्यासि विज्ञासि जानासि च गुणान्तरम् । तदेनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् ।।३८६॥ तच्छ्रुत्वा कुब्जरूपोऽपि | वृतो यावत्तदैतया । उदायुधा नृपास्तावत्तं कुब्जं पर्यवेष्टयन् ।। ३८७ ।। क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तद् दृष्ट्वा वज्रसेनोऽपि कुब्जकं तमदोऽवदत् ।। ३८८ ।। त्वया यथा कुमारेन्द्र ! प्रादुश्चक्रे निजं बलम् । तथा रूपमपि स्वीयं प्रकाश्यास्मान् प्रमोदय ॥ ३८९ ॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाङ्जाम् । दवा प्रधानाऽऽवसथे स्थापयामासिवांश्च
Page #28
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
॥१२॥
*CREA4%AC
RAMECHASRECHAR
तम् ॥ ३९० ॥ अन्यदाथ नरः कोऽपि सदः प्राप्य जगावदः । देव ! दलपत्तनेऽस्मिन धरापालाभिधो नृपः ॥३९१॥ तत्पुत्री जिनधर्मैकचित्ता शृङ्गारसुन्दरी। प्रत्यज्ञासीत्पुरः पंचसखीनामिति सान्यदा ॥ ३९२ ।। घृणोमि जिनधर्मज्ञमेव नान्यं वरं हलाः ।। ऊचुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ ३९३ ।। ततः सनीपञ्चकेन समस्यापञ्चकं ह्यसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ ३९४ ॥ तच्छ्रुत्वागात्कुमारस्तत्पुरं हारप्रभावतः। शालभंजिकया सद्यः समस्या अप्यपूरयत् ॥ ३९५ ॥ ___तद्यथा-'मणवंछियफलहोइ' । अरिहंताइ नवपय नियमणु धरे जु कोइ । निच्छइ तसु नरसेहरह मणुवंछियफल होइ ॥ ३९६ ॥ द्वितीया प्राह-अवर म झंखो आल' । अरिहंत देव सुसाधु गुरु धर्म ते दयाविशाल । मंत्तुत्तमनवकारवर अवर म झंखो आल ॥ ३९७ ।। तृतीया स्माह-करि सफलं अप्पाण' । आराहवि देवगुरु दिउ सुपत्त दाण । तबसंयमउवयार करि करि सफलु अप्पाण ॥ ३९८ ॥ चतुर्थी प्राह-'जित्तउ लिखिउ निलाडि ' । अरे मण अप्पा खंचिधरि चिंताजाल म पाडी । फल तित्तउ पामीए जित्तो लिखिउ निलाडि' ॥३९९॥ पंचमी प्राह-'तसु तिहुयण जण दास'।
अन्नभवंतरसंचिउं पुण्ण सुनिम्मल जासु । तमु बल तसु सिरि तसु जस तसु तिहुयण जण दास ॥ ४० ॥ | पूरितासु समस्यासु पूर्णसन्धा कुमार्यपि । तत्कण्ठपीठे दक्षासौ चिक्षेप वरमालिकाम् ॥ ४०१॥ इतश्च मागधः X कोऽपि सभायामेवमूचिवान् । देव ! कोल्लाकनगरे पुरन्दरनृपोऽस्ति यः ॥ ४०२ ॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञातमिदं PI किल । राधावेधविधौ दक्षो बरो मे नापरः पुनः ।। ४०३ ॥ राज्ञा च सर्वसामग्री कृत्वाहूता नृपाङ्गजाः। परमेके
%545
Page #29
--------------------------------------------------------------------------
________________
न केनापि राधावेधो न निर्मितः ॥ ४०४॥ कुमारोऽप्येतदाकर्ण्य कर्णामृतसमं वचः। प्राप्य कोल्लाकनगरं राधावेधं चकार च ॥ ४०५॥ वृतोऽथ जयसुन्दर्या कुमारो माररूपभाक् । महामहेन भूपोऽपि विवाहं कृतवांस्तयोः ॥ ४०६ ॥ तत्र स्थितमथ ज्ञात्वा कुमारं मातुलो नृपः । जामातरं स्वं सुप्रीत आजुहाव निजं पुरं ॥ ४०७ ॥ स्थित्वा तत्र कियत्कालं तत्रानाय्य निजाः प्रियाः । समातुलोऽपि श्रीपालश्चचालोजयिनी प्रति ॥ ४०८॥ आगच्छन्नंतरा सोपारका(नगरेशितुः। महसेननरेशस्य सुतां त्रैलोक्यसुन्दरीम् ॥ ४०९ ॥ दष्टां दुष्टाहिना हारप्रभावात्समजीवयत् । नृपाग्रहेण तां तत्र पर्यणेषीत्कुमारराट् ॥ ४१०॥ एवमष्टप्रियायुक्तः स्वमातुर्मिलनोद्यतः । सम्प्राप्य मालवं देशं निजसैन्यमवासयत् ।। ४११॥ परचक्रागमं श्रुत्वा मालवेशोऽपि तद्रयात् । विवेश दुर्ग सैन्येन परितः सोऽप्यवेष्टयत् ॥ ४१२ ॥
(आवासीए य सिन्ने रयणीए पढमजामसमयम्मि । हारप्पभावेण सयं राया जणणीगिहं पत्तो ॥१॥ आवासदुवारि ठिओ सिरिपालनरेसरो सुणइ ताव । कमलप्पभा पयंपइ वहुयं पई एरिसं वयणं ॥२॥ वच्छे! परचक्केणं नयरी. परिवेड्डिया समंतेणं । हल्लोहलिओ लोओ किं किं होही न जाणामि ॥ ३॥ वच्छस्स तस्स देसंतरम्मि पत्तस्स वच्छरं जायं । वच्छे ! कावि न लब्भइ अज्जवि सुद्धि तुह पियस्स ॥४॥ पभणेइ तओ मयणा मा मा माई ! किंपि कुणसु भयं । नवपयझाणम्मि मणे ठियम्मि जे हुंति न भयाई ॥५॥ जं अजंचिय संझासपए मह निणवरिंदपडिमाए । पूयंतीए जाओ कोइ अउच्चो सुहो भावो ॥६॥ तेणं चिय अञ्जवि मह मगमिनो माइं!आणंदो। निक्कारणं सरीरे खणे खणे होइ रोमंचो।। ७ ।। अनं च मज वामं नयणं वामो पयोहरो चेव । तह फंदइ जह मन्ने अजेव मिलेइ तुह पुत्तो॥८॥तं सोउणं कमलप्पभावि आणंदिया
Page #30
--------------------------------------------------------------------------
________________
भीपाठ
चरित्रम् .
॥१३॥
CHECHHOROS
भणइ जाव । वच्छे ! सुलखकणा तुह जीहा एयं हवउ एवं ॥९॥ ताव सिरिपाल राया पियाइ धम्मपि निचलमणाए। नाऊण सच्चवयणं दारंदारंति जंपेइ ॥ १०॥ कमलप्पभा पयंपइ नूणमिणं मज पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति ? ॥ ११ ॥ उग्घाडियं दुवारं सिरिपालो नमइ जणणिपयजुगलं । दइयं च वियणपउणं संभासइ परमपिम्मेणं ॥१२॥"
गत्वा पुर्यां कुमारेन्द्रः सद्यो हारप्रभावतः । आरोप्य स्कन्धयोर्मातृजाये शिबिरमागतः ॥ ४१३ ॥ नत्वा स मातुश्चरणौ स्ववृत्तमखिलं जगौ । मदनापि स्वजामीनामष्टानाममिलत्ततः॥४१४॥ अथ दूतमुखाहूतः पृथ्वीपालोऽपि साञ्जसम् । समागत्यो पदापाणिः श्रीपालनृपमानमत् ॥ ४१५ ।। अथ प्रणम्य पितरं मदनैवं व्यजिज्ञपत् । तात ! यः कर्मणा दत्तो वरः सोऽयं नृपोत्तमः ॥ ४१६ ॥ सौभाग्यसुन्दरीरूपसुन्दरीप्रमुखा अपि । स्वजनास्तत्र चाजग्मुस्तत्कौतुकदिदृक्षया ॥ ४१७ ॥ मिलितेषु ततः सर्वस्वजनेषु समादिशत् । नृपो नाट्यविधि मुख्या नोत्तिष्ठति नटी पुनः ।। ४१८ ॥ अथ नाटकिनां तेषां कथंचित्प्रेरणावशात् । दीर्घ निःश्वस्योत्थिता सा पद्यमेकमदोऽवदत् ॥ ४१९॥
किहां मालत्र किहां शंखपुर किहां बब्बर किहां नट्ट । सुरसुन्दरी नचावीयें पडो दैवशिर दट्ट ॥ ४२० ॥
श्रुत्वेति सर्वे साशङ्कास्तामपृच्छन्निजां कथाम् । सा आख्यन्मालवेशस्य सुताहं सुरसुन्दरी ॥४२१॥ पितृदत्तारिदमनकुमारेण समं तदा । परिणीय समागच्छमहं शंखपुरान्तिकम् ॥४२२॥ सुमुहूर्तकृते युष्मजामाता पूर्वहिःस्थितः । भट्टानां परिवारस्तु स्वं स्वं सदनमाप्तवान् ॥ ४२३ ।। अत्रान्तरे चौरपाटी पतिता बलवत्तरा । मुक्त्वा मामार्यपुत्रोऽसौ जीवं लात्वा प्रणष्टवान् ॥४२४॥ चौरैधृत्वाहं विक्रीता द्वीपे बब्बरनामके। महाकालनरेशेन वरनाट्यं च शिक्षिता ॥४२५।। तेनाप्यहं स्वजा
Page #31
--------------------------------------------------------------------------
________________
मात्रे दत्ता भूरिनटैः समम् । कुटुम्बं मिलितं मेऽद्य नृत्यन्त्यास्त्वत्पुरोऽधुना ॥४२६॥ तदा निजगुरुत्वाच मदनायाविडम्बनात् । चक्रे गर्वमिदानीं तु फलं भुजामि कर्मणः ॥ ४२७ ॥ एकैव सा महापुण्यवतीनां धुरि कीर्त्यते । ययात्मीयं कुलं शीलं सच्चरित्रैः पवित्रितम् ॥ ४२८ ॥ अहं पुनरधन्यानां प्रथमा कीर्तिता बुधैः । कुलशीले परित्यज्याभवं दुःखैकभाजनम् ॥४२९॥ अन्यच्च जिनधर्मोऽस्याः कल्पवृक्ष इवाफलत् । मिथ्याधर्मो मम पुनर्विषवृक्ष इवाभवत् ।। ४३० ॥ ततोऽरिदमनं भूपोऽप्याहूय सुरसुन्दरीम् । तस्मै प्रदत्तवान् सोऽपि मिथ्याधर्म त्रिधाऽत्यजत् ॥४३१॥ अथ सप्तशतीसंख्याः कुष्ठिनो मदनागिरा । गतरोगा भजन्ति स्म श्रीपालनृपशेखरम् ।। ४३२ ॥ अथायं पैतृकं राज्यं यावद्गन्तुमना अभूत् । मतिसागरमन्त्रीशस्तावदेत्य व्यजिज्ञपत् ॥ ४३३ ॥ बालोऽपि पितृपदे त्वं स्थापितोऽसि तदा प्रभो !। येन चोत्थापितो राज्यात् स ते शत्रुर्न संशयः ॥ ४३४ ॥ सति सामर्थ्ययोगे यः पैच्यं राज्यमुपेक्षते । स लोके हसनीयः स्यात् तत्पुनीहि निजां पुरीम् ॥ ४३५ ।। अथ तन्मन्त्रिवचसा ससैन्यः स कुमारराट् । विजित्याजितसेनं तं चम्पाराज्यं च लब्धवान् ॥ ४३६ । अथ प्रबोधमापनोजितसेननृपोऽपि सः। सच्चारित्रं समादायावधिज्ञानमवाप्तवान् ।। ४३७ ॥ अथ श्रीपालभूपोऽपि दत्त्वा तिस्रः प्रदक्षिणाः। प्रणम्य तं महाभक्या विज्ञप्तिमिति चातनोत् ॥ ४३८ ॥ भगवन् ! कर्मणा केन बाल्येऽपि मम तादृशः। देहे महामयो जातः? कर्मणा केन शान्तवान् ? ।।४३९।। स्थाने स्थाने चेहगृद्धिं कर्मणा केन लब्धवान् । केन मनोऽम्बुधौ ? केनान्त्यजत्वं चाहमाप्नुवम् ? ॥४४० ।। प्रसद्य भगवन् ! सद्यः संशयं मे निराकुरु । उदिते हि सहस्रांशी न तमो बाधते जमत् ॥ ४४१ ॥ अथ प्राहावधिज्ञानी शृणु श्रीपालभूपते । हिरण्यपुरमस्त्यत्र श्रीकान्तस्तत्र भूधवः ॥४४२।। सत्यशीलपवित्रांगी गंगेव सरलाशया । श्रीम
Page #32
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
॥१४॥
तीति प्रिया तस्य जिनधर्मैकमानसा ॥४४३॥ पापर्द्धिनिरतश्चाभूद्राजा संसर्गदोषतः । सान्यदा मधुरैर्वाक्यै भुजं प्रत्यबृबुधत् | ॥ ४४४ ॥ यथा-चैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । सदैव च तृणाहारा हन्यन्ते पशवः कथं ? ॥४४५॥ तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाश्च । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ ४४६ ॥
हतूण परप्पाणे अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए स नासेइ अप्पाणं ॥ ४४७॥ इति राजीवचोऽ. म्भोभिरप्यभिन्नमना नृपः । मृगयामगमत्सप्तशतवण्ठैः सहान्यदा ॥ ४४८ ॥ वीक्ष्य धर्मध्वजकर मुनिमेकं नृपोऽवदत् । कोऽप्येष चामरकरः कुष्ठिराजोत्र दृश्यते ॥ ४४९ ॥ नृपतुष्ट्यै अथोल्लुंठेवैठेतैर्दुष्टचेष्टितैः। उपद्रुतो मुनीन्द्रोऽसौ क्षमावॉल्लेष्टुयष्टिभिः ॥ ४५० ॥ यथा यथा ताड्यतेऽसौ मुनिरस्य तथा तथा । प्रावर्द्धिष्ट रसः शान्तो हासाह्वश्च नरेशितुः ॥ ४५१ ॥ भूयोऽप्येकं मुनि वीक्ष्य नदीकण्ठस्थितं नृपः। प्रेर्य शैवलिनीपके पातयामास निष्कृपः ।। ४५२ ॥ पुनः सञ्जातकारुण्यो मुनिमाकृष्य मुक्तवान् । को वेत्ति ? प्राणिनां भावपरावृत्तिं नवां नवाम् ॥४५३।। वृत्तान्तमेनमाचख्यौ स सर्व स्त्रीपुरः स्वकम् । सापि तं मधुरैर्वाक्यैर्नृपतिं प्रत्यबोधयत् ।।४५४॥ अन्येषामपि जन्तूनां पीडनं दुःखदायकम् । किं पुनस्तन्मुनिनां ? यद्घोरश्वभ्रफलप्रदम् ॥ ४५५ ॥ मुनिघातो हि जन्तूनां दीर्घसंसारकारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं यदागमे ॥ ४५६ ॥
चेइयदबविणासे इसिघाये पवयणस्स उड्डाहे । संजइचउत्थभंगे मृलग्गी बोहिलाभस्स ॥ ४५७ ॥
इति राजीवचः श्रुत्वा प्रबुद्धोऽथ धराधवः । निरवर्तिष्ट साधूपघातपातकपङ्कतः ॥४५८॥ पुनः सञ्जातवैरोऽयं कञ्चिद् दृष्ट्वा मुनि जगौ। रे रे निर्वास्थतामेष मातङ्गो मत्पुरान्तरात् ।। ४५९ ।। इत्यादिष्टा भटा यावन्मुनि निर्वासयन्ति तम् । ताव
॥१४॥
Page #33
--------------------------------------------------------------------------
________________
निर्भर्त्सयामास दृष्ट्वा तत् श्रीमती नृपम् ||४६०॥ अथ सानुशयो भूपोऽप्यानाय्य तमृषिं गृहे । निजागः क्षामयामास प्रणिपातपुरस्सरम् ||४६१ || श्रीमत्याथ मुनिः पृष्टो विभो ! अज्ञानभावतः । कृत्वोपसर्ग साधूनां राज्ञा यद् दुष्कृतं कृतम् ||४६२ || तत्पापशान्तये स्वामिन्नुपायं ब्रूहि कश्चन । कृतेन येन भूपोऽयं सद्यछुटति पातकात् ॥ ४६३ ॥ मुनिर्जगाद श्रीसिद्धचकाराधनमुत्तमम् । नृपः करोतु तत्सद्यः पातकाद्विप्रमुच्यते ||४६४ || ततस्तपोविधानादिविधिपूजापुरस्सरम् । श्रीमत्या सहितः सिद्धचक्रमाराधयन्नृपः ॥ ४६५ ॥ अन्वमोदि तपो राझ्या वयस्याभिस्तदाष्टभिः । प्रशंसितं क्षणं सप्तशतसंख्यैश्व सेवकैः ।। ४६६ ।। ते चान्यदा नृपादेशात् सिंहनामकभूभुजा । समं युद्ध्वा मृताः सप्तशतानि कुष्ठिनोऽभवन् ॥ ४६७ ॥ साधूपसर्गपापोत्थोऽमीषां कुष्ठामयोऽभवत् । श्रीकांतजीवस्तत्पुण्यप्रभावाचं नृपोऽभवः ।। ४६८ ॥ श्रीमत्या अपि जीवोऽयं जाता मदनसुन्दरी । जैनधर्मप्रभावेण सा राज्ञी च तवाभवत् ॥ ४६९ ।। यत्त्वया मुनिवर्यस्य विहिताशातना तदा । कुष्ठित्वं वापितनं मातङ्गत्वं ततोऽभवत् ॥४७०॥ यच्चैष ऋद्धिविस्तारस्तवासीदखिलोऽप्यसौ । प्रसादः सिद्धचक्रस्य परिस्फुरति निश्चितम् ||४७१ ॥ यत् श्रीमत्या सखीभिश्च कृता तदनुमोदना । तेन पुण्येन ते क्षुल्लपट्टदेव्योऽभवन्निमाः ॥ ४७२ ॥ धर्मप्रशंसया सप्तशतसंख्यैश्च सेत्रकैः । यत्कर्मोपार्जितेनैते सर्वे जाता निरामयाः || ४७३ || सिंहजीवस्त्वहं मासमेकं संपाल्य संयमम् । जातोऽस्म्यजितसेनाख्यः शैशवे तव राज्यहृत् ||४७४ || प्राग्भवाभ्यासयोगेन चारित्रमिह चाप्तवान् । सोऽहं प्राप्तावधिज्ञानो नरेशात्र समागमम् ॥ ४७५ ।। एवं च यादृशं येन कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तत्तेन खलु तादृशम् ||४७६ ॥ इत्याकर्ण्य कुमाsपि भावविस्मेरमानसः । प्राह संयमदानेन विभो ! तारय मां भवात् ॥ ४७७ ॥ अथोवाच मुनिर्भूपमुदयाद्भोगकर्मणः । भ
Page #34
--------------------------------------------------------------------------
________________
श्रीपाल
चरित्रम्.
वेऽस्मिन्नास्ति चारित्रं तव पुण्यवतां वर ! ॥४७८॥ किन्तु स्मरंस्त्वमेतान्यहंदादीनि पदान्यलम् । संप्राप्य नवमं स्वर्ग नवसंख्यान् भवानथ ॥४७९।। उत्तरोत्तरसौख्यात्यां प्राप्य स्वःसन्नृसंपदं । सिद्धिं च प्राप्यस्यसीत्युक्त्वा विजहार मुनीश्वरः ॥४८०॥ श्रीपालोऽप्यवनीपालः प्रियाभिनवभिर्युतः । सिद्धचक्रं समाराध्य विधिनोद्यापनं व्यधात् ॥४८१।। अथो भुवनपालाद्याः सुतास्तस्य नवाऽभवन् । राज्ये नव सहस्राणि तस्यासन् रथहस्तीनाम् ।।४८२॥ नवलक्षास्तुरंगाणां पत्तीनां नवकोटयः। नववर्षशतान्येवं न्यायाद्राज्यमपालयत् ।।४८३॥ संस्थाप्य राज्ये भुवनपालं नवपदी स्मरन् । समाधिमृत्युयोगेन नवमं कल्पमाप्तवान् ॥४८४॥ स्नुषाभिनवभिर्युक्ता समये तज्जनन्यपि । आयुःक्षयेण तत्रैव देवत्वेनोदपद्यत ॥४८५॥ ततश्युत्वा चतुः कृत्वाः प्राप्य सच्चाधिका अमी । देवत्वं मानुपत्वं च सम्प्राप्स्यन्ति शिवं क्रमात् ।।४८६॥ इत्येवं मगधेशस्य पुरः श्रीगौतमो विभुः। आख्याय विरतो यावत् तावत्कोऽपि नरेश्वरम् ॥४८७॥ सद्यो वर्धापयामास श्रीवीरागमनेन वै । श्रीश्रेणिकनृपोऽप्यस्य तुष्टिदानं व्यतीतरत् ॥४८८।। इति श्रीवीरनाथोऽपि पुनानः पृथिवीतलं । सुरासुरैः सेव्यमानस्तदुद्यानं व्यभूषयत् ॥४८९॥ समवसृतिमध्येऽथ रत्नसिंहासनस्थितः । व्यधत्त वीरनाथोऽपि देशनां कलेशनाशिनीम् ।। ४९०॥ ज्ञात्वा नृपस्य तं भावमर्हदादिपदावलीम् । श्रीवीरोऽपि समाचख्यौ भव्यानुग्रहहेतवे ॥४९१॥ श्रीसिद्धचक्रमाहात्म्यविषयां धर्मदेशनाम् । श्रुत्वा के के जना नासंस्तदाराधनतत्पराः ॥४९२॥ एषा नवपदध्यानवती श्रीपालसंकथा । शृण्वतां गदतां नृणां करोतु सुखसन्ततिम् ।।४९३॥ राकापक्षवलक्षपक्षविमलाः सद्वृत्तपुण्योज्वलाः शश्वच्छात्रसुधासमुद्रलहरीनिस्तन्द्रचन्द्रत्विषः । सूरिश्रीगुणसागराख्यसुगुरुप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोत्र गुणात्समुद्रगुरवो राजन्ति तेजःश्रिया ॥४९४॥ तत्पादद्वितयप्रसादवशतो वाग्देवताध्यानतो, दृब्धं पण्डि
10॥१५॥
Page #35
--------------------------------------------------------------------------
________________
तसत्यराजगणिना स्वात्मस्मृतेर्हेतवे । यावच्चन्द्रगभस्तिमेरुधरणीपाथोधराम्भोधयस्तावन्नन्दतु वाच्यमानमृपिभिः श्रीपालवृत्तं ह्यदः।। ४९५ ॥ श्रीविक्रमाद्विश्वतिथि(१५१४ )प्रमिते वत्सरे किल । प्राकृताब्धेः समुद्धृत्यानुष्टुब्बन्धेन निर्ममे ॥ ४९६ ॥ जयतात्तजिनेन्द्रस्य शासनं ये तथार्हतम् । धर्ममाराधयन्त्येते जयन्तु पुरुषोत्तमाः॥ ४९७ ॥ जयन्तु गुरवस्तेऽपि श्रुतपीयूषसिन्धवः । यदुपासनयाऽनर्घ्यरत्नत्रितयमाप्यते ॥ ४९८ ॥
SACRECORRECRACY
॥ इति श्रीसिद्धचक्रमाहात्म्योपरि ___ श्रीश्रीपालनृपचरित्रं संपूर्णम् ॥
Page #36
--------------------------------------------------------------------------
________________ इति श्रीश्रीपालचरित्रम् समाप्तम्।