________________
श्रीपाल
नाम्ना मदनसुन्दरीम् ॥ १५३ ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥ १५४ ॥ तकृत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्ध्वा समं दृष्टो ज्योत्स्नयेव सुधाकरः॥१५५।। तद्वत्स! सवधूकस्त्वं जय जीव सुखान्वितः । यावज्जीवं ममापि स्याच्छरणं धर्म आर्हतः ॥ १५६ ॥ इतश्च पुत्रीदुःखेन दुःखिताः रूपसुन्दरी । स्वभ्रातुः | पुण्यपालस्य गृहे तिष्ठति शोकतः॥१५७ ।। अथान्यदा जिनगृहे गता यावद्ददर्श सा । तावत्कुमारं तं जायाजननीभ्यां सम-18 न्वितं ॥ १५८ ।। उपलक्ष्य च पुत्रीं स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनान्येन चालगत् ॥१५९।। कुले कलङ्क आनीतो जिनधर्मश्च दूषितः । यया न तादृशं दुःखं सुतया मृतयतया ॥१६॥ यादृगीदृक्षवृत्तेन जीवन्त्यापि ममास्ति तत् । मत्कुक्षौ नापतद्वज्रं कथमेवं रुरोद सा ।। १६१ ॥ मदनापि जगौ मातः! कोऽयं हर्षपदे तव । विषादो येन जामाताऽप्येष तेऽभूनिरामयः ।। १६२ ॥ विकल्पो यश्च ते चित्ते मातर्जातोऽस्ति मय्यपि । उदेति पश्चिमां भानु| स्तथाप्येवं न संभवेत् ॥ १६३ ॥ उचे कुमारमात्रापि भद्रे ! मैवंविधं वद । त्वत्सुतायाः प्रभावेण सूनुर्मेऽभून्निरामयः |
॥१६४ ॥ कथमेवमथाचख्यौ मदनावृत्तमादितः । ततः कुमारजननीमवदद्पसुन्दरी ॥ १६५ ॥ लोकोत्तरगुणा भद्रे ! त्वत्सूनोविदिता मया । तथापि तत्कुलं श्रोतुं कर्गकौतूहलं मम ॥ १६६ ॥ साप्याख्यदंगदेशेऽस्ति चम्पानाममहापुरी । तत्र सिंहस्थो राजा तत्प्रिया कमलप्रभा ॥१६७ ।। तयोश्चिरेण पुत्रोऽभूत् श्रीपालो नामविश्रुतः । तस्मिन् द्विवर्षदेशीये नरनाथोव्यपद्यत ॥१६८॥ मतिसागरसंज्ञेन राज्यभक्तेन मन्त्रिणा। सद्यः श्रीपालबालोऽयं पैव्ये राज्ये निवेशितः ॥ १६९ ॥ तत्पितृव्यो जितसेनः कियत्स्वपि दिनेष्वथ । सैन्यभेदं विधाय स्वशिशोमन्त्रितवान् वधं ।। १७०।। ज्ञात्वा कुतोऽपि तन्मन्त्र्यऽकथ
ल्पो यथा । मदनापि जी" १६० ॥
ALANARRAHASAHERE