________________
AASARAGRAM
॥ १३५ ॥ साधर्मिकाणां वात्सल्यं ये कुर्वति नरोत्तमाः। श्रीमजिनेश्वरस्याज्ञा शिरस्यारोपिता हि तैः ॥ १३६ ॥ गुर्वादिष्टैस्ततस्तैरप्यानीयैतौ स्ववेश्मनि । स्थापयित्वान्नवस्त्राद्यैः सच्चक्राते प्रमोदिभिः॥ १३७ ॥ तत्र स्थितः कुमारोऽथ श्रद्धावान्मदनान्वितः । गुरुवाक्यासिद्धचक्रतपश्चक्रे यथाविधि ॥ १३८ ॥ अष्टाह्निकातपः कृत्वा नवमेऽथ दिने सुधीः । श्रीसिद्धचक्रस्नपनाम्बुभिः स्वाङ्गञ्च सिक्तवान् ॥ १३९ ॥ तेन शान्तिजलेनाप क्रमादुल्लाघतां वपुः । मणिमन्त्रौषधादीनामचिन्त्यो महिमा यतः ॥१४०॥ तं तथाविधरोगार्तमपि रूपश्रिया तदा । दृष्ट्वा देवकुमारामं चित्रपूर्णा न केऽभवन् ?॥१४॥ श्रीसिद्धचक्रमाहात्म्यमितिप्रत्यक्षमात्मनः । वीक्ष्य जैनमते रागं बबंधुर्निविडं जनाः ॥१४२॥ मदनाथ स्वनाथस्यालोक्य रूपं तथाविधं । प्राह प्रिय! प्रसादोऽयं सर्वोऽपि गुरुपादयोः ॥१४३॥ तादृग् नैवोपकुर्वन्ति मातृपित्रादयोऽप्यमी । निष्कारणदयापूर्णो गुरुर्यादृक् तु देहिनां ॥ १४४ ॥ कुमारो जिनधर्मस्य माहात्म्यमनुभूय तत् । जिनधर्मैकचित्तोऽभूत् फलैरेवोद्यमो यतः॥१४५॥ जिनं नत्वा जिन-13 गृहानिर्गच्छन्नन्यदा सकः । दृष्ट्वा कात्यायनी कांचिद्वनितां सहसाऽनमत् ॥१४६॥ अहो ! अनभ्रा वृष्टिर्मे जाता मातुर्विलोकनात् । वदत्यस्मिन्निति ज्ञात्वा श्वश्रू सापि ननाम ताम् ॥१४७॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति (दृश्यतामिति)॥१४८॥ साथ तद्वत्तमाकर्ण्य सहर्षा समभूभृशम् । शशंस स्वं च वृत्तांतमशेषमपि तद्यथा ॥ १४९ ॥ त्वां तथाविधरोगात वत्स! स्वच्छमते । तदा । गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि जग्मुषी ॥१५०।। दृष्ट्वा जिनगृहे कंचित्तत्र ज्ञानधरं मुनिं । अपृच्छं भगवन् ! सज्जः कदा मे भविता सुतः ॥१५१॥ मुनिनोक्तं तदा भद्रे! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्रभुः ॥१५२॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र