________________
भोपाल
चरित्रम्.
ACCA%ARORSC3%
यथा--दोस न कांई कुमरी इह नरवर दोस न कोई। जिण कारणिं जिणहर जडिओ तं निसुणउ सहु कोइ ॥ २५० ॥ जसु नर दिठइ होइसे जिणहरमुक्कदुवारु । सोइज मयणमंजूसिय होइसइ भरतारु ॥ २५१ ॥ सिरिरिसहर ओलगणी हुं चक्केसरी देवी । मासाभिंतर तसु नरह आणिसु निच्चल मेवी ॥ २५२ ॥ यदृष्ट्या जिनगेहस्य द्वारमुटयिध्यति । ध्रुवं मदनमञ्जूषायोग्यो भावीवरोऽप्यसौ ॥ २५३ ।। श्रीमद्युगादिनाथांहिभक्ता चक्रेश्वरी जगौ । मासान्तस्तमिहानेष्ये विधेया नाऽधृतिस्ततः ॥ २५४ ।। तद्द्वारोद्घाटने सर्वैरपि यत्नो विनिर्ममे । स च सर्वोऽपि संजातोस्त्यवकेशीव निष्फलः ॥ २५५ ॥ पुरुषोत्तम! तच्चेत्त्वं द्वारमुद्धाटयिष्यसि । ध्रुवं चक्रेश्वरीवाणी तन्मासान्तर्मिलिष्यति॥२५६॥ तदाकर्ण्य कुमारोऽपि तत्रागात्सपरिच्छदः। दृष्टे तस्मिन् झटित्येव द्वारमुजघटेऽथ तत् ॥२५७।। ततः सर्वेऽपि सन्तुष्टा नृपामात्यादयो जनाः। नत्वा कुमारं पप्रच्छनिजवंशाभिधादिकम् ॥२५८॥ स्वमुखेन स्ववंशादिवर्णनं क्रियते कथम् ? । इति स चिन्तयामास चारणर्षिस्तदागमत् ॥२५९|| तं वन्दित्वा नृपायेषु निषण्णेषु यथाक्रमम् । चारणश्रमणश्चक्रे देशनां क्लेशनाशिनीम् ।। २६० ॥ धर्मः सम्यस्वमूलोऽयं तत्तु तत्त्वत्रयात्मकम् । सद्देवगुरुधर्माश्च तत्त्वानीति विदुर्जिनाः ॥ २६१ । प्रत्येकं तेऽथ विज्ञेयाः क्रमाद् द्वित्रिचतुर्विधाः । अर्हत्सिद्धभेदभिन्न देवतत्त्वं प्रकीर्तितम् ॥२६२॥ गुरुतत्त्वेऽपि भेदाश्चाचार्योपाध्यायसाधवः । धर्मोऽपि दर्शनज्ञानचारित्रसत्तपोऽभिधः ॥ २६३ ॥ यदेतेष्वेव नवसु दृष्टिवादोऽप्यवातरत् । तद्भक्त्याराधनीयानि पदानि तानि सर्वदा ॥ २६४ ॥ एतदाराधनात्कान्तिकीर्तिसौभाग्यसिद्धयः । इहलोकेऽपि जायन्ते श्रीपालस्येव निश्चितम् ॥२६५।। राजापृच्छन्मुने! कोऽयं ? श्रीपालोऽनेन वा कथम् ? । सिद्धचक्रं समाराध्य प्राप्तमत्रैव सत्फलम् ॥ २६६ ॥ तं नृपावं समाचख्यौ मुनिः स्वकरसंज्ञया ।
॥८