________________
तद्वत्तमपि चाशेष नृपपृष्टो मुनिर्जगौ ॥ २६७ ॥ श्रुत्वा तत्कुलनामादि विशेषाद् हृष्टमानसः । नृपः प्रदत्तवांस्तस्मै कुमाराय निजां सुताम् ॥ २६८ ॥ नृपप्रदत्तावासेऽथ प्रियाद्वययुतः स्थितः । सिद्धचक्रस्मृतिं कुर्वन् सुखमास्ते कुमारराट् ॥ २६९ ।। अन्यदा स्थानमासीनं नृपं कोऽपि व्यजिज्ञपत् । एकेन सार्थपेनात्र शुल्कं भग्नं विभो ! तव ।। २७० ॥ स चापराधी बद्धोऽस्ति दण्डः कोऽस्य विधीयते । सोऽपि भ्रक्षेपमात्रेण तं वधाय समादिशत् ।।२७१।। एवमश्रद्दधानेऽथ कुमारे भूपतिस्तकम् । यावदानाययत्तावत्स कुमारेण लक्षितः ॥ २७२ ॥ धवलश्रेष्ठिनं तं स नृपादेशादमोचयत् । सापराधेष्वपि प्रायः साधवः स्युर्दयापराः ॥ २७३ ॥ कियतोऽथ दिनान् स्थित्वा कुमारः श्वशुरालये । धवलश्रेष्ठिना युक्तश्चचाल स्वपुरं प्रति ॥ २७४ ।। धवलोऽथ कुमारद्धिं पत्नीयुग्मं तथास्य च । दृष्ट्वा (च?) चलचित्तोऽभूत् किमकार्य हि लोभिनाम् ।।२७५।। सोऽपि तन्निजमाकूतं चतुर्मित्रैरमन्त्रयत् । त्रयः सुबुद्धिदास्तेऽथ धवलं प्रत्यबोधयन् ।। २७६ ॥ अन्यस्यापि न युज्येत धनस्त्रीहरणं नृणाम् । प्रभोस्तद्वाञ्छका ये तु ते स्वामिद्रोहपापिनः ॥२७७।। यद्यानचालनं यच्च महाकालाद्विमोचनम् । विद्याधरेन्द्राच्च सखे ! विस्मृतं किं तवाधुना ? ॥ २७८ ॥ एवंविधोपकारैककारिण्यपि नरोत्तमे । यद् द्रोहबुद्धिस्तन्नूनं पिशुनस्यैव लक्षणम् ।। २७९ ॥ अन्यच्च न त्वं धवलो लेश्यया कृष्णयानया । अतः परं तु नास्माकं त्वयाऽऽलापो हि युज्यते ॥२८०।। इत्युदित्वा त्रयोऽप्येते ययुर्निजनिजास्पदम् । वक्रस्वभावस्तुर्योऽथ श्रेष्ठिनः पार्श्वमाश्रितः॥२८१॥ उवाच च विपक्षा हि श्रेष्ठिन्नेते त्रयोऽपि ते । पश्याहं साधयाम्येष तत्क्षणात्तव चिन्तितम् ॥ २८२ ।। श्रेष्ठ्यप्युवाच सत्यं त्वं मदर्थ साधयिष्यसि । तथापि ब्रूहि मित्रात्र कोऽप्युपायो विधीयते ? ॥२८३॥ सोऽप्याह बद्धमञ्चऽस्मिन् गुणाधारेण मण्डिते । आरोप्यैनं गुणच्छेदात् पातयिष्य महार्णवे ॥२८॥
DRONACADERS