________________
तयोः । शैवे जैने मतेचानामतज्ञयोः । शिवभुतिसुबुद्ध्याख्याचमोत्सव तयोः । सुरसुन्दरीमद
4] मोहिता तत्रादिमा सौभाग्यसुन्दरी । सम्यक्त्ववासिता बाढं द्वितीया रूपसुन्दरी ॥ २७ ॥ अथो मिथः प्रीतियुजोः सापल्ये
ऽपि तयोः समं । आपन्नसत्वयोर्जाते उभे कन्ये मनोहरे ॥२८॥ प्रमोदात्कारयामास पिता जन्मोत्सवं तयोः। सुरसुन्दरीमदनसुन्दरीत्यभ्यधत्त च ॥ २९ ॥ समं समर्पिते ते च शैवजैनमतज्ञयोः। शिवभूतिसुबुद्ध्याख्याचार्ययोः पाठहेतवे ।। ३०॥ परं| तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः ॥ ३१ ॥ इत्थं कृतकलाभ्यासे ते कला-| चार्यसंयुते । कलापरीक्षणकृते पितरं नन्तुमीयतुः॥ ३२ ॥ पित्रापि हृष्टमनसा निवेश्यात्मीयपार्श्वयोः । द्वयोः प्रज्ञापरीक्षायै समश्यापदमर्पितं ॥३३॥ यथा-'पुण्णेहिं लभइ एह '। ततस्तत्कालमत्यन्तगर्वचञ्चलचित्तया । पूरिता सुरसुन्दर्या समश्या शृण्वतः पितुः ॥ ३४ ॥ 'धण-जुवण-सुबड्डपण, रोगरहियनियदेह । मणवल्लहमेलावड पुण्णेहिं लब्भइ एह ॥ ३५ ॥ तत् श्रुत्वा नृपतिस्तुष्टः प्राशंसत्तत्कलागुरुम् । चतुर्विद्यानिधानेति परिषत्सकलापि च ॥३६॥ ततोऽपरा नृपादिष्टापूरयन्मदनापि ताम् । स्वभावसदृशा वाचा जिनधर्मपरायणा ॥३७॥ 'विणय-विवेक-प्रसन्नमण सीलसुनिम्मलदेह । परमप्पहमेलावडु पुण्णेहिं लप्मइ एड. ॥३८॥ ततस्तजननी चोपाध्यायस्तुष्टौ न चेतरे । यतस्तत्त्वोपदेशो न मुदे मिथ्यादृशां भवेत् ॥३९॥ इतश्च कुरुदेशेऽस्ति नाम्ना शंखपुरी पुरी । दमितारिर्नुपस्तत्र प्रजा पाति पितेव यः॥४०॥ प्रतिवर्ष स चावन्तीपतिसेवार्थमाव्रजेत् । तत्स्थानेऽथान्यदागच्छत् सुतोऽरिदमनाभिधः॥४१॥ दिव्यरूपं च तं वीक्ष्य चुक्षोभ सुरसुन्दरी । कामबाणैर्भृशं भिन्ना कटाक्षान् विक्षिपन्त्यथ ॥४२॥ | तदेकतानां तां दृष्ट्वा नृपोऽपि ज्ञाततन्मनाः। प्रोवाच ते वरः कोऽस्तु ? तुभ्यं वा रोचतेऽत्र कः ॥ ४३ ॥ तदनन्तरं प्रतिवाक्सजयाथ तयोदितं । तातपादाः सप्रसादाश्चन्ममायं वरोऽस्तु तत् ॥ ४४ ॥ तथेति प्रतिपन्नेऽस्मिन् पर्षल्लोकोऽप्यदोऽवदत् ।
AAAAAAAA%9454