SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना श्रीपालचरित्र । सत्यराजर्षिगणिः प्रबोधयति । अस्मिश्च चरित्रे श्रीपालजनिः, पितृव्याजितसेनभयात् मात्रा सत्रा स्वनगर्या निर्गमनम् , सप्तशतकुष्टिकदम्बकसंमिलनम् , मदनसुन्दर्याः पाणिपीडनम् , गुरोरुपदेशनानुसारेण श्रीसिद्धचक्रस्थाराधनम् , तेन नीरोगीभवनम् , विविधविषयावलोकनाय पृथिवीपर्यटनम् , धवलश्रेष्ठिकृतोपद्रवाणां सिद्धचक्रसंस्मरणतो दूरीभवनम् , अनेकपार्थिवकुमारीभिः समं परिणयनम् , स्वराज्यस्वायत्तीकरणम् , पराभवबीजवैराग्यात् सर्वविरत्यापन्नाजितसेनराजर्षिवंदनेन पूर्वजन्मवृत्तान्ताकर्णनमित्यादयः श्रीपालधराध| वस्यातिकान्तोदन्ताः समासेनोदिताः । आस्ताम् श्रीपालो मदनसुन्दरी च श्रीमुनिसुव्रतस्वामितीर्थे । ____एतद् ग्रन्थावसानवर्तिभिः प्रशस्तप्रशस्तिश्लोकैरस्य ग्रन्थस्य प्रणेतारो वैक्रमपञ्चदशशताब्द्यामासन् , तथा पूर्णिमागच्छीयगुणसागरसूरीश्वरान्तेवासिनः समुद्रसागरमुनिवरा एतद्ग्रन्थकर्तुर्गुरव इत्यवगम्यन्ते । ___एतच्चरित्रं कविकुलकिरीट-व्याख्यानवाचस्पति-आचर्यवर्य श्रीमद्विजयलब्धिसूरीश्वरपट्टप्रभावकाणां गम्भीररिवराणामुपदेशेन वेरावलवास्तव्ययोः श्राद्धवर्ययोहीरालालदेवकरणयोर्द्रव्यसाहाय्यतः । श्रीलब्धिसूरीश्वरजैनग्रन्थमालाया 'स्तृतीयमणितया प्रकाशितं । अन्थेऽस्मिन्मतिमान्द्यादिना यन्त्रतो वा सञ्जाता अशुद्धयोऽपश्चिमविपश्चिद्भिः संशोध्यावलोकनीयमिति प्रार्थयते .ईडरनगरे. मार्गशीर्षबहुलपञ्चम्याम् ता. ११-१२-३८ मुनिर्विक्रमविजयः ॥ १ ॥
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy