________________
RRRRRR
श्री लब्धिसूरीश्वरजैनग्रन्थमालायाः तृतीयो मणिः
• श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः॥ पण्डितश्रीसत्यराजगणिप्रणीतं श्रीसिद्धचक्रमाहात्म्यस्योपरिश्री श्रीपालचरित्रम्।
Othere श्रिये श्रीमन्महावीर स्वामी वासवसेवितः । यद्वाचो भव्यजन्तूनां रज्जूयन्ते भवावटे ॥१॥ अहंदाद्यां नवपदी ध्यात्वा हृत्पद्मसमनि । श्रीसिद्धचक्रमाहात्म्यमुत्तमं किमपि ब्रुवे ॥ २ ॥ अस्त्यत्र भरतक्षेत्रे देशे मगधनामनि । पुरं राजगृहं तत्र राजते श्रेणिको नृपः॥ ३ ॥ तस्य प्रशस्यभूजानेर्जाने रूपश्रिया श्रियः। सुनन्दाचेल्लणाधारिण्याद्या धर्मप्रियाः प्रियाः ॥४॥ अभयः कोणिको हल्लविहल्लौ मेघनामकः । एवमाद्या अनेकेपि विवेकेनान्विताः सुताः ॥ ५॥ वसन्ति यत्र श्री शालिभद्राद्या इभ्यपुङ्गवाः । यत्र वैभारगिरिणा भूषितोपान्तभूतलम् ॥ ६ ॥ तत्रान्यदा निजपदैः पुनातुं पृथिवीतलं । श्रीवीरः समवासार्षीनगरोपान्तसीमनि ॥७॥ प्राहिणोत्प्रथमं शिष्यमिन्द्रभूति गणेश्वरं। पुरे राजगृहे स्वामी लोकानां लाभहेतवे ॥८॥