________________
श्रीपाल
चरित्रम्.
ध्यानाद्यानान्यसौ क्षणात् ॥२१५॥ महामन्त्रस्मृतेरस्य प्रणष्टा दुष्टदेवता । दीनारलक्षं दत्त्वाथ श्रेष्ठी श्रीपालमृचिवान् ॥२१६।। दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । गृहीतमस्ति साथै स्वे भटानामयुतं मया ॥ २१७ ॥ त्वमप्येष्यसि चेद्भद्र ! तन्निजं ब्रूहि वाञ्छितम् । सोऽप्याह स्म यदेतेभ्यः सर्वेभ्यो दीयते त्वया ॥२१८ ।। एकाकिनेऽपि तच्छेष्ठिन् ! यच्छ स्वच्छमना हि मे । स्नेहलोभेन यन्नूनमुच्छिष्टमपि भुज्यते ॥ २१९ ॥ दीनारकोटिमादास्ये वर्षे नैतत्तथापि ते । दशसहस्रान् दास्यामि कुरु पश्चाद्यथोचितम् ॥ २२० ।। कुमारोऽथाह मे तात ! राया कार्य न किञ्चन । दचा भाटकमप्येतत् (प)किंत्वेष्यामि त्वया समम् ॥ २२१ ॥ श्रेष्ठिनाप्योमिति प्रोक्ते यानारूढश्चचाल सः । प्राप्तानि बब्बरद्वीपे यानपात्राण्यपि क्षणात् ॥ २२२ ॥ महाकालाभिधस्तत्र नृपो भूरिबलान्वितः । श्रेष्ठिनं समुपागत्य वस्तुशुक्लममार्गयत् ।। २२३ ।। अददानोऽथ तं श्रेष्ठी युद्धाय प्रगुणीभवन् । समं भटायुतेनापि जितो बद्धश्च तत्क्षणात् ।। ६२४ ।। अत्रान्तरे कुमारोऽपि श्रेष्ठिनं प्राह भो! वद । क्व गतास्ते भटा ? येभ्यः कोटिदत्ता तदा त्वया ॥ २२५ ।। अद्यापि तव सर्वस्वं तदितो वालयाम्यहम् । यदार्द्धमपि दत्से मे सोऽपि तत्प्रतिपन्नवान् ॥ २२६ ।। कुमारोऽपि ततः खड्गचापतूणीरभृत्स्वयं । बड्वा नृपं महाकालमानिन्ये श्रेष्ठिसन्निधौ ॥ २२७ ॥ बन्धान्मुक्तोऽथ धवलो नृपघातार्थमुत्थितः । शरणागत इत्युक्त्वा कुमारस्तं न्यषेधयत् ॥ २२८ ।। मप्टेन श्रेष्ठिनाथैते वृत्तिभङ्गानिराकृताः । कुमारेन्द्रस्य सेवायै सुभटाः समुपागमन् ॥ २२९।। स्वभागागतयानेषु नियुक्तास्तेन ते पृथक् । सच्चक्रे च महाकालनृपं बन्धाद्विमोच्य सः ॥२३० ।। महाकालोऽपि तं पुण्यश्लोकं नीत्वा निजे पुरे । वसनाशनभूषाद्यैः सत्कृत्येति जगाद च ।। २३१॥ कुमारेन्द्र !
१' राया 'लक्ष्म्या ।
FASEARCARE