________________
अहंदादिपदानि त्वं ध्यायेर्यदनुभावतः । सुखेनैष्यामि कार्यों न हृदि खेदो मनागपि ॥ १९८ ॥ ज्ञात्वा तन्निश्चयं सापि कृतकौतुकमंगला । विससर्ज सुतं सोऽपि चचाल करवालभृत् ॥ १९९ ॥ ग्रामाकरपुरादीनि शनैरुल्लंघयन्नसौ । पृच्छति स्म वने कंचिन्नरं ध्यानकतत्परम् ॥२०० ॥ कस्त्वं ? कथमिहैकाकी किं वा ध्यायसि मानसे सोऽप्याह तं स्मराम्ये| नां विद्यां सद्गुरुदेशिताम् ॥ २०१॥ न सिद्ध्यति परं भद्र! सा विनोत्तरसाधकम् । नरोत्तम! ततस्त्वं मे भवतूत्तरसाधक:
॥ २०२ ॥ ततः कुमारसान्निध्यात्सिद्धविद्यः क्षणादसौ । ददौ कृतोपकाराय कुमारायौषधीयुगम् ॥ २०३ ।। उक्तं च जलतारिण्येकाऽपरा शस्त्रवारिणी । भुजयोर्धारणीये च वेष्टयित्वा त्रिधातुभिः॥२०४॥ ततः कुमारेण युतः स विद्यासाधको गिरेः। ययो निकुञ्ज प्रोक्तं च धातुवादिनरैस्त्विदं ॥२०५॥ देव! त्वदुक्तकल्पेनाऽस्माकं साधयतामपि। केनापि कारणेनात्र रससिद्धिर्न जायते ॥२०६॥ कुमारोऽप्यूचिवान् भद्र ! मदृष्ट्या साधयन्त्विति । तैस्तथा विहिते जाता सिद्धिः कल्याणसंभवा ॥२०७॥ तदाग्रहादथादाय कुमारः कांचनं कियत् । भृगुकच्छपुरं प्राप्तो विलसन् धनमिच्छया ॥२०८॥ तत्रागतोऽथ कौशाम्ब्या महेभ्यो धवलाभिधः । यियासुः परकूलं स भूरि यानान्यसज्जयत् ॥ २०९ ॥ नृपादेशादथो नानाविधैर्मृत्वा क्रयाणकैः। चाल्यमानानि यानानि मनागपि न चाचलन् ॥ २१० ॥ चिन्तातुरेऽथ धवले शाकिन्येका ह्यदोऽवदत् । द्वात्रिंशल्लक्षणेनात्र पुंसा बलिविधिं कुरु ॥ २११॥ नृपादेशेन निर्नार्थ श्रीपालं समवेत्य तम् । श्रेष्ठी बलिविधानार्थ निजपुंभिरधारयत् ॥ २१२ ॥ एषोऽप्यजैषीद्धवलभटानेकोऽपि लीलया । ज्ञात्वामहानुभावं तमथ श्रेष्ठ्यप्यदोऽवदत् ।। २१३ ॥ परोपकाररसिकोपायं कंचित्कुरुध्व तम् । चलन्ति यानपात्राणि येनामूनि क्षणादपि ॥ २१४ ॥ दीनारलक्षदानेऽथ श्रेष्ठिना स्वीकृते सति । अचालयन्नवपद