________________
श्रीपाल
चरित्रम्.
वेऽस्मिन्नास्ति चारित्रं तव पुण्यवतां वर ! ॥४७८॥ किन्तु स्मरंस्त्वमेतान्यहंदादीनि पदान्यलम् । संप्राप्य नवमं स्वर्ग नवसंख्यान् भवानथ ॥४७९।। उत्तरोत्तरसौख्यात्यां प्राप्य स्वःसन्नृसंपदं । सिद्धिं च प्राप्यस्यसीत्युक्त्वा विजहार मुनीश्वरः ॥४८०॥ श्रीपालोऽप्यवनीपालः प्रियाभिनवभिर्युतः । सिद्धचक्रं समाराध्य विधिनोद्यापनं व्यधात् ॥४८१।। अथो भुवनपालाद्याः सुतास्तस्य नवाऽभवन् । राज्ये नव सहस्राणि तस्यासन् रथहस्तीनाम् ।।४८२॥ नवलक्षास्तुरंगाणां पत्तीनां नवकोटयः। नववर्षशतान्येवं न्यायाद्राज्यमपालयत् ।।४८३॥ संस्थाप्य राज्ये भुवनपालं नवपदी स्मरन् । समाधिमृत्युयोगेन नवमं कल्पमाप्तवान् ॥४८४॥ स्नुषाभिनवभिर्युक्ता समये तज्जनन्यपि । आयुःक्षयेण तत्रैव देवत्वेनोदपद्यत ॥४८५॥ ततश्युत्वा चतुः कृत्वाः प्राप्य सच्चाधिका अमी । देवत्वं मानुपत्वं च सम्प्राप्स्यन्ति शिवं क्रमात् ।।४८६॥ इत्येवं मगधेशस्य पुरः श्रीगौतमो विभुः। आख्याय विरतो यावत् तावत्कोऽपि नरेश्वरम् ॥४८७॥ सद्यो वर्धापयामास श्रीवीरागमनेन वै । श्रीश्रेणिकनृपोऽप्यस्य तुष्टिदानं व्यतीतरत् ॥४८८।। इति श्रीवीरनाथोऽपि पुनानः पृथिवीतलं । सुरासुरैः सेव्यमानस्तदुद्यानं व्यभूषयत् ॥४८९॥ समवसृतिमध्येऽथ रत्नसिंहासनस्थितः । व्यधत्त वीरनाथोऽपि देशनां कलेशनाशिनीम् ।। ४९०॥ ज्ञात्वा नृपस्य तं भावमर्हदादिपदावलीम् । श्रीवीरोऽपि समाचख्यौ भव्यानुग्रहहेतवे ॥४९१॥ श्रीसिद्धचक्रमाहात्म्यविषयां धर्मदेशनाम् । श्रुत्वा के के जना नासंस्तदाराधनतत्पराः ॥४९२॥ एषा नवपदध्यानवती श्रीपालसंकथा । शृण्वतां गदतां नृणां करोतु सुखसन्ततिम् ।।४९३॥ राकापक्षवलक्षपक्षविमलाः सद्वृत्तपुण्योज्वलाः शश्वच्छात्रसुधासमुद्रलहरीनिस्तन्द्रचन्द्रत्विषः । सूरिश्रीगुणसागराख्यसुगुरुप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोत्र गुणात्समुद्रगुरवो राजन्ति तेजःश्रिया ॥४९४॥ तत्पादद्वितयप्रसादवशतो वाग्देवताध्यानतो, दृब्धं पण्डि
10॥१५॥