________________
तैः सम्भृयोम्बरव्याधिग्रस्त एको नृपः कृतः॥ ६३॥ उम्बरराडिति ख्यातोऽभितस्तैः कुष्ठिभिर्वृतः । वरवेसरमारूढो बम्भ्रमीत्यखिले पुरे ॥ ६४ ॥ महेभ्यानां कुले राजकुले मन्त्रिकुलेऽपि च । गृह्णन् स्वपञ्जिकादानमेष आयाति सन्मुखम् ॥६५॥ विहाय तदमुं मार्ग गम्यतेऽन्यपथा प्रभो ! । तथा कृते कुष्ठिनोऽपि वलितास्तत्पथि द्रुतम् ॥६६॥ राजा प्राह पुरो गत्वा मन्त्रिन्नेतानिवारय । दत्त्वा प्रार्थितमप्येषां दर्शनं यन्न शोभनम् ॥६७॥ यावन्मन्त्री करोत्येतत्तावत्तत्पेटकाद् द्रुतं । गलिताङ्गुलिनामागात्कुष्ठी मन्त्री नृपाग्रतः ॥ ६८ ॥ स चावदन्नृपं नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते सर्वैर्दानमानादिभिर्भृशम् ।। ६९॥5 तेनास्माकं धनस्वर्णादिभिः कार्य न किंचन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्यते ॥ ७० ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्रदापय । युष्मदत्तेन चान्येन कृतं स्वर्णधनादिना ।। ७१॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिनृपस्यास्य कीर्तिरेवंविधा यथा ।। ७२ ।। कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्य- 12 काम् ।। ७३ ।। बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्मनः ? ।।७४ । यासौ कृतघ्नतनया सा देयास्मै मया ध्रुवम् । ध्यात्वेति नृपतिः सद्यो वलित्वागानिकेतने ।।७५।। आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाहये ॥ ७६ ॥ चेपुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयं ॥ ७७ ॥ आहूय कुष्ठिनामीशं नृपः प्रादान्निजां सुतां । स च प्रोवाच भो राजन् ! किमयुक्तं ब्रवीष्यदः ॥ ७८ ॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फलम् । भुञ्जानोऽस्याः स्त्रियो देव ! कथं जन्म विनाशये ॥७९॥ त्वं चेद्दास्यसि त. देहि दासी दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ ८० ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलं ।
KC