SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम्. ॥१४॥ तीति प्रिया तस्य जिनधर्मैकमानसा ॥४४३॥ पापर्द्धिनिरतश्चाभूद्राजा संसर्गदोषतः । सान्यदा मधुरैर्वाक्यै भुजं प्रत्यबृबुधत् | ॥ ४४४ ॥ यथा-चैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । सदैव च तृणाहारा हन्यन्ते पशवः कथं ? ॥४४५॥ तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाश्च । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ ४४६ ॥ हतूण परप्पाणे अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए स नासेइ अप्पाणं ॥ ४४७॥ इति राजीवचोऽ. म्भोभिरप्यभिन्नमना नृपः । मृगयामगमत्सप्तशतवण्ठैः सहान्यदा ॥ ४४८ ॥ वीक्ष्य धर्मध्वजकर मुनिमेकं नृपोऽवदत् । कोऽप्येष चामरकरः कुष्ठिराजोत्र दृश्यते ॥ ४४९ ॥ नृपतुष्ट्यै अथोल्लुंठेवैठेतैर्दुष्टचेष्टितैः। उपद्रुतो मुनीन्द्रोऽसौ क्षमावॉल्लेष्टुयष्टिभिः ॥ ४५० ॥ यथा यथा ताड्यतेऽसौ मुनिरस्य तथा तथा । प्रावर्द्धिष्ट रसः शान्तो हासाह्वश्च नरेशितुः ॥ ४५१ ॥ भूयोऽप्येकं मुनि वीक्ष्य नदीकण्ठस्थितं नृपः। प्रेर्य शैवलिनीपके पातयामास निष्कृपः ।। ४५२ ॥ पुनः सञ्जातकारुण्यो मुनिमाकृष्य मुक्तवान् । को वेत्ति ? प्राणिनां भावपरावृत्तिं नवां नवाम् ॥४५३।। वृत्तान्तमेनमाचख्यौ स सर्व स्त्रीपुरः स्वकम् । सापि तं मधुरैर्वाक्यैर्नृपतिं प्रत्यबोधयत् ।।४५४॥ अन्येषामपि जन्तूनां पीडनं दुःखदायकम् । किं पुनस्तन्मुनिनां ? यद्घोरश्वभ्रफलप्रदम् ॥ ४५५ ॥ मुनिघातो हि जन्तूनां दीर्घसंसारकारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं यदागमे ॥ ४५६ ॥ चेइयदबविणासे इसिघाये पवयणस्स उड्डाहे । संजइचउत्थभंगे मृलग्गी बोहिलाभस्स ॥ ४५७ ॥ इति राजीवचः श्रुत्वा प्रबुद्धोऽथ धराधवः । निरवर्तिष्ट साधूपघातपातकपङ्कतः ॥४५८॥ पुनः सञ्जातवैरोऽयं कञ्चिद् दृष्ट्वा मुनि जगौ। रे रे निर्वास्थतामेष मातङ्गो मत्पुरान्तरात् ।। ४५९ ।। इत्यादिष्टा भटा यावन्मुनि निर्वासयन्ति तम् । ताव ॥१४॥
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy