________________
श्रीपाल -
॥ १० ॥
चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ ३२० ॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः १ सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वज्राहतोऽभवत् || ३२१|| नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं ययौ । मातङ्गानां कुलं तावत् तत्रागाद् गानहेतवे ॥ ३२२ ॥ चिन्तातुरो यावदसावेभ्यः किंचिद्ददाति न । तावतैर्गदितं स्वामिन् ! किं रुष्टोऽस्मासु वर्त्तसे १ ।। ३२३ ।। अथाकार्य रहस्येकं श्रेष्ठी मातंगमूचिवान् । हंसि केनाप्युपायेन नृपजामातरं यदि ॥ ३२४ ॥ वितरामि तदा नूनं सर्वं त्वन्मुखमार्गितम् | गृहाण कार्यसिद्ध्यर्थमर्द्धलक्षमितं धनम् || ३२५ || प्रतिपद्य तदेषोऽपि सकुटुम्बो नृपान्तिके । चक्रे गानं नृपोऽप्यस्मै स ताम्बूलमदापयत् ।। ३२६ ।। तदैका वृद्धमातंगी कुमारगलकन्दले । लगित्वा कुत्र पुत्र ! त्वमित्युक्त्वा व्यलपद्धहु ॥ ३२७॥ हा वत्स ! कियतः कालान्मिलितोऽसि ममाधुना । कुत्र भ्रान्त इयत्कालं ? शोधितोऽसि पदे पदे || ३२८|| मातंगोऽप्यवदत्स्वामिन् ! लघुभ्राता ममासकौ । युष्मत्पार्श्वस्थितः सम्प्रत्यस्माभिश्चोपलक्षितः || ३२९ ॥ एकाड्वोचन्मम भ्राता भ्रातृव्योऽस्यपराऽवदत् । देवरोऽस्यपरोवाच पुण्यैः प्राप्तोऽसि साम्प्रतम् ||३३०|| दध्यौ नृपो हहानेन कुलं मम कलङ्कितम् । तदेष कुत्र हन्तव्यः पापभाजां शिरोमणिः ॥ ३२९॥ नृपौ नैमित्तिकं प्राह किमयं दुर्मते ! त्वया । मातङ्गो न ममाख्यातस्तद्वध्योऽसि त्वमप्यरे || ३३२ || नृपं नैमित्तिकोऽवोच मातङ्गो नैष नाथ ! हे। किंतु मातङ्गनाथोऽयं भविष्यति न संशयः ।। ३३३ || गाढं रुष्टो नृपोऽप्येतौ वधार्थं यावदादिशत् । व्यजिज्ञपदिदं तावन्नृपं मदनमञ्जरी ||३३४|| आचारेण कुलं ज्ञेयमिदं लोकेऽपि गीयते । लोकोत्तरस्तदाचारः कोऽप्यपूर्वोऽत्र दृश्यते ॥ ३३५ ॥ नृपः प्राह कुमारं भोः ! प्रकाशय निजं कुलं । सोऽप्याचख्यौ जलं पीत्वा गृहं किं पृछयते १ नृप ।। ३३६ ।। सैन्यं सञ्जय यथा मे जौ निगदतः कुलम् । स्वजिह्वया स्ववंशस्य वर्णनं यत् त्रपाकरम् ||३३७|| यद्वा प्रवहणान्तःस्थे आनीय
चरित्रम् .
॥ १० ॥