Book Title: Nyayasiddhant Manjiri Tippanak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229651/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ वाचक श्रीसिद्धिचन्द्रगणिकृत न्यायसिद्धान्तमञ्जरी - टिप्पनक -सं. मुनि कल्याणकीतिविजय भूमिका जानकीनाथ शर्मा विरचित नव्यन्यायना एक महत्त्वपूर्ण ग्रंथ न्यायसिद्धान्तमंजरी पर महोपाध्याय श्रीभानुचंद्रगणिना शिष्य महोपाध्याय श्रीसिद्धिचंद्रगणिए पदकृत्यो सहित टिप्पनकनी रचना करी छ। अने ते अप्रसिद्ध छे। तेनी, कर्ताए स्वहस्ते लखेली प्रत भावनगरनी आत्मानंद जैन सभामांथी (नं. ८८६) उपलब्ध छे। तेनी फोटोकॉपी परथी संपादन करी आ टिप्पनक अत्रे रजू करवामां आवे छे। __आमां आपेल मूळग्रंथना पाठो, न्यायसिद्धान्तमंजरीना श्रीसत्गुरु पब्लिकेशन्स, दिल्ही; अंतर्गत श्रीगरीबदास ऑरिएन्टल सिरीझमां ई.स. १९९०मा पुनः प्रकाशित अने श्रीगौरीनाथ शास्त्री द्वारा संपादित ग्रंथ साथे सरखाव्या छे अने तेना पृष्ठ क्रमांको टिप्पणीमां आपेल छ। ★ आवां चिह्न करीने जे टिप्पणीओ आपी छे, ते मूळ प्रतिमां कर्ताए ज स्वयं लखेली छ। आ टिप्पनकमां एक स्थाने, शिवादित्य विरचित सप्तपदार्थी ग्रंथ परनी महोपाध्याय श्रीसिद्धिचन्द्रगणि (आ टिप्पनकना कर्ता) विरचित चंद्रचंद्रिका नामक टीकामांथी, चित्ररूप माटे एक संदर्भ-नोंध आपेली छे। (ते शाने माटे आपेली छे ते समजायुं नथी। विद्वानो तेना पर प्रकाश करवा कृपा करे।) आ टीका पण अद्यावधि अप्रकाशित छे अने तेनी एक मात्र प्रति विमलगच्छना भंडार, अमदावादमा (नं. ४८, बंडल नं. ३६) छे, एवं सिंघी जैन ग्रंथमालाना (ग्रंथांक१५, वि.सं. १९९७ / ई.स.१९४१) श्री सिद्धिचंद्रगणिकृत भानुचंद्रचरित नामक ग्रंथनी अंग्रेजी प्रस्तावनामां List of Works by Siddhichandra, ए शीर्षक हेठळ No.7 तरीके श्री मोहनलाल दलीचंद देशाईए नोंधेलुं छे। ते सिवाय जैन परंपरानो इतिहासभाग ३ (पृ. ७९८)मां पण आ टीकानी नोंध आपेल छ। प्रस्तुत प्रतिनो परिचयः न्यायसिद्धान्तमंजरी परना टिप्पनकनी आ प्रत पंचपाठी छे। परंतु मात्र २ पत्रो पर ज पंचपाठ लखेल छ। कुल पत्रो ५ छ। लेखन संवत् १७०६ आसो सुद १०, शुक्रवार छ। अने प्रतिनुं लेखन, टिप्पनकना कर्ता महो. श्रीसिद्धिचन्द्रगणिए पोतेज वडग्राममा करेलुं छे तेवू प्रतिना अंते आपेल पुष्पिका द्वारा जणाय छे। Page #2 -------------------------------------------------------------------------- ________________ 51 श्रीसिद्धिचन्द्रगणिकृतं न्यायसिद्धान्तमञ्जरी-टिप्पनकम् श्रीसर्वज्ञं नमस्कृत्य सिद्धिचन्द्रेण धीमता । न्यायसिद्धान्तमञ्जर्याः पदकृत्यानि लिख्यते (न्ते) ॥ १ ॥ । ननु' किमिदं याथार्थ्यं ? - तद्वति तदवगाहित्वं याथार्थ्यम् । भवति हि रजते इदं रजतमिति ज्ञानं रजतत्ववति तदवगाहीति याथार्थ्यम् । शुकाविदं रजतमिति ज्ञानं नाऽरजतत्ववति तदवगाहीति न याथार्थ्यम् । ननु एवं रजते इदं रजतं नवेति संशयोऽपि प्रमा स्यादिति चेत्रजतत्वांशे प्रमैव । तद्वति तदनुभवस्तत्प्रमेति प्रामाणिकाः । एवं `च रजतत्ववति रजतत्वप्रकारकानुभवो रजतत्वप्रमेत्यर्थः । घटत्ववद्विशेष्यकत्वे सति घटत्वप्रकारकत्वं प्रामाण्यमित्यर्थः । अनुभवत्वं च स्मृतिभिन्नज्ञानत्वम् । तथा च स्मृतित्वानधिकरणं ज्ञानं अनुभवस्तेन स्मृत्यन्तरे न व्यभिचारः । व्यापारवदसाधारणकारणत्वं करणत्वमिति । कारणत्वं करणत्वमित्युक्ते कुठारदारुसंयोगेऽतिव्याप्तिः, तद्वारणाय व्यापारवदिति । कुठारदारुसंयोगस्य छिदां प्रति कारणत्वेऽपि तस्यैव व्यापाररूपतया व्यापारवत्त्वाभावात् । व्यापार - वत्कारणत्वं करणत्वमित्युक्ते ईश्वरज्ञाने ऽतिव्याप्तिः । यावत्कार्यत्वावच्छिन्न पति उपादानप्रत्यक्षत्वेनाऽहेतुत्वात् । अस्मदादिव्यापारेणैवेश्वरज्ञानस्य व्यापारवत्त्वात् । तद्व्यावृत्तयेऽसाधारणेति । ईश्वरज्ञानस्य यावत्कार्यत्वावच्छिन्नं प्रति हेतुत्वेन साधारणत्वात् । ननु व्यापारवदसाधारणं तत्करणं, यच्च करणं तद्व्यापारवदिति लक्ष्यलक्षणयोरभेदः । तद्व्यावृत्तये व्यापारवदसाधारणकारणत्ववत्करणम् । तथा च १. मुद्रितग्रंथे पृ. १० । २. किं वाऽनुभवत्वमित्यधिकं मुद्रिते । ३-४ यथार्थम् मु । ५. चेन्न ६. मुद्रिते पृ. १२ । ७. मुद्रिते पृ. १३ । मु. Page #3 -------------------------------------------------------------------------- ________________ करणं लक्ष्यं, व्यापारवदसाधारणक(का)रणत्वं लक्षणम्। तथाऽपि करणं इतरेभ्यो भिद्यते, व्यापारवदसाधारणकारणत्वात् । इत्थं च हेतु-साध्ययोरभेदः स्यात् तदर्थं इदं करणत्वेन व्यवहर्त्तव्यम् , व्यापारवदसाधारणकारणत्वात् । अत्र करणत्वेन व्यवहार: साध्यः, व्यापारवदसाधारणकारणत्वं हेतुः। तथा च हेतु-साध्ययोरभेदः । इति करणलक्षणपदकृत्यानि । तत्र साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् । साक्षात्कारत्वं च साक्षात् करोमीत्यनुगतप्रतीतिसाक्षिको जातिविशेषः । न चेयं प्रतीतिरिन्द्रियजन्यज्ञानविषया, ज्ञानमात्रस्य मनोरूपेन्द्रियजन्यत्वात्, इन्द्रियाप्रतीतावपि तथा प्रतीतेश्च । नाऽपि चाक्षुषत्वादिजातिविषया, अननुगतत्वात् । यद्वा जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञानत्वं साक्षात्कारत्वमिति । अस्याऽर्थः - धीः ईश्वरधीः, तज्जन्या धीः साक्षात्कारधीः, तन्मात्रवृत्तिजातिः साक्षात्कारत्वं, तद्वान् साक्षात्कारः। तत्र साक्षात्कारत्वशून्यत्वे सति ज्ञानत्वाभावादव्याप्तिः अनुमितावतिव्याप्तिश्च, तत्र साक्षात्कारशून्यत्वे सति ज्ञानत्वस्य सत्त्वाात् । तद्वारणार्थ प्रथमजन्यपदम् , ईश्वरज्ञानस्य जनयत्वाभावात । जन्यधीः साक्षात्कारधीः, तन्मात्रवृत्तिजातिः साक्षात्कारत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वं नास्तीति साक्षात्कारेऽव्याप्तिः, अनुमित्यादावतिव्याप्तिश्च । अनुमितौ जन्यधी: साक्षात्कारधीस्तन्मात्रवृत्तिजाति: साक्षात्कारत्वं; तच्छून्यत्वे सति ज्ञानत्वस्य सत्त्वात् । तद्वारणार्थं द्वितीयजन्यपदम् । जन्यधीर्व्याप्तिधीः, तज्जन्याधीरनु-मितिधीः, तद्वृत्तिजातिः अनुभवत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानत्वाभावादव्याप्तिस्तद्वारणाय मात्रपदम् । जन्यधीनिर्विकल्पकधीस्तज्जन्याधी: सविकल्पकधीस्तन्मात्रवृत्तिधर्मः सविकल्पकत्वं; तच्छून्यत्वे सति साक्षात्कारे ज्ञानचाभावादव्याप्तिः । तद्वारणाय जातिपदम् । सविकल्पकत्वं च न जातिः, चाक्षुषत्वादिना साङ्कर्यात् । चाक्षुषत्वाभावसमानाधिकरणत्वं त्वाचसविकल्पके, सविकल्पकत्वाभावसमानाधिकरणत्वं ८. मुद्रिते पृ. १४ । ९. जातिविशेष एव मु.। १०. ज्ञानत्व० मु.। ११. ज्ञानत्वं तत् मु.। Page #4 -------------------------------------------------------------------------- ________________ निर्विकल्पकचाक्षुषे; तदुभयं सविकल्पके चाक्षुषे । परस्परात्यन्ताभावसमानधिकरणयोर्धर्मयोरेकत्व(त्र) समावेशः सङ्करः । । जन्यधीळप्तिधीः, तज्जन्या धीरनुमितिः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छूसत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये शून्यपदम् । न्यधीजन्यमात्रवृत्तिजातिरनुमितित्वादिकं, तच्छून्यस्य परमाण्वादावतिव्याप्तेः अस्मज्ञानपदम् । जन्य: कुलाल:, तज्जन्यो घटः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छून्यत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये धीपदमिति दिक् । जन्य धीाप्तिधी:(१) सादृश्यधी:(२) पदधी:(३), एतज्जन्या धीरनुमितिधी: (१) उपमितिधी: (२) शब्दधी:(३); तन्मात्रवृत्तिजाति: अनुमितित्वं(१) उपमितित्वं(२) शब्दत्वं च(३) । तच्छून्यत्वे सति ज्ञानत्वं संक्षात्कारमात्रे-साक्षात्कारत्वावच्छित्रसाक्षात्कारे वर्तते । साक्षात्कारान्यावृत्तित्वे ति साक्षात्कारवृत्तित्वं साक्षात्कारत्वं इति फलितोऽर्थः । - ननु श्रुतिवाक्यजन्यं ज्ञानं श्रवणं (१) इतरभेदानुमितिमननं (२) मुहुर्मुहुसुचिन्तनं निद(दि)ध्यासनं, तथा च जन्या धीः श्रवणधीर्मननधीनिद(दि)ध्यासनधीस्तज्जन्या धीः साक्षात्कारधीस्तन्मात्रवृत्तिजातिः साक्षात्कारत्वं, तत्र तच्छून्यत्वे सति ज्ञानत्वाभावात्तत्त्वसाक्षात्कारे व्यभिचार इत्यत आह-मानसे ति । पनिसावृत्तित्वेन जातेविशेषणीयत्वात्, मानसत्वं च जातिविशेषः इत्यास्तां विस्तरः। :: निर्विकल्पकमतीन्द्रियमिति। अतीन्द्रियत्वं च साक्षात्कारनियामकप्रत्यारस्पनाश्रयत्वम् । साक्षात्कारत्वनियामिका या प्रत्यासत्तिस्तदनाश्रयत्वमित्यर्थः।। .. यत्र घटत्वविशिष्टो घटस्तत्सम्बन्धश्चेत्युभयं भासते, केवलं घटो भासते शं ज्ञानं साक्षात्कारः; अयं घट इति ज्ञाने घटत्वतत्सम्बन्धादेर्भासमानत्वात् त बभिचारः स्यादित्यत आह - अयमिति । निःप्रकारकमित्यर्थः । . .. 5' • ' ६२. मुद्रिते पृ. १८। Page #5 -------------------------------------------------------------------------- ________________ 54 अतीन्द्रियं चेत्तहि तत्सद्भावे किं प्रमाणमित्यत आह-तथाऽपीति । महदुद्भूतरूपस्पर्शवद्रव्यं त्वचो योग्यमिति । रूपवद्रव्यं त्वर्च योग्यमित्युक्ते परमाणौ व्यभिचारस्तद्व्यावृत्तये महदिति । महद्दव्यस्फा(स्पा) र्शनमित्युक्ते वायौ व्यभिचारस्तद्वारणार्थं रूपवदिति। महद्रूपवद्र्व्यं स्पार्शनमित्यु प्रभायां व्यभिचारस्तव्यावृत्तये महदुद्भूतरूपस्पर्शवदिति । भवतु एक एक पटत्व-घटत्वयोः समवायः, परं समवायसिद्धिस्तु जाता एवं चेत् अयं पट इति घटत्वप्रकारकं, अयं घटः इति पटत्वप्रकारकं ज्ञानं स्यात् तेनाऽऽधाराधेयाख्यः स्वरूपसम्बन्ध एवाऽस्तु न समवाय इति भावः। अन्यथाख्यातिपञ्चकमिति प्राञ्चः । अन्यथाख्यातित्रिकमिति मणिकृत स्तथा हि- यद्वस्तुपुरस्कारेण यस्य पूर्वभावोऽवगम्यते तत्तेनाऽन्यथासिद्धम् । यो दण्डपुरस्कारेण दण्डत्वस्य पूर्वभावोऽवगम्यते इति दण्डत्वं दण्डेनाऽन्य-थासिद्धा अन्यत्र क्लृप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वं अन्यथासिद्ध त्वम् । यथाऽन्यत्र क्लुप्तपूर्ववर्त्तिनो गन्धप्रागभावादेव गन्धोत्पत्तौ तत्सहचरि रूपप्रागभावो गन्धेनाऽन्यथासिद्धः । एकं प्रति पूर्वभावे गृहीते एव परं प्रति पूर्वभावो गृह्यते तत्तेनाऽन्यथा सिद्धः । यथाऽऽकाशस्य शब्दं प्रति पूर्वभावे गृहीते एव अपरं घादिकं प्र पूर्वभावो गृह्यते, तत्तेनाऽन्यथासिद्धः। इत्यन्यथाख्यातित्रिकमिति स्थितम् ।। विशिष्टोनुभवे हि विशेषणज्ञानं कारणं न तु स्मरणेऽपि, विशेषण ज्ञानं विनाऽपि स्मरणोपपत्तेः । अन्यथाऽनवस्था स्यात् । कथमनवस्था भवती चेत् - शृणु - अनुभवात्मकविशिष्टज्ञानं प्रति स्मरणात्मकविशिष्टज्ञा विशेषणज्ञानत्वेन कारणम् , विशिष्टज्ञानमात्रस्य विशेषणज्ञानजन्यत्वात अनुभवात्म-कविशिष्टज्ञानजनकीभूतस्मरणात्मकविशिष्टज्ञानं प्रत्यपि विशेषण १३. मुद्रिते पृ. २० । १४. मुद्रिते पृ. ३७ । महदुद्भूतस्पर्शवव्यत्वेनैव त्वचो योग्यता इति मु.। १५. मुद्रिते पृ. २२ । Page #6 -------------------------------------------------------------------------- ________________ 55 See Aine अनत्वेन हेतुत्वे वाच्ये तद्विशेषणज्ञानमपि विशिष्टज्ञानम् । तथा च तत्राऽपि विशेषणज्ञानं कारणम् । तदपि विशिष्टज्ञानम् । तत्राऽपि विशेषणज्ञानं कारणं, वमनवस्था स्यात् । ननु संयोगो न प्रत्यासत्तिरित्यत्र द्रव्यग्रहत्वावच्छिन्नं प्रति संयोगत्वेन कारणता । तथा च द्रव्यग्रहत्वेन संयोगत्वेन कार्यकारणभावः इति सिद्धम् । ननु चक्षुः संयुक्तघटदिसमेवतग्रहे क्लृप्तः संयुक्तसमवायः । तेनैव क्षुःसंयुक्तकपालादिसमवेतघटदिग्रहसम्भवे संयोगस्य प्रत्त्यासत्यन्तरकल्पने द्रवमिति चेत् । न । द्रव्यमात्रस्य संयुक्तसमवायेन ग्रहासम्भवात्, आत्मनो वयवत्वेनाऽसमवेतत्वात् , संयोगेनैव मनसाऽऽत्मग्रहात् ।। आत्मनि दुःखाभाव इत्यत्राऽधिकरणस्याऽभावत्वे आत्मन एवाऽभावसंपत्तिः । अभावस्याऽधिकरणात्मकत्वे दृढं दूषणं दत्तम्। किञ्चाऽधिकरणा-त्मा प्रभावस्तदा कपाले घटो भविष्यतीति प्रतीत्याऽस्ति कपाले पूर्वं घट प्रागभावस्तस्य मालाधिकरणत्वेन स चेत् कपालात्मा तदा कपालस्य सर्वदा सत्त्वाद् घटे विनष्टेऽपि कपाले घटप्रागभावोऽस्तीति प्रतीत्यापत्तिः । स अथाऽभावस्याऽधिकरणाद्भिन्नत्वे नैयायिकस्य दूषणं दत्ते - देतदिति। घटाभावो नाऽस्तीति प्रतीत्या घटाभावाभावोऽप्यधिकः स्याद्, त्वधिकः इति चेत् , तदा घटाभावाभावो नास्तीति प्रतीत्या तदभावोऽप्यधिक: स्वात् । तत्राऽपि घटाभावे घटो नाऽस्तीति प्रतीत्या तदप्यभावोऽधिक: देवमनवस्थाभिया घटभावाभावः केवलमधिकरणमेवाऽऽगतम् । तथा धिकरणमेव सर्वत्राऽभावोऽस्तु, पूर्वोक्तं दूषणमपि भवतामेवाऽऽगतम् । चाऽऽहुः घटाभावाभावे घटो नाऽस्तीति प्रतीतेस्तदभावस्तु घटाभाव एव, प्रभावाभावस्तु घटाभाव एव। तथा च नाऽनवस्थेति प्राञ्चः । द्विार तै जसमिन्द्रियं चक्षुरिति । तैजसं चक्षुरित्युक्ते दीपसुवर्णादौ है. मुद्रिते पृ. ४४ । १७. मुद्रिते पृ. ५३ । १८. मुद्रिते पृ. ५३ । १९. मुद्रिते पृ. ६४ । Page #7 -------------------------------------------------------------------------- ________________ व्यभिचारस्तद्वारणाय इन्द्रियमिति । इन्द्रियं चक्षुरित्युक्ते घ्राणादावतिव्याप्तिस्त द्वारणाय तैजसमिति । यद्वा रूपग्राहकमहदिन्द्रियं चक्षुरिति लक्षणान्तरं रूपग्राहकमिन्द्रियं चक्षुरित्युक्ते मनसि व्यभिचारः, मनसः सर्वग्राहकत्वात् । तद्वारणाय महदिति । मनसोऽणुत्वान्न व्यभिचार इति भावः । महदिन्द्रियं चक्षुरित्युक्ते घ्राणादौ व्यभिचारस्तस्याऽपि महदन्द्रियत्वात् । तद्वारणाय रूपग्राहकमिति, घ्राणं तु गन्धग्राहकं न रूपग्राहकमिति भावः । रूपग्राहकं चक्षुरित्युक्ते आत्मनि व्यभिचारः, आत्मनः सर्वज्ञानजनकत्वात् । तद्वारणाय इन्द्रियमिति । एवं सर्वेष्वपि इन्द्रियलक्षणेषु अतिव्याप्त्यादिदोषाः स्वयमेव परिच्छेद्याः । 56 २२ तथा च "स्पर्शग्राहकं महदिन्द्रियं वा त्वक् । आप्यमिन्द्रियं रसग्राहकं महदिन्द्रियं वा रसनम् । पार्थिवमिन्द्रियं गन्धग्राहकं महदिन्द्रियं वा घ्राणम् । कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्" । महत्पदं सर्वत्र मनोवारणाय । निःस्पर्शमणु मन इति । अणु मनः इत्युक्ते पार्थिवपरमाण्वादी व्यभिचारस्तस्याऽप्यणुत्वात् । तद्वारणाय अणु इति । 'संयोगत्वावच्छेदेन द्रव्यजन्यत्वावधारणादिति । संयोगत्वावच्छेदे द्रव्यजन्यत्वेन कार्यकारणभावात् । यो यः संयोगः स द्रव्यजन्यो भवतीत्यर्थः । "वायाबुद्भूतग्रहानापत्तेरिति । वायुः उद्भूतरूपवान्न इत्यन्त्राऽन्योन्याभावग्रहे अनुपलब्धिः कारणं तस्य लक्षणं योग्येऽधिकरणे इति गर्भितम् । त वायोर्योग्याधिकरणत्वाभावेन व्यभिचरितं सत् न वायावुद्भूतरूपवदन्योन्याभाव गृह्णातीत्यर्थः । २५ २४ "अनुमितिकरणं अनुमानम् । अनुमितित्वं च अनुमिनोमीत्यनुभव सिद्धो जातिविशेषः । यद्वा जन्यज्ञानजन्यत्वाव्यभिचारि जन्यशब्दधी १९. मुद्रिते पृ. ६४ । २० वायवीयमिन्द्रियं स्पर्शग्राहकं मु । मुद्रिते पृ. ६४ । २६‍ शब्दग्राहकं महदिन्द्रियं वा - इत्यधिकं मु. । २२. सर्वत्र इत्यधिकमत्र मुद्रितापेक्षया २३. मुद्रिते पृ. ६६ । २४. मुद्रिते पृ. ६१ । वायावुद्भूतरूपवद्भेदग्रहानापत्तेः इति मु. । मुद्रिते पृ. ६८ । Page #8 -------------------------------------------------------------------------- ________________ 57 अन्यत्वव्यभिचारि जातिमदनुभवत्वं अनुमितित्वमिति लक्षणान्तरम् । न जन्यशब्दधीजन्यत्व(त्वा)व्यभिचारि जातिमदनुभवत्वं इति चेत् - प्रत्यक्षत्वजातिमादाय व्यभिचारः । तथा हि - जन्या चाऽसौ शब्दधीश्च जन्यशब्दधीः। अपमितिः शाब्दधीश्च उभे अपि जन्यं यत् पदज्ञानं तज्जन्ये अतिदेशवाक्यार्थज्ञानं शब्दविषयकत्वाच्छब्दज्ञानं भवति उपमितिश्च तज्जन्या भवति । अथ च शब्दज्ञानमपि पदज्ञानजन्यं भवति, तज्जन्यत्वं उपमितौ शाब्दे च । तदसमा-नाधिकरणा या जातिः साक्षात्कारत्वरूपा तद्वान् यः अनुभवः साक्षात्कारः स अनुमितिरिति स्यात् ; सद्वारणाय जन्यज्ञानजन्यत्वाव्यभिचारीति । जन्यज्ञानं व्याप्तिज्ञानं, तज्जन्यत्वं अनुमितौ। अनुमितिनिष्ठो धर्मस्तत्समानाधिकरणा या जाति: प्रत्यक्षं च जन्यशब्दधीजन्यं न भवति । ननु वाक्यप्रत्यक्षादौ जन्यशब्दधीजन्यत्वाव्यभिचारित्वात् प्रत्यक्षत्वं न जन्यशब्दधीजन्यत्वव्यभिचारीति चेन्न । प्रत्यक्षत्वसामानाधिकरण्येन जन्यशब्दघीजन्यत्वसत्त्वेऽपि प्रत्यक्षत्वावच्छेदेन जन्यशब्दधीजन्यत्वव्यभिचारित्वादतिध्याप्तिरिति सूचयितुं नित्ये निर्विकल्पके चेति । धर्मवदनुभवत्वं अनुमितित्वं इत्युक्ते सविकल्पकत्वमादाय प्रत्यक्षत्वेऽतिव्याप्तिः । सविकल्पकं जन्यज्ञानजन्यं भवति, सविकल्पकस्य निर्विकल्पकजन्यत्वात् । अथ च जन्यशब्दधीजन्यं न भवति । तद्वारणाय जातिपदम् । सविकल्पकत्वं च न जातिः, चाक्षुषत्वादिना साङ्कर्यात् । चाक्षुषत्वाभावोऽस्ति त्वाचसविकल्पके, तत्र सविकल्पकत्वाभावो नाऽस्ति। सविकल्पकत्वा- भावोऽस्ति निर्विकल्पके, तत्र चाक्षुषत्वाभावो नास्ति । तदुभयं च चाक्षुषे सविकल्पके । इति दिक्। ALE ★ प्रथम; पर्वते धूमदर्शनं (१), ततः सहचारस्मरणं (२), ततो धूमो वह्निव्याप्य इति व्याप्तिज्ञानं (३), ततो वह्रिव्याप्यधूमवान् पर्वत इति परामर्शलक्षणो व्यापारः (४), ततः . पर्वतो वह्निमानित्यनुमितिः । २६. मुद्रिते पृ. ७०। Page #9 -------------------------------------------------------------------------- ________________ को पुनरत्यन्ताभावे योग्यतेति। ग्रहणयोग्योऽत्यन्ताभावः कः इत्यर्थः । योग्यमात्रप्रतियोगिके योग्यधर्मावच्छिन्नप्रतियोगिताकत्वमिति । योग्यधर्मावच्छिन्नप्रतियोगिता यस्य स योग्यधर्मावच्छिन्नप्रतियोगिताकः। अभाव ग्रहणयोग्यः इत्युक्ते भूतले घट-पिशाचौ न स्तः इत्यभावग्रहापत्तेः । योग्यधर्म घटत्वं तदवच्छिन्नो घटः, तत्प्रतियोगिताकत्वात् । तद्वारणार्थं योग्यमात्रप्रतियोगिक इति । पिशाचस्य प्रतियोगिनः अयोग्यत्वान्न योग्यमात्रप्रतियोगिताक इत्यर्थः । योग्यमात्रप्रतियोगिको ग्रहणयोग्यः इत्युक्ते गुरुत्ववान् घटो नाऽस्तीत्यभाव-ग्रहापत्तेः गुरुत्वविशिष्टघटरूपप्रतियोगिनो योग्यत्वात् । तद्वारणार्थं योग्यधर्मावच्छिन्न प्रतियोगिताक इति । अयं योग्यधर्मावच्छिन्न प्रतियोगिताको न भवति गुरुत्वस्याऽतीन्द्रियत्वात् । बहिरिन्द्रियजन्यलौकिकद्रव्यप्रत्यक्षत्वावच्छिनं प्रति आलोकसंयोगावच्छेदेन चक्षुःसंयोगः कारणम् । बहिरिन्द्रियजन्यलौकिकद्रव्यसाक्षात्कारत्वेन आलोकसंयोगावच्छिनचक्षुःसंयोगत्वेन कार्यकारणभावः इति प्राञ्चः । तन्न । क्वचिच्चक्षुःसंयोगस्य पूर्ववृत्तितया तदभावात् , आलोकसंयोगावच्छिन्नचक्षुःसंयोगाभावादित्यर्थः । तत्र हि चक्षुःसंयोगावच्छिन्नलोकसंयोगस्य सत्त्वात् द्रव्यचाक्षुषं न स्यात् । २७. मुद्रिते पृ. ६२ । ★ (प्रतिना पत्र क्रमांक २/१ ना हांसियामां टिप्पणी आपेली छे। मूलग्रंथमां तथा टिप्पनकमा तेनो संबंध कोनी साथे छे ते स्पष्ट थतुं नथी - "न च चित्ररूपे मानाभावः, चित्रावयवि[नि] चाक्षुषत्वानुपपत्त्या तदङ्गीकारात्। रूपादीनां व्याप्यवृत्तितानियमेन यावद्रूपाणामेकत्राऽवृत्तिः । न च महत्त्वे सत्युद्भूतरूपवत्समवेतत्वमेव चाक्षुषत्वप्रयोजकमिति वाच्यम् , यत्र चित्ररूपावयवारब्ध एवाऽवयवी तत्र रूपवत्समवेतत्वाभावात् । न च तत्राऽपि रूपवत्परम्पराश्रितत्वमस्तीति वाच्यम् , परम्पर(रा)या अननुगमात् रूपवत्समवेतत्वापेक्षया रूपवत्त्वस्य लघुत्वाच्च । इति चन्द्र चन्द्रिकायां उपाध्यायश्रीसिद्धिचन्द्रगणिकृतायां सप्तपदार्थीटीकायाम् ।" Page #10 -------------------------------------------------------------------------- ________________ 59 ननु आलोकसंयोग- चक्षुः संयोगयोः समानकालीनत्वस्थले विनिगमनाविरहात् द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन चक्षुःसंयोगावच्छिन्नालोकसंयोगत्वेन चेति कार्यकारणभावद्वयावश्यकत्वात् यत्र चक्षुःसंयोगः पूर्वं जातः तत्र द्रव्यप्रत्यक्षत्वेन आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन कार्यकारणभावेऽप्यक्षतिरिति चेन्न । आलोकसंयोगावच्छिन्नचक्षुः संयोगत्वेन दुः संयोगावच्छ्त्रिलोकसंयोगत्वेन च कारणत्वे आलोकसंयोगे चक्षुः संयोगः, चतु:संयोगे आलोकसंयोगः इति प्रतीत्यापत्तेः । यथा शाखावच्छेदेन कपिसंयोग शाखायां कपिसंयोग इति । तस्माद् बहिरिन्द्रियजन्यलौकिकप्रत्यक्षत्वेन लोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुः संयोगत्वेन कार्यकारणभाव इति । इत्थं च आलोकसंयोगस्य अधिकरणावच्छेदका ये अवयवास्तदधिगक: चक्षुः संयोग इति प्रतीतिरपि निराबाधा । ॐ विनिगमनाविरहात् आलोकसंयोगावच्छेदकावयवावच्छिन्नचक्षुः संयोगत्वेन संयोगावच्छेदकावयवावच्छिन्नालोकसंयोगत्वेनेति कार्यकरणभावद्वयं तु दावश्यकमेवेति । तन्न । कादाचित्कालोकसंयोगस्याऽवच्छेदकत्वमादाय कालीनचक्षुः संयोगात् द्रव्यप्रत्यक्षापत्तिः, आलोक संयोगावच्छेदवयवावच्छेदेन चक्षुः संयोगस्य सत्त्वात् । चक्षुः संयोगकालीनालोकसंयोगावच्छेदकावयवावच्छित्रचक्षुः संयोगत्वेन लोकसंयोगकालीनचक्षुः संयोगावच्छेदकावयवावच्छिन्न आलोकसंयोगत्वेन च सरणत्वे तु गौरवम् । तस्मात् आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन लोकसंयोगविशिष्टचक्षुः संयोगत्वेन कारणता इति नव्यतराः । तन्न, विनिगमविरहात् * आलोकसंयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन आलोकसंयोगविशिदुः संयोगत्वेन चक्षुः संयोगावच्छेदकावच्छेद्यत्वसम्बन्धेन चक्षुः संयोगविशिकसंयोगत्वेनेति कार्यकारणभावद्वयमावश्यकम् । अवच्छेदकगौरवमधिक आलोकसंयोगावच्छेदका ये अवयवा भित्त्याद्यवयवा इत्यर्थः, तन्निरूपितं अवच्छेद्यत्वं च चक्षुः संयोगे वर्त्तते । अनेन सम्बन्धेन आलोकसंयोगविशिष्टश्चक्षुः संयोगः कारणं, तेन तमः :कालीनचक्षुः संयोगात्र घटप्रत्यक्षत्वम् । Page #11 -------------------------------------------------------------------------- ________________ 60 किञ्च यस्य पटस्याऽर्थं तमसि अर्धं चाऽऽलोके तत्र तमोऽवच्छेदें चक्षुः संयोगात् पटप्रत्यक्षतापत्तिः, स्वावच्छेदकावच्छेद्यत्वसम्बन्धेन आलोकसंयो गविशिष्टचक्षुः संयोगस्य सत्त्वात् । न च तत्रांश एव पटनिष्ठालोकसंयोगस्या वच्छेदकाः प्राक् अंखवच्छेदेन तन्तावालोकसंयोगे तदसम्भवात् । अवच्छेदकता सम्बन्धेन संयोगत्वावच्छिन्नं प्रति अवच्छेदकतासम्बन्धेन संयोगस्य प्रतिबन्ध कत्वात्। तस्माद् द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति विजातीयचक्षुः संयोगः आलोकसंयोगं हेतुरिति सङ्क्षेपः । अत्र सामान्यतो गृहीतगवयपदप्रवृत्तिनिमित्तस्य विशेषजिज्ञासया की गवय इति प्रश्ने गोसदृशो गवय इत्युत्तरवाक्यात् गोसदृशो गवयपदप्रवृत्तिनि मित्तवानित्याकारातिदेशवाक्यार्थशाब्दधीः । प्रश्नोत्तरस्थगवयपदयोर्विशिष्य ऽगृहीतशक्तिकयोर्गवयपदप्रवृत्तिनिमित्तवल्लाक्षणिकत्वात् सा करणम् । त सादृश्यविशिष्टपिण्डदर्शनं तत्सहकारि । ततोऽतिदेशवाक्यार्थस्मृतिः । सा व्यापा तत उपमितिरित्येके । सादृश्यविशिष्टपिण्डदर्शनमेवोद्बोधकीभूत स्वजन्यातिदेशवाक्यार्थस्मृतिव्यापारकं करणमित्यन्ये । परे तु अतिदेशवाक्य र्थस्मृतेरव्यवहितोत्तरमेव सादृश्यविशिष्टपिण्डदर्शने पुनस्तत्स्मृत्यपेक्षाभावात् तस कथं व्यापारता ? न चाऽतिदेशवाक्यार्थशाब्दाद्यनुभव एव तत्स्मृतिद्वारा करणमित्य मतं युक्तं, सादृश्यविशिष्टपिण्डदर्शनवतः अतिदेशवाक्यार्थशाब्दबोधोत्तर क्वचिदुपमितिसम्भवात् । तस्मात् ज्ञानत्वेनोपमितिकरणत्वं ज्ञानमा व्यापारोऽतिदेशवाक्यार्थज्ञानं सादृश्यविशिष्टपिण्डदर्शनं चेत्याहुः | हेतुज्ञानं अनुमानं वह्निव्याप्यधूमवान् पर्वतः इति व्यापारः, प वह्निमानित्यनुमितिः | ननु पर्वतो वह्निमानिति नाऽनुमितेराकारः, किन्तु वह्निव्याप्यधूमवान् पर्व वह्निमानित्याकारा; अन्यथा पर्वतो वह्निमानित्यनुमितित्वावच्छिन्नं प्र वह्निव्याप्यधूमवान् पर्वत इति परामर्षत्वेन कारणत्वं न स्यात्, वह्निमानित्यनुमि ★ आलोक । Page #12 -------------------------------------------------------------------------- ________________ 61 दिव्याप्यालोकवानिति परामर्षादपि सम्भवात् व्यतिरेकव्यभिचारः । न च लिङ्गकानुमितित्वावच्छित्रं प्रति धूमपरामर्षत्वेन हेतुत्वं, तथा च आलोकसामर्षजन्यानुमितिस्तु न धूमलिङ्गका येन व्यभिचारः स्यादिति वाच्यम् । मलिङ्गकत्वं च धूमज्ञानज्ञाप्यत्वं तथा च यत्र धूमः पक्षतावच्छेदकत्वेन भातस्तत्र मवान् पर्वतो वह्निव्याप्यालोकवानिति परामर्षजायां पर्वतो वह्निमानित्याकाकायामनुमितौ व्यभिचारः इति चेन्न । पर्वतो वह्निमानित्यनुमितित्वावच्छिन्नं प्रति वाव्यवहितपूर्वकालवृत्तिधूमपरामर्षस्य व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन कारणता । मस्ति च आलोकपरामर्षजन्यानुमितावपि व्यासिप्रकारकपक्षधर्म- ताज्ञानजन्यत्वं लोकस्याऽपि धूमवद्वह्निव्याप्यत्वात् पक्षधर्मत्वाच्चेति सङ्क्षेपः । २८ 'जन्यपदज्ञानजन्यत्वव्यभिचार्यनुभवत्वाव्यापक जातिशून्यत्वे सति मंदविषयकत्वाव्यभिचारिजातिशून्यधीत्वं शाब्दत्वम् । जन्यं यत् पदज्ञानं सज्जन्यत्वस्य व्यभिचारिणी जन्यपदज्ञानजन्यत्वासमानाधिकरणेत्यर्थः । एतादृशी अनुभवत्वस्याऽव्यापिका या जातिः प्रत्यक्षत्वानुमितित्वादितच्छून्यत्वे सति या मदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वम् । तच्छून्यत्वे सति धीत्वं शाब्दत्वम् प्रत्यक्षत्वादीनां अनुभवत्वाव्यापकत्वं तु यत्र यत्र अनुभवत्वं तत्र तत्र प्रत्यक्षत्वादीनामसत्त्वात् । पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वं शाब्दत्वमित्युक्ते प्रत्यक्षादावतिव्याप्तिः; पदविषयकत्वाव्यभिचारिणीजाति: उपमितित्वं, तच्छून्यत्वे सति धत्वस्य प्रत्यक्षादौ सत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचार्य'नुभवत्वाव्यापक जातिशून्यत्वे सति प्रत्यक्षादौ पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वे सति धीत्वस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचारिणी या अनुभवत्वाव्यापिका जातिः प्रत्यक्षत्वादि तच्छून्यत्वाभावात् जन्यपदज्ञानजन्यत्वव्यभिचारिजातिमत्त्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वमित्युक्ते प्रत्यक्षादावतिव्याप्तिः, प्रत्यक्षादौ जन्यपदज्ञानजन्यत्वव्यभिचारिजा ★ इदं अनुमानलक्षण एव लेख्यम् । २८. मुद्रिते पृ. १५० । २९. ०धीजन्यत्व० मु. | Page #13 -------------------------------------------------------------------------- ________________ 62 तिस्तस्याः सत्त्वात् । पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वस्य सत्त्वाच्च । तद्वारणाय प्रथमं जातिशून्यत्वमिति पदम् । अनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वमित्युक्तेऽसम्भवः, शाब्दे ज्ञाने पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं तच्छून्यत्वस्य सत्त्वेऽपि अनुभवत्वाव्यापिका जातिः शाब्दत्वं तच्छून्यत्वस्याऽसत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचारित्वं अनुभवत्वाव्यापकजातेविशेषणं तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी या अनुभवत्वाव्यापिका जाति: प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वात् । नाऽसम्भवः, जन्यपदज्ञानजन्यत्वव्यभिचारिजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्ते असम्भव एव । शाब्दज्ञाने पदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वं, तच्छून्यस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचारिणी जाति: अनुभवत्वं तच्छून्यत्वस्याऽसत्वात्। तद्वारणाय अनुभवत्वाव्यापकत्वं जातिविशेषणम् । तथा च जन्यपदज्ञानजन्यत्वव्यभिचारिणी अनुभवत्वस्याऽव्यापिका या जाति: प्रत्यक्षत्वादि तच्छून्यत्वस्य शाब्दे सत्त्वान्नाऽसम्भवः । पदधीजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वमित्युक्तेऽनुमितावतिव्याप्तिः। पदधीः ईश्वरधी:, तज्जन्यत्वव्यभिचारिणी नित्यनिष्ठा जातिस्तच्छून्यत्वस्य पदविषयकत्वाव्यभिचारिणी जाति: उपमितित्वं तच्छून्यत्वस्य च अनुमितौ सत्त्वात् । तद्वारणाय प्राथमिकं जन्यपदम् । तथा च जन्यपदधीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका जातिः अनुमितित्वादि तच्छून्यत्वस्याऽनुमितौ सत्त्वान्नाऽतिव्याप्तिः । जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापकजातिशून्यत्वे सति धीत्वमित्युक्ते उपमितावतिव्याप्तिः । तद्वारणाय पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सतीति ।। तथा चौपमितौ जन्यपदज्ञानजन्यत्वव्यभिचारिअनुभवत्वाव्यापक-जातिः प्रत्यक्षत्वादि तच्छून्यत्वस्य सत्त्वेऽपि पदविषयकत्वाव्यभिचारिजातिः उपमितित्वं, तच्छून्यत्वस्याऽसत्त्वात् नाऽतिव्याप्तिः । जातावतिव्याप्तिवारणाय धीपदम् । Page #14 -------------------------------------------------------------------------- ________________ साहित्य श्रये न लक्षणा । धवखदिरौ छिन्धीत्यत्र धवखदिरमात्रप्रतीत्या क्लृप्तशक्त्यैवोपपत्तेः धवपदस्य धवे शक्तिः खदिरपदस्य खदिरे शक्तिस्तथा च भ्यां शक्तिभ्यामेव धवखदिराविति स्वरूपद्वयप्रतीतेः न साहित्याश्रये लक्षणेति भावः । नीलोत्पलमित्यत्र नीलाभिन्नमुत्पलमित्यर्थः । तथा चोत्पलपदस्य नीलाभेदविशिष्टोत्पले लक्षणेति केचित् । तन्न । अभेदस्य संसर्गविधयैव मानात् । ३० 63 प्रथमायामिति । घटपदोत्तरप्रथमायाः षष्ठ्यर्थे वा लक्षणा । तथा च 'न घट: पट' इत्यत्र घटसम्बन्धवदभाववान् पटः । इत्थं च घटसम्बन्धरूपः षष्ठ्यर्थः अभावोपरि प्रकारतया भासत इति । विभक्त्यर्थप्रकारको नामाऽर्थविशेष्यकः शाब्दबोधः, स च भेदेनैवोपपन्नः । कथमिति ? भारतस्य श्रवणमित्यत्र भारतकर्मकं श्रवणमित्यर्थः । स च विना लक्षणामनुपपन्नः । ३१ “तथेति । घये नाऽस्तीत्यत्राऽपि प्रथमायाः षष्ठ्यर्थलक्षणा । तथा च ये नाऽस्तीत्यत्र घटसम्बन्ध्यभावोऽस्तीत्यर्थः । ३२ "एकस्यामिति । एकाया बहुत्ववैशिष्ट्याद् बहुत्वस्यैकत्वे लक्षणा । घटः पटो नेत्यत्र पटाभाववान् घट इति शाब्दबोधः । तथा च घटः पटापावस्याऽऽश्रयः आश्रयी च घटाभावः । एवं च पटाभाव घटयोः आश्रयाश्रयीभावः सम्बन्धः, ननु पटाभाव-घटयोः कथं अन्वयः ? नामार्थयोर्भेदेनाऽन्वयस्याऽव्युत्पत्तेः । ननु घटः पटये नेत्यत्र घटपदस्याऽर्थो घटः, पटपदस्याऽर्थो पट नञर्थश्चाऽभावः । नञत्तरलुप्ता या षष्ठी तदर्थः सम्बन्धः । तदुपस्थिति नजुत्तरलुप्तषष्ठीस्मरणात्। तथा च घटो नेत्यस्य घटाभावसम्बन्ध इत्यर्थः । वाक्यार्थस् घटाभावसम्बन्धवान् घटः । एवं च न नामार्थयोरन्वयः किन्तु विभक्त्यर्थनामार्थयोरिति । स च भेदेनाऽप्युपपन्न इति चेत्, न । “षष्ठीलोप-मजानतो ऽपीति । ३०. मुद्रिते पृ. २२९ । प्रथमाया इति मु । ३१. मुद्रिते पृ. २३४ । ३२. मुद्रिते पृ. २२९ ३३. मुद्रिते पृ. २३१ । Page #15 -------------------------------------------------------------------------- ________________ ननु नञ्पदस्याऽभाववति लक्षणया अभाववान् अर्थः । तथा च पटो नेत्यस्य पटयभाववानित्यर्थः । वाक्यार्थस्तु पटाभाववान् घट इति । पटाभाववदभिन्नो घट इति यावत् । तथा च नामार्थयोरभेदेनैवाऽन्वय इति चेत् , न । घटस्येति । यद्यपि अभेदसम्बन्धेन पटाभाववति घटे अन्वयस्तथाऽपि पटे अभावस्याऽन्वयो न स्यात् , अभावस्यैकदेशत्वात्। यथा चैत्रस्य पितेत्यत्र पितृत्वस्य जनकपुंस्त्वार्थकत्वात् चैत्रपदस्य जनकत्वेऽन्वयः, न तु जनक-पुंस्त्वे। तथा च चैत्रस्य पितेत्यस्य चैत्रस्य जनक इत्यर्थः । गौः शुक्लेत्यत्र शुक्लाभिन्ना गौः इति शाब्दबोधः शुक्लाभेदवती गौरिति यावत् । तथा च शुक्लाभेदान्वयो गवि जायते। तस्य शुक्लाभेदान्वयस्याऽशक्यत्वात् तद् ज्ञानं न स्यात् । कार्यत्वान्विते पदानां शक्तिरिति । कार्यतावाचकपदसमभिव्याहृतं वाक्यं कार्यत्वविशिष्टं बोधयति । तथा हि-यजेतेति वाक्यं कार्यतावाचकं पदं विधिस्तत्समभिव्याहृतमेव योगो मत्कार्य(1) इति बोधजनकम् । तथा च कार्यत्वविशिष्टे यागे यजेतेति वाक्यस्य शक्तिः । शास्त्राच्चन्द्रादिमहत्त्वप्रतीत्युत्तरमपि चन्द्रादिस्वल्पतायाः शास्त्रान्महत्त्वप्रीत्या कृत्वा बाधानापत्तेरिष्टापत्तिरित्यत आह - चरमेति । कार्यत्वान्विते शक्तिकल्पने गौरवं आवश्यकत्वेन प्रामाणिकत्वात्र्याय्यमेवेत्यत आह - किञ्च ।। असंसर्गाग्रहेति । यत्र कार्यतावाचकं पदं नाऽस्ति तत्र नाऽन्वयबोधः । घटदिपदात् घटबोधस्तु घटपदं घटश्चैतदुभयोर्वाच्यवाचकभावरूपो य: असंसर्गस्तस्याऽग्रहणात् । भेदसम्बन्धेन नामार्थप्रकारकशाब्दे विभक्तिजन्योपस्थिति: कारणम् । ३७ ३८ ३४. मुद्रिते पृ. २३१। ३५. मुद्रिते पृ. १८०। १८५। ३८. मुद्रिते पृ. १८२ । ३६. मुद्रिते पृ. १८४ । ३७. मुद्रिते पृ.] Page #16 -------------------------------------------------------------------------- ________________ 65 भूतले घट इत्यत्र भूतलाधारको घटः तथा च भूतलरूपो नामार्थः विभक्त्यर्थः. धारत्वं तदुपरि प्रकारतया भासते। तत्र विशेष्यतासम्बन्धेन विभक्त्यर्थः, आधारत्त दुपस्थितेः कारणत्वम्। । ननु औपगव इत्यत्र अण्प्रत्ययार्थः अपत्यत्वं, तदुपरि उपगुः प्रकारतया भासते। तत्र विशेष्यतासम्बन्धेन विभक्यर्थोपस्थितिः कारणं नाऽस्तीति व्यभिचार इति चेत् , न । भेदसम्बन्धेन नामार्थप्रकारकशाब्दबोधे विभक्तिप्रत्ययान्यतरन्योपस्थितिः कारणम् । अस्ति च औपगव इत्यत्राऽपि उपगुः अपत्यत्वोपरि भारतया भासते। तत्र विशेष्यतासम्बन्धेन अपत्यत्वरूपप्रत्ययार्थोपस्थितिः कारणम् बद्धा भेदसम्बन्धेन नामार्थप्रकारकशाब्दबोधे प्रत्ययार्थोपस्थिति कारणं, विभक्तरपि व्ययत्वात्। भूतले घट इत्यत्र औपगव इत्यत्र च प्रागुक्तरीत्या बोधः उपपन्नः । नामार्थप्रकारकशाब्दबोधे प्रत्ययजन्योपस्थितित्वेन कारणत्वे नीलोत्पलमित्यत्र नीलपदार्थः उत्पलोपरि प्रकारतया भासते, तत्र विशेष्यतासम्बन्धेन प्रत्यवार्थोपस्थितित्वेन कारणत्वं नास्तीति व्यभिचारः । तद्वारणार्थं भेदसम्बन्धेनेति विशेषणम् । नीलोत्पलमित्यत्र नीलरूपो नामार्थः उत्पले अभेदसम्बन्धेनाऽन्वेतीति नाऽतिव्याप्तिः । इदमपि निपातातिरिक्तनामार्थविशेष्यके बोध्यम् । गज इव रौतीत्यत्र भेदसम्बन्धेन गजः इवार्थोपरि प्रकारतया भासते । तत्र विशेष्यतासम्बन्धेन प्रत्ययार्थोपस्थिति: कारणं नाऽस्तीति । तथा च भेदसम्बन्धेन निपातातिरिक्त विशेष्यकनामार्थप्रकारकश(शा)ब्दबोधत्वावच्छिन्नां प्रति विशेष्यतासम्बन्धेन प्रत्ययार्थोपस्थितित्वेन कारणता। अन्यथा भूतलं घट-इत्यत्र भूतल-घटयोरन्वयः स्यात् । भूतले घट इत्यत्र तु भूतलं आधारत्वरूप-प्रत्ययार्थे अन्वेति, आधारत्वं च घटे अन्वेति । नामार्थ - धात्वर्थयोरपि साक्षान्नाऽन्वयः किन्तु विभक्त्यर्थद्वारा । चैत्रेण आकाशो भूतलवृत्तिः तनिष्ठसंयोगप्रतियोगिकत्वात् घटवत् तथा सत्यनेनैव हेतुना भूतलस्याऽप्याकाशवृत्तित्वं स्यात् तेन आकाशो वृत्तिः । Page #17 -------------------------------------------------------------------------- ________________ 66 ओदनः पच्यते इत्यत्र चैत्रकर्तृकपाकजन्यफलशाली ओदनः इति शाब्दबोधः । चैत्ररूपो नामार्थ: कर्तृत्वरूपप्रत्ययार्थे अन्वेति । कर्तृत्वं धात्वर्थे पाके अन्वेति । तथा च कर्तृत्वरूपविभक्त्यर्थद्वारा चैत्ररूपो नामार्थः धात्वर्थे पाकेऽन्वेति न तु साक्षात्। इत्थं च निरूपितत्वसम्बन्धेन चैत्रीयकर्तृत्वविशिष्टपाकजन्यफ-लशाली ओदनः इति शाब्दबोधः । जनकतासम्बन्धेन चैत्रविशिष्टपाकजन्यफ-लशाली ओदन इति शाब्दबोधे तु चैत्रः ओदनः पच्यते इति प्रयोगापत्तेः। जनकतासम्बन्धेन पाके चैत्रवैशिष्ट्यं तु तदुपस्थापकपदाभावेऽपि संसर्गतयेति न दोषः । घटमित्यत्र घटवत्कर्मत्वमित्यन्वयबोधः । अत्र घट इति पदं अम्पदसमभिव्याहृतमेव घटवत्कर्मत्वमित्यन्वयबोधजनकम् । अतो घटपदस्य घटवत्कर्मत्वमित्यन्वयबोधे अम्पदसमभिव्याहार: आकाङ्क्षा। अत्र आधारतासम्बन्धेन कर्मत्वं घटे, आधेयतासम्बन्धेन घट: कर्मत्वे । घटमानयेत्यत्र घटवत्कर्मत्ववदानयनविशिष्टाकृतिरित्यर्थः । आनयेत्यत्राऽऽनयनविशिष्टाकृतिरित्यर्थः । तथा च नीञ्पदं हिसमभिव्याहृतमेव आनयनविशिष्टाकृतिरित्यन्वयबोधजनकम्। अतो नीञ्यदस्य ही(हि)पदसमभिव्याहार: आनयविशिष्टा-कृतिरिति बोधे आकाङ्क्षा । गामानयेत्यत्र गोकर्मकानयनविशिष्टाकृतिः। दण्डेन गामानयेत्यत्र दण्डकर्तृकगोकर्मकानयनविशिष्टाकृतिरित्यर्थः । विशिष्टज्ञानत्वावच्छिन्नं प्रति असंसर्गाग्रहत्वेन कारणत्वे भूतले घट इति लौकिक ज्ञानं न स्यात् , भूतलेऽनुमित्यात्मकघटासंसर्गग्रहस्य सत्त्वात्। तद्वारणार्थं लौकिकसाक्षात्कारातिरिक्तत्वं विशेषणम् । लौकिकसाक्षात्कारतिरिक्तविशिष्टज्ञानत्वावच्छिन्नं प्रति असंसर्गाग्रहत्वेन कारणत्वे शङ्के अलौकिक: पीतत्वभ्रमो न स्यात् , शङ्ख पीतत्वासंसर्गग्रहस्य सत्त्वात्। तद्वारणाय पित्तादिदोषजन्यत्वं विशेषणम् । तथा च लौकिक साक्षात्कारातिरिक्तपित्तादिदोषाजन्यविशिष्टज्ञान-त्वेन असंसर्गाग्रहत्वेन कार्यकारणभावः । वस्तुतस्तु शङ्के पीतत्वभ्रमस्याऽपि लौकिकत्वादलौकिकत्वेन विशेषणादेव न व्यभिचार इति पित्तादिदोषाजन्यत्वं विशेषणं चिन्त्यम्। * चैत्रविशिष्टो यः पाकस्तज्जन्यं यत्फलं तच्छाली । Page #18 -------------------------------------------------------------------------- ________________ ४० ४१ __ आशुतरेति ।मिकाणां मेलकाभावादिति चेत् , न । क्रमोत्पन्नानां पिटापदादीनां मेलकस्य सत्त्वात् । तद्वारणार्थं आशुतरविनाशिनामिति । टिपदादयस्तु नाऽऽशुतरविनाशिन इति आशुतरविनाशिनां मेलकाभावादिति चेत् , । सहोच्चारितानां शब्दानां मेलकस्य सत्त्वात् । तद्वारणार्थं क्रमिकाणामिति । चिकीर्षात्वेन कृतिसाध्यत्वज्ञानत्वेन कारणतेति कृतिसाध्यत्वज्ञानं विकीर्षात्वावच्छिन्नं प्रति विशेषसामग्री, चिकीर्षां प्रति सामान्यसामग्री च । लवदनिष्टाननुबन्धित्वज्ञानं इष्टसाधनत्वज्ञानं च। मण्डलीकरणादौ च चिकीर्षोपादककृतिसाध्यताज्ञानत्वरूपविशेषसामग्रीसत्त्वेऽपि निरुक्तसामान्यसामग्री-विरहान्न चिकीर्षोत्पादककृतिसाध्यताज्ञानत्वरूपविशेषसामग्रीसत्त्वेऽपि निरुक्त - सामान्यसामग्रीविरहान्न चिकीर्षा । नन्वेवं चिकीर्षां प्रति कार्यकारणभावत्रयं, चिकीर्षायाश्च प्रवृत्तौ कारणत्वं, तथा च गौरवं लाघवं वा सममेवेत्यत आह - चिकीर्षात्वावच्छिन्नं प्रति कृतिसाध्यत्वज्ञानत्वेन कारणत्वं मण्डलीकरणादौ च कृतिसाध्यत्वरूपचिकीर्षाजनककारणसत्त्वेऽपि बलवदनिष्टसाधनत्वज्ञानस्य प्रतिबन्धकस्य सत्त्वान्न प्रवृत्तिः । - इष्टसाधनत्वं न विधिपदशक्यं, यागे साधनत्वस्यैवाऽसत्त्वात् । यागे साधनत्वासम्भवः कथमिति चेत् - आशुतरविनाशित्वेनेति । विधिपदशक्यमपूर्वमेव । तथा चाऽपूर्वे यागस्य विषयतासम्बन्धेनाऽन्वयः, यागीयापूर्वे यागनिरूपितविषयतायाः सत्त्वात् । . ग्रामं गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलव्यापारवानित्यर्थः । अत्र कर्मत्वं च क्रियाजन्यफलशालित्वम् । अत्र क्रियामात्रं धात्वर्थः, फलं द्वितीयार्थः । जन्याश्रयत्वे संस! इति ।न्यायभास्करस्तु-फलविशिष्टा क्रिया धात्वर्थः, आश्रयत्वं द्वितीयार्थः, जन्यत्वं संसर्गः । तथा च संयोगविशिष्टा क्रिया गमेरर्थः, विभागविशिष्टा क्रिया त्यजेरर्थः । क्रियायां संयोगवैशिष्ट्यं तु जनकतासम्बन्धेन। तथा च त्यजि-गम्योर्न पर्यायत्वम्। क्रियामात्रस्य शक्यत्वे तु त्यजिगम्योः ३९-४०. मुद्रिते पृ. २८८ । ४१. आशुविनाशिनां इति मु. । Page #19 -------------------------------------------------------------------------- ________________ 68 पर्यायत्वं दुर्वारमिति व्यक्तमाकरे । त्यजिगम्योः पर्यायत्वे इष्टापत्तौ तु गच्छतीत्यत्र त्यजतीत्यापत्तेः । तद्वारणाय गच्छतीत्यादिसमभिव्याहारविशिष्टद्वितीयात्वेन संयोगबोधत्वेन कार्यकारणभावकल्पने तु गौरवम् । तस्मात् फलविशिष्टैव क्रिया धात्वर्थः । अत्र विनिगमनाविरहात् क्रियाविशिष्टं फलं धात्वर्थः इत्यपि भवति तथाऽप्यत्र फलविशिष्टैव क्रिया धात्वर्थः । तथा च गच्छतीत्यत्र धात्वर्थतावच्छेदकं फलं संयोगः, त्यजतीत्यत्र विभाग इति । तस्या आख्यातार्थेति । आख्यातपदोपस्थाप्यसङ्ख्यायाः आख्यातविशेष्येऽन्वयनियमः । आख्यातार्थविशेष्यत्वं च विभक्त्यर्थाविशेषणीभूतनामार्थत्वम् । चैत्रः ओदनं पचतीत्यत्र ओदनरूपो नामार्थः कर्मत्वरूपविभक्त्यर्थे विशेषणीभूतः । अविशेषणीभूतो - नामार्थश्चैत्रः आख्यातार्थविशेष्यः । ननु ओदनस्याऽन्वयः कर्मत्वे, कर्मत्वान्वयः पाके, पाकस्याऽ ऽनुकूलतासम्बन्धेन कृतौ कृतेश्च चैत्रेऽन्वयस्तथा च पाकविशेषणत्वेन भासमानं कर्मत्वं तदेव कथं नाऽऽख्यातार्थविशेष्यं ? विभक्त्यर्थोपरि अविशेषणीभूय भासमानत्वादिति चेत् न । नामार्थपदेन तन्निरासात् । कर्मत्वं तु द्वितीयार्थो न तु नामार्थः । अत एव पाकोऽपि न आख्यातार्थविशेष्यः, तस्य धात्वर्थत्वेन नामार्थत्वाभावात् । > चैत्रेण ओदनः पच्यते इत्यत्र चैककर्तृकपाकजन्यफलशाली ओदनः इति शाब्दबोधः । अत्र ओदनः आख्यातार्थविशेष्यः, तस्य मुख्यविशेष्यत्वेन भानात् । न तु कर्ता आख्यातार्थविशेष्यः, तस्य कर्तृत्वरूपविभक्त्यर्थोपरि विशेषणीभूय भासमानत्वात् । तथा च विभक्त्यर्थाविशेषणीभूतो नामार्थः ओदनः । आख्यातार्थविशेष्यः- पचतीत्यत्र चैत्रः आख्यातार्थविशेष्यः तत्र सङ्ख्यान्वयः । चिन्तामणिकृन्मते तु यत्र रूपाख्यातार्थस्य चैत्रेणाऽनन्वये चैत्रस्याऽऽ ख्यातार्थविशेष्यत्वाभावादाख्यातपदोपस्थाप्यसङ्ख्यान्वयो न स्यात् इति । स्थीयते इत्यत्राऽनुकूलतासम्बन्धेन कृतिविशिष्टा स्थितिरिति शाब्दबोधः । तथा चाऽनुकूलतासम्बन्धेन कृतिर्धात्वर्थोपरि प्रकारतया भासते इति Page #20 -------------------------------------------------------------------------- ________________ 69 IAS 42 विशेष्यकोऽत्राऽन्वयबोधः / अत्राऽऽख्यातार्थविशेष्यत्वाभावात् मानन्वयः। र स्वप्रकाशेति / स्वप्रकाशज्ञानवादिनो-नाऽयं घट इत्याकारो ज्ञानस्य घष्टमहं जानामीत्याकारकम् / तथा च ज्ञानं यथा स्वात्मानं विषयीकरोति स्वगतं प्रामाण्यमपि विषयीकरोतीत्यर्थः / ज्ञानं स्वविषये घटादौ घटादीनां कर्मत्वान्यथानुपपत्त्या ज्ञातताख्यं फलं जनयति तथा च ज्ञाततया ज्ञानमनु। अनुमानं च - अयं ज्ञानविषयो ज्ञाततावत्वादिति / इत्थं चाऽनुमित्या लानं विषयीक्रियते तथा ज्ञानगतं प्रामाण्यमपि, यथा वह्यनुमित्या वह्निनिष्ठो / तथा च ज्ञानग्राहकमनुमानं तदेव प्रामाण्यस्येत्यर्थः / अयं घट इत्याकस्योत्पन्नज्ञानस्याऽप्रत्यक्षत्वात्तदनुमेयत्वमिति / गुञ्जायां वह्निरिति ज्ञानं गुञ्जाविशेष्यकं वह्नित्वप्रकारकम् / वह्नौ गुञ्जा ज्ञानं वह्निविशेष्यकं गुञ्जात्वप्रकारकं, अस्ति च वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति विह्नित्ववद्विशेष्यकत्वं वह्नित्वप्रकारकत्वम् , वह्नौ गुञ्जेति भ्रमे वह्नित्ववद्विशेत्वस्य भासमानत्वात् गुञ्जायां वह्निरिति भ्रमे वह्नित्वप्रकारकत्वस्य भासमानच। तद्वद्विशेष्यत्वावच्छेदेन तत्प्रकारकत्वपक्षे तु नाऽतिव्याप्तिः, तद्वद्विशेष्यमावच्छेदेन तत्प्रकारकत्वानवभासात् / वह्नि-गुञ्जयोर्गुञ्जा-वह्निरिति भ्रमे त्ववद्विशेष्यकत्वं वह्नौ गुञ्जा इत्यत्र भासते, वह्नित्वप्रकारकत्वं गुञ्जायां वह्निरित्यत्र बसते ; न तु तद्विशेष्यकत्वावच्छेदेनेत्युक्तम् / / // इति पादशाहश्रीअकबरजल्लालदीनसूर्यसहस्रनामाध्यापक- श्रीशत्रुतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय श्रीभानुचन्द्रगणिशिष्यातिरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्तखुसफहमापराआनमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितं न्यायसिद्धान्तमञ्जरीटिप्पनकं सम्पूर्ण / मप्तिमगात् / संवत् 1706 वर्षे आश्विनशुदि 10 शुक्र / महोपा-- यश्रीसिद्धिचन्द्रगणिभिलिखितं श्रीवडग्रामे / / / मुद्रिते पृ. 344 /