________________
60
किञ्च यस्य पटस्याऽर्थं तमसि अर्धं चाऽऽलोके तत्र तमोऽवच्छेदें चक्षुः संयोगात् पटप्रत्यक्षतापत्तिः, स्वावच्छेदकावच्छेद्यत्वसम्बन्धेन आलोकसंयो गविशिष्टचक्षुः संयोगस्य सत्त्वात् । न च तत्रांश एव पटनिष्ठालोकसंयोगस्या वच्छेदकाः प्राक् अंखवच्छेदेन तन्तावालोकसंयोगे तदसम्भवात् । अवच्छेदकता सम्बन्धेन संयोगत्वावच्छिन्नं प्रति अवच्छेदकतासम्बन्धेन संयोगस्य प्रतिबन्ध कत्वात्। तस्माद् द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति विजातीयचक्षुः संयोगः आलोकसंयोगं हेतुरिति सङ्क्षेपः ।
अत्र सामान्यतो गृहीतगवयपदप्रवृत्तिनिमित्तस्य विशेषजिज्ञासया की गवय इति प्रश्ने गोसदृशो गवय इत्युत्तरवाक्यात् गोसदृशो गवयपदप्रवृत्तिनि मित्तवानित्याकारातिदेशवाक्यार्थशाब्दधीः । प्रश्नोत्तरस्थगवयपदयोर्विशिष्य ऽगृहीतशक्तिकयोर्गवयपदप्रवृत्तिनिमित्तवल्लाक्षणिकत्वात् सा करणम् । त सादृश्यविशिष्टपिण्डदर्शनं तत्सहकारि । ततोऽतिदेशवाक्यार्थस्मृतिः । सा व्यापा तत उपमितिरित्येके । सादृश्यविशिष्टपिण्डदर्शनमेवोद्बोधकीभूत स्वजन्यातिदेशवाक्यार्थस्मृतिव्यापारकं करणमित्यन्ये । परे तु अतिदेशवाक्य र्थस्मृतेरव्यवहितोत्तरमेव सादृश्यविशिष्टपिण्डदर्शने पुनस्तत्स्मृत्यपेक्षाभावात् तस कथं व्यापारता ? न चाऽतिदेशवाक्यार्थशाब्दाद्यनुभव एव तत्स्मृतिद्वारा करणमित्य मतं युक्तं, सादृश्यविशिष्टपिण्डदर्शनवतः अतिदेशवाक्यार्थशाब्दबोधोत्तर क्वचिदुपमितिसम्भवात् । तस्मात् ज्ञानत्वेनोपमितिकरणत्वं ज्ञानमा व्यापारोऽतिदेशवाक्यार्थज्ञानं सादृश्यविशिष्टपिण्डदर्शनं चेत्याहुः |
हेतुज्ञानं अनुमानं वह्निव्याप्यधूमवान् पर्वतः इति व्यापारः, प वह्निमानित्यनुमितिः |
ननु पर्वतो वह्निमानिति नाऽनुमितेराकारः, किन्तु वह्निव्याप्यधूमवान् पर्व वह्निमानित्याकारा; अन्यथा पर्वतो वह्निमानित्यनुमितित्वावच्छिन्नं प्र वह्निव्याप्यधूमवान् पर्वत इति परामर्षत्वेन कारणत्वं न स्यात्, वह्निमानित्यनुमि
★ आलोक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org