________________
61
दिव्याप्यालोकवानिति परामर्षादपि सम्भवात् व्यतिरेकव्यभिचारः । न च लिङ्गकानुमितित्वावच्छित्रं प्रति धूमपरामर्षत्वेन हेतुत्वं, तथा च आलोकसामर्षजन्यानुमितिस्तु न धूमलिङ्गका येन व्यभिचारः स्यादिति वाच्यम् । मलिङ्गकत्वं च धूमज्ञानज्ञाप्यत्वं तथा च यत्र धूमः पक्षतावच्छेदकत्वेन भातस्तत्र मवान् पर्वतो वह्निव्याप्यालोकवानिति परामर्षजायां पर्वतो वह्निमानित्याकाकायामनुमितौ व्यभिचारः इति चेन्न । पर्वतो वह्निमानित्यनुमितित्वावच्छिन्नं प्रति वाव्यवहितपूर्वकालवृत्तिधूमपरामर्षस्य व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन कारणता । मस्ति च आलोकपरामर्षजन्यानुमितावपि व्यासिप्रकारकपक्षधर्म- ताज्ञानजन्यत्वं लोकस्याऽपि धूमवद्वह्निव्याप्यत्वात् पक्षधर्मत्वाच्चेति सङ्क्षेपः ।
२८
'जन्यपदज्ञानजन्यत्वव्यभिचार्यनुभवत्वाव्यापक जातिशून्यत्वे सति मंदविषयकत्वाव्यभिचारिजातिशून्यधीत्वं शाब्दत्वम् । जन्यं यत् पदज्ञानं सज्जन्यत्वस्य व्यभिचारिणी जन्यपदज्ञानजन्यत्वासमानाधिकरणेत्यर्थः । एतादृशी अनुभवत्वस्याऽव्यापिका या जातिः प्रत्यक्षत्वानुमितित्वादितच्छून्यत्वे सति या मदविषयकत्वाव्यभिचारिणी जातिः उपमितित्वम् । तच्छून्यत्वे सति धीत्वं शाब्दत्वम् प्रत्यक्षत्वादीनां अनुभवत्वाव्यापकत्वं तु यत्र यत्र अनुभवत्वं तत्र तत्र प्रत्यक्षत्वादीनामसत्त्वात् ।
पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वं शाब्दत्वमित्युक्ते प्रत्यक्षादावतिव्याप्तिः; पदविषयकत्वाव्यभिचारिणीजाति: उपमितित्वं, तच्छून्यत्वे सति धत्वस्य प्रत्यक्षादौ सत्त्वात् । तद्वारणाय जन्यपदज्ञानजन्यत्वव्यभिचार्य'नुभवत्वाव्यापक जातिशून्यत्वे सति प्रत्यक्षादौ पदविषयकत्वाव्यभिचारिजाति: उपमितित्वं तच्छून्यत्वे सति धीत्वस्य सत्त्वेऽपि जन्यपदज्ञानजन्यत्वव्यभिचारिणी या अनुभवत्वाव्यापिका जातिः प्रत्यक्षत्वादि तच्छून्यत्वाभावात् जन्यपदज्ञानजन्यत्वव्यभिचारिजातिमत्त्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यत्वे सति धीत्वमित्युक्ते प्रत्यक्षादावतिव्याप्तिः, प्रत्यक्षादौ जन्यपदज्ञानजन्यत्वव्यभिचारिजा
★ इदं अनुमानलक्षण एव लेख्यम् । २८. मुद्रिते पृ. १५० । २९. ०धीजन्यत्व० मु. |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org